Page loading... Please wait.
4|3|122 - पत्रपूर्वादञ्
॥ तस्मै पाणिनये नमः ॥
4|3|122
SK 1502
पत्रपूर्वादञ्   🔊
सूत्रच्छेदः
पत्र-पूर्वात् (पञ्चम्येकवचनम्) , अञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पतन्ति तेन इति पत्रम् अश्वादिकं वाहनम् उच्यते। तत्पूर्वाद् रथशब्दातञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। पूर्वस्य यतो ऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
पतन्त्यनेनेति पत्रमिति । ठ्दाम्नीशसऽ इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्यौक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ॥
सिद्धान्तकौमुदी
पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥
पत्त्रपूर्वादञ् - पत्रपूर्वादञ् । रथादित्येव । पत्रं वाहनमिति ।पत्रं वाहनपक्षयो॑रिति कोशः ।
पत्त्रपूर्वादञ् - पत्त्रपूर्वादञ् । पूर्वस्य यतोऽपवादः । पत्रमिति । पतन्त्यनेनेति विग्रहेदाम्नि॑त्यादिना ष्ट्रन् । अआरथस्येदमिति । अआयुक्तो रथोऽआरथस्तस्याङ्गमित्यर्थः । पत्राध्वर्यु । अणोऽपवादः । पत्राद्वाह्रे । पत्त्राद्वाह्र इति । इह पत्त्रेत्यर्थग्रहणे, इतरोयस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.