Page loading... Please wait.
4|3|116 - कृते ग्रन्थे
॥ तस्मै पाणिनये नमः ॥
4|3|116
SK 1496
कृते ग्रन्थे   🔊
सूत्रच्छेदः
कृते (सप्तम्येकवचनम्) , ग्रन्थे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तेन इत्येव। तृतीयासमर्थात् कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत्कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृताः वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थे इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतं, विद्यामानाम् एव ज्ञातम् औपज्ञातम् इत्ययम् अनयोर् विशेषः।
कः पुनः कृतोपज्ञयोर्विशेषः, येनोपज्ञायत इति प्रकृते सति कृतग्रहणं क्रियते? इत्याह्-- `उत्पादितम्` इत्यादि॥
ठ्तितिरिवरतन्तुऽ इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तितिर्यादयो हि च्छन्दसां प्रवक्तारो न कर्तारः; नित्यानि हि च्छन्दांसि न केनचित्क्रियन्ते ॥
सिद्धान्तकौमुदी
वररुचिना कृतो वाररुचो ग्रन्थः ॥
कृते ग्रन्थे - कृते ग्रन्थे । "तेन कृतो ग्रन्थ" इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कृते ग्रन्थे (1686) (अर्थाधिकरणम्) (5506 ग्रन्थाभावेऽपि प्रत्ययविधिवार्तिकम्।। 1 ।।) - कृते ग्रन्थे मक्षिकादिभ्योऽण् - (भाष्यम्) कृते ग्रन्थ इत्यत्र मक्षिकादिभ्योऽण्वक्तव्यः। मक्षिकाभिः कृतं माक्षिकम्।। (5507 प्रत्ययविधिवार्तिकम्।। 2 ।।) - तद्विशेषेभ्यश्च - (भाष्यम्) तद्विशेषेभ्यश्चाण्वक्तव्यः। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्। स तर्हि वक्तव्यः। न वक्तव्यः।। (5508 वार्तिकद्वयान्यथासिद्धिवार्तिकम्।। 3 ।।) - योगविभागात्सिद्धम् - (भाष्यम्) योगविभागः करिष्यते। कृते ग्रन्थे। ततः ‐ संज्ञायाम्, संज्ञायां च तेन कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्। ततः कुलालादिभ्यो वुञ्ञ्। संज्ञायामित्येव।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्।।