Page loading... Please wait.
4|3|104 - कलापिवैशम्पायनान्तेवासिभ्यश्च
॥ तस्मै पाणिनये नमः ॥
4|3|104
SK 1484
कलापिवैशम्पायनान्तेवासिभ्यश्च  
सूत्रच्छेदः
कलापि-वैशम्पायन-अन्तेवासिभ्यः (पञ्चमीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कलाप्यन्तेवासिनां वैशम्पायनान्तेवासिनां च ये वाचकाः शब्दास् तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। अणो ऽपवादः। छं तु परत्वाद् बाधते। तत्र कलाप्यन्तेवासिनश्चत्वारः हरिद्रुः, छगली, तुम्बुरुः, उलपः इति। वैशम्पायनान्तेवसिनः नव आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति। प्रत्यक्षकारिणो गृह्यन्ते न तु व्यवहिताः शैष्यशिष्याः। कुतः? कलापिखाण्डायनग्रहणात्। तथा हि वैशम्पायनान्तेवासी कलापी, तदन्तेवासिनो वैशम्पायनान्तेवासिन एव भवन्ति, किं कलापिग्रहणेन? तथा वैशम्पायनान्तेवासी कठस् तदन्तेवासी खाण्डायनः, तस्य किं शौनकादिसु पाठेन? तदेतत् प्रत्यक्षकारिग्रहणस्य लिङ्गम्। कलाप्यनतेवासिभ्यः तावत् हरिद्रुणा प्रोक्तम् अधीयते हारिद्रविणः। तौम्बुरविणः। औलपिनः। छङ्गलिनः ढिनुकं वक्ष्यति। वैशम्पायनान्तेवासिभ्यः आलम्बिनः। पालङ्गिनः। कामलिनः। आर्चाभिनः। आरुणिनः। ताण्डिनः। श्यामायनिनः। कठाल्लुकं वक्ष्यति, कलापिनश्चाणम्। हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरू। उलपेन चतुर्थेन कालापकम् इह उच्यते। आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ। ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयो ऽपरे। श्यामायन उदिच्येषु उक्तः कठकलापिनोः। चरकः इति वैशम्पायनस्याख्या, तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरकाः इत्युच्यन्ते।
अभिधानेऽभियोपचारात् कलापिवैशम्पायनान्तेवास्यभिधायिनः शब्दा इह कलापिवैशम्पायनान्तेवासिशब्देन निर्दिष्टाः। अत एवाह-- `कलाप्यन्तेवासिनाम्` इति।ननु च ये व्यवहिताः शिष्यशिष्याः, ते कलापिवैशम्पायनान्तेवासिन एव भवन्ति, तदयुक्तमुक्तम्-- कलाप्यन्तेवासिनश्चत्वारः,वैशम्पायनान्तेवासिनो नव? इत्याह-- `प्रत्यक्षकारिणःर` इत्यादि। करोतिरत्राध्ययने वत्र्तते। यैः साक्षादधीतं ते प्रत्यक्षकारिणः। इहान्तेवासिनो गृह्रन्ते चैतावन्त एवेति। किमत्रायुक्तम्? कुत इह साक्षात्कारिणो गृह्रन्ते, न हि व्यवहिता इत्यत्र हेतुं पृच्छति। `कलापिखाण्डायनग्रहणात्` इति। हेतुनिर्देशः। `{तथा हि--काशिका}तथा च` इत्यादि। अस्यैव विवरणम्। वैशम्पायनसय् कलाप्यन्तेवासी, तस्य येऽन्तेवासिनस्ते वैशम्पायनान्तेवासिनो भवन्त्येव। यदि तत्र ये व्यवहितास्तेऽप्यन्तेवासिनो गृह्रेरन् कलापिग्रहणमनर्थकं स्यात्, `वैशम्पायनान्तेवासिभ्यः` इत्येवं ब्राऊयात्। तथा वैशम्पायनान्तेवासी खाण्डायनः;तत्र यदि व्यवहिता अपिगृह्रेरन्, ततो वैशम्पायनान्तेवासित्वादनेनैव सूत्रेण सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फल एव स्यात्। तस्मादिहापि कलापिग्रहणं शौनकादिषु खाण्डायनशब्दस्य पाठ एतदुभयमपि साक्षात्कारिग्रहणस्य लिङ्गं ज्ञापकम्। `हारिद्रविणः` इत्यादि। हरिद्रुप्रभृतिभ्यः प्रोक्तार्थे णिनिः,तदन्तात् `तदधीते तद्वेद` 4|2|58 इत्यण्, तस्य `प्रोक्ताल्लुक्` `उलपेन चतुर्थेन` इति। सहार्थे तृतीया। `कालापकम्` इति। कलापिन इदं कालापकम्, `गोत्रचरणाद् वुञ्` 4|3|126 । ननु च `धर्माम्नाययोर्वुञ्` (वा।