Page loading... Please wait.
4|3|117 - संज्ञायाम्
॥ तस्मै पाणिनये नमः ॥
4|3|117
SK 1497
संज्ञायाम्   🔊
सूत्रच्छेदः
संज्ञायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तृतीयासमर्थात् कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन चेत् संज्ञा ज्ञायते। मक्षिकाभि कृतं माक्षिकम्। कार्मुकम्। सारघम्। पौत्तिकम्। मधुनः संज्ञाः एताः।
बाल-मनोरमासंज्ञायाम् 1476, 4.3.119 संज्ञायां। तेनेत्येवेति। तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। `ग्रन्थे` इति नानुवर्तते। तदाह--अग्रन्थार्थमिति। बाल-मनोरमासङ्घाङ्कलक्षणेष्वञ्यञिञामण् 1486, 4.3.119 सङ्घाङ्क। यञन्तात्, अञन्तात्, इञन्ताच्च सङ्गे अङ्के लक्षणे च इदन्त्वेन विवक्षितेऽणित्यर्थः। छस्यापवादः। घोषेति। `सङ्घाङ्कलक्षणघोषेषु` इति सूत्रं कर्तव्यमित्यर्थः। तथाच तिरुआः प्रकृतयः, प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम्। गार्ग इति। सङ्घोऽङ्को घोषो वे`ति शेषः। गार्गमिति। `लक्षण`मिति शेषः। एवं दाक्ष दाक्षमित्यत्रापि नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यर्त आह--परम्परेति। यथा गवादिनिष्ठस्तप्तमुद्राविशेषोऽङ्कः। तस्य हि गोद्वारा स्वामिसम्बन्धः। साक्षादिति। विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः। वैदी विद्या। `घोष आभीरपल्ली स्या`दित्यमरः।
अग्रन्थार्थमिदम् ॥
सिद्धान्तकौमुदी
तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥
संज्ञायाम् - सङ्घाङ्क । यञन्तात्, अञन्तात्, इञन्ताच्च सङ्गे अङ्के लक्षणे च इदन्त्वेन विवक्षितेऽणित्यर्थः । छस्यापवादः । घोषेति ।सङ्घाङ्कलक्षणघोषेषु॑ इति सूत्रं कर्तव्यमित्यर्थः । तथाच तिरुआः प्रकृतयः, प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम् । गार्ग इति । सङ्घोऽङ्को घोषो वे॑ति शेषः । गार्गमिति ।लक्षण॑मिति शेषः । एवं दाक्ष दाक्षमित्यत्रापि नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यर्त आह — परम्परेति । यथा गवादिनिष्ठस्तप्तमुद्राविशेषोऽङ्कः । तस्य हि गोद्वारा स्वामिसम्बन्धः । साक्षादिति । विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । वैदी विद्या ।घोष आभीरपल्ली स्या॑दित्यमरः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.