Page loading... Please wait.
4|3|115 - उपज्ञाते
॥ तस्मै पाणिनये नमः ॥
4|3|115
SK 1495
उपज्ञाते   🔊
सूत्रच्छेदः
उपज्ञाते (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तेन इत्येव। तृतीयासमर्थातुपज्ञाते इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। विना उपदेशेन ज्ञातमौपज्ञातं, स्वयम् अभिसम्बद्धम् इत्यर्थः। पाणिनिना उपज्ञातं पाणिनीयम् अकालकं व्याकरणम्। काशकृत्स्नं गुरुलाघवम्। आपिशलं दुष्करणम्।
`अकालकम्` इति। कालपरिभाषारहितमित्यर्थः॥
विनोपदेशेन ज्ञातमुपज्ञातमिति । उपपूर्वो जानातिस्तत्र प्रसिद्ध इति भावः । अकालकमिति । आन्याय्यादुत्थानादित्यादिकालपरिभाषारहितमित्यर्थः । गुरुलाघवं नामार्थशास्त्रम्, यत्रोपायानां गौरवं लाघवं चिन्त्यते । ठ्दूषूऽ इत्ययं सङ्केतशब्दो यत्र क्रियते, यथा पाणिनीये ठ्वृत्ऽ इति, तद् दुष्करणं व्याकरणम्; कामशास्त्रमित्यन्ये ॥
सिद्धान्तकौमुदी
तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥
उपज्ञाते - उपज्ञाते । तेनोपज्ञातमित्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं-प्रथमज्ञातम् ।
उपज्ञाते - उपज्ञाते । विनोपदेशं ज्ञातम् — उपज्ञातम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.