476), न चेमे शिव्या धर्माम्नायाः,तत्कथं वुञ्? एवं तर्ह्रुपमानाद्भविष्यतीति। कालापकमिव धर्मवच्छिष्या उच्यन्ते। यथा धर्मः कलापिसम्बन्धी, तथा शिष्या इत्युच्यत उपमानार्थः। `आलम्बिर्नाम प्राचां देशः, तत्रोत्पन्नः `चरकः`। एवं `पलङ्गकमलावुभौ`। प्राचामेवत्रयः। एते प्राच्याः वैशम्पायनशिष्याः `ऋचाभारुणिताण्डआश्च मध्यमीयास्त्रयोऽपेर` चरकाः। मध्यदेशे भवा मध्यमीयाः। गहादिषु `मध्यमध्यमञ्चाण् चरणे` (ग।सू।99) इति पठते। तस्यायमर्थः-- मध्यशब्दो मध्यमभावमापद्यते, छप्रत्ययश्च ततो भवति, चरणे तु प्रत्ययार्थेऽण् च भवतीति। तत्र यदा ऋचाभादीनां चरणत्वं न विवक्ष्यते,तदा छे कृते मध्यमीया इति भवति। चरणविवक्षायां त्वणि कृते माध्यमा इति भवति। उदक्षु भवा उदीच्याः, `द्युप्रागपाग्` 4|2|100 इत्यादिना यत्। उदीच्येषु मध्ये श्यामायनिश्चरकः।कठकलापिनावप्युदीच्येषु चरकौ, अपरस्याप्युक्तम्-- `कलापिनोऽण्` 4|3|108 इति। ननु च वैशम्पायनान्तेवासिनां कठेनैव चरक इत्येषाख्या, तत्कथं चरक इत्युच्यत? इत्याह-- `चरक इति वैशम्पायनस्य` इत्यादि। यद्यपि तेषां चरक इत्याख्यानं न भवति, तद्गुरोस्तु वैशम्पायनस्य भवति, तत्सम्बन्धेन तच्छिष्या अपि तथोच्यन्ते॥
कलाप्यन्तेवासिनामित्यादि । सूत्रे त्वभेदोपचाराश्रयो निर्देशः । कलाप्यन्तेवासिनश्चत्वार इत्यादि । ननु च शिष्यशिष्येष्वपि शिष्यव्यवहारो लोके दृश्यते, तत्कथमियन्त एवेति नियमः ? तत्राहप्रत्यक्षकारिण इति । क्रियासामान्यवचनः करोतिः प्रकरणाअदिहाध्ययने वर्तते । कलापिखाण्डायनग्रहणादिति । एतदेव विवृणोति---तथा हीति । वैशम्पायनस्यान्तेवासी कलापी, यदि चान्तेवास्यन्तेवासिनोऽपि गृह्यएरन्, कलापिग्रहणमनर्थकम्, ठ्वैशम्पायनान्तेवासिभ्यःऽ इत्येव सिद्धम् ; कलाप्यन्तेवासिनामपि वैशम्पायनान्तेवासित्वात् । तथा वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाण्डायनः, तत्र व्यवहितानामपि ग्रहणे वैशम्पायनान्तेवासित्वादनेनैव सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फलः स्यात् । उदाहरणेषु च्छन्दोब्राह्मणानीति तद्विषयता, अध्येतृप्रत्ययस्य ठ्प्रोक्ताल्लुक्ऽ इति लुक् । उलपेन चतुर्थेनेति । सहयोगे तृतीया । कलापिन इदं कालापकम्, ठ्गोत्रचरणाद् वुञ्ऽ । तत्र ठ्धर्माम्नाययोःऽ इति पठ।ल्ते, तस्मादिहोपमानाच्छिष्यसमूहे प्रयोगः । आलम्बिश्चरकः प्राचामिति । आलम्बिर्नाम प्राचां देश उत्पन्नश्चरकस्य शिष्यः । एवं फलिङ्गकमलावुभौ प्राचामेव त्रय एते प्राच्या उक्ताः । कठकला पिनोरिति । ठ्कठचरकाल्लुक्ऽ इति कठाल्लुगुक्तः । कलापिशब्दादपि ठ्कलापिनोऽण्ऽ त्यणुक्तः ॥
सिद्धान्तकौमुदी
कलाप्यन्तेवासिभ्यः, हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥
