Page loading... Please wait.
4|3|109 - छगलिनो ढिनुक्
॥ तस्मै पाणिनये नमः ॥
4|3|109
SK 1489
छगलिनो ढिनुक्   🔊
सूत्रच्छेदः
छगलिनः (पञ्चमीबहुवचनम्) , ढिनुक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छङ्गलिन्शब्दात् ढिनुक् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। कलाप्यन्तेवासित्वाण् णिनेरपवादः। छङ्गलिना प्रोक्तम् अधीयते छागलेयिनः।
`छागलेयिनः` इति। इहापि पूर्ववदेवाध्येतर्युत्पन्नस्याणो लुक् च तद्विषयता। एवमुत्तरयोर्योगयोर्वेदितव्यः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
छगलिना प्रोक्तमधीयते छागलेयिनः ॥
छगलिनो ढिनुक् - छगलिनो । छगलिन्शब्दाक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत् । उकार उच्चारणार्थः । "ढिन्" शिष्यते । ढस्य एय् । टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य णिनिः स्यादिति । "उक्तविषये" इति शेषः । मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थे च तृतीयटान्ताण्णिनिः स्यादिति यावत् । भिक्षवः=संन्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं=व्यासुप्रणीतं प्रसिद्धम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.