Page loading... Please wait.
4|3|12 - श्राद्धे शरदः
॥ तस्मै पाणिनये नमः ॥
4|3|12
SK 1382
श्राद्धे शरदः   🔊
सूत्रच्छेदः
श्राद्धे (सप्तम्येकवचनम्) , शरदः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शरच्छब्दात् ठञ् प्रत्ययो भवति श्राद्धे ऽभिधेये शैषिकः। ऋत्वणः अपवादः। श्राद्धे इति च कर्म गृह्यते, न श्रद्धावान् पुरुषः, अनभिधानात्। शारदिकं श्राद्धम्। शारदम् अन्यत्।
`ऋत्वणोऽपवादः`इति। सन्धिवेलादिसूत्रेण 4|3|16 प्राप्तस्य। `{श्राद्ध इति न कर्म गृह्रते` इत्येव मूलपाठो दृश्यते।`श्राद्ध इति कर्म गृह्रते-- पदमञ्जरी।} श्राद्धं इति न कर्म गृह्रते` इति। क्रियाविशेषः कश्चित् शास्त्रोक्तेन विधिना साध्यः श्राद्धग्रहणेन गृह्रते, न तु श्रद्धावान् पुरुषः। कुत एतत्? तस्य प्रत्ययेनानाभिधानात्। शारदिकशब्देन ह्रभिधानशक्तिस्वाभाव्यात् कर्मण एवाभिधानम्, न पुरुषस्य॥
श्राद्ध इति कर्म गृह्यते इति । श्रद्धास्मिन्विद्यत इति ठ्प्रज्ञाश्रद्धार्चाऽ इति मत्वर्थीयोऽणः, श्रद्धया सम्पाद्यं पित्र्यं कर्म श्राद्धशब्देन उच्यत इत्यर्थः । न श्रद्धावान् पुरुषं इति । यदा स एव णः षष्ठ।ल्र्थे भवति तदा पुरुषवृत्तिः श्राद्धशब्दः । कथं पुनः शब्दसाधारण्येऽप्ययं विशेषो लभ्यते ? इत्याह---अनभिधानादिति । शारदिकं श्राद्धमिति । यद्यत्र विहितं ततत्र भवमिति भवे प्रत्यययः ॥
सिद्धान्तकौमुदी
ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥
श्राद्धे शरदः - श्राद्धे शरदः । ठञ् स्यादिति । शेषपूरणमिदम् । ननुकालाट्ठ॑ञित्येव सिद्धे किमर्थमिदमित्यत आह — ऋत्वण इति ।सन्धिवेसाद्यृतुनक्षत्रेभ्योऽणि॑ति वक्ष्यमाणस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् ।
श्राद्धे शरदः - श्राद्धमिति । भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः ।प्रज्ञाश्रद्धार्चाभ्योऽणः॑इति मत्वर्थीयेन व्युत्पादितः श्रद्धातान्पुरुषस्तु न गृह्रते, अनभिधानात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.