कलापिवैशम्पायनान्तेवासिभ्यश्च - कलापि ।तेन प्राक्त॑मित्येव । कलापिशिष्यवाचिभ्यो, वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । "उदाह्यियते" इति शेषः । हारिद्रविण इति । हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः ।ओर्गुणः॑ । आदिवृद्धिः । हरिद्रविन्शब्दादध्येत्रणःप्रोक्ताल्लु॑हिति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः । तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनान्तेवासिभ्य इति । "उदाह्यियते" इति शेषः । आलम्बिन इति । आलम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्डः, श्यामायनः, कठः, कलापी इति नव वैशम्पायशिष्याः । तत्र आलम्बिशब्दादध्येत्रणः प्रोक्ते णिनि । आलम्बिन्शब्दादध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः । अत्रआपत्यस्ये॑ति यलोपः । श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण्वक्ष्यते । वैशम्पायनशिष्यः कलापी । तता च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात्तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् ।
कलापिवैशम्पायनान्तेवासिभ्यश्च - कलापिवेशंपायना । अणोऽपवादः छं तु परत्वाद्बाधते । कलाप्यन्तेवासिनश्चत्वारः । हरिद्रुः छगली तुम्बुरुः उलप इति । वैशंपायनान्तेवासिनस्तु नव आलम्बिः कलिङ्गः कमलः ऋचाभः आरुणिः ताण्डः श्यामायनः कठः कलापी-इति । हारिद्रविण इति । एवं तौम्बुरविणः, औलपिनः छगलिनस्तु ढिनुकं वक्ष्यति । आलम्बिन इति । एवं कालिङ्गिनः कामलिनः आर्चाभिनः आरुणिनः ताण्डिनः श्यामायनिनः । कठाल्लुकं वक्ष्यति, कलापिनश्चाणम् । याज्ञवस्क्याश्मरथ्यशब्दौ कण्वादी, तेन ताभ्यां यञन्ताभ्यां वृद्धाच्छो न भवतीत्यशयेनाह अणि आपत्यस्येतीति ।यज्ञवस्क्यादयो ह्रचिरकालाः॑ इति भारतादिषु व्यवहारः, स एवानुमृत सूत्रकृत ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कलापिवैशम्पायनान्तेवासिभ्यश्च (1674) (णिनिप्रत्ययाधिकरणम्) (5502 पूर्वपक्षवार्तिकम्।। 1 ।।) - प्रत्यक्षकारिग्रहणम् - (भाष्यम्) प्रत्यक्षकारिग्रहणं कर्तव्यम्, अन्तेवास्यन्तेवासिभ्यो मा भूदिति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्।। (5503 पूर्वपक्षनिराकरणे वार्तिकम्।। 2 ।।) - कलापिखाडायनग्रहणं ज्ञापकं वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य - (भाष्यम्) यदयं कलापिखाडायनग्रहणं करोति तज्ज्ञापयत्याचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति। कथं कृत्वा ज्ञापकम्? वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाडायनः। वैशम्पायनान्तेवासी कलापी। यदि चान्तेवास्यन्तेवासिभ्योऽपि स्यात्कलापिखाडायनग्रहणमनर्थकं स्यात्। पश्यति त्वाचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति, ततः कलापिखाडायनग्रहणं करोति।। (5504 सिद्धान्तवार्तिकम्।। 3 ।।) - छन्दोग्रहणं चेतरथा ह्यतिप्रसङ्गः - (भाष्यम्) छन्दोग्रहणं च कर्तव्यम्। इतरथा ह्यतिप्रसङ्गः। इतरथा ह्यतिप्रसङ्गः स्यात्। इहापि प्रसज्येत ‐ तित्तिरिणा प्रोक्ताः श्लोका