`छाणोरपवादः` इति। ये वृद्धास्तेभ्यश्छस्यापवादः, शेषेभ्यस्त्वणः। `शौनकिनः। वाजसनेयिनः` इति। शौनकेन प्रोक्तं वाजसनेयेन प्रोक्तमिति णिनिः। तदन्तात्
4|2|58 इत्यण्, तस्य `प्रोक्ताल्लुक्`
4|2|63 , पूर्ववत् तद्विषयता।`केवलाद्धि` इत्यादि। तत् संहतार्थमित्यत्रायं हेतुः। यस्मात् केवलात् कठाल्लकं वक्ष्यति, तस्मात् कठशाठ इति यदत्र पठते तत्संहतार्थम्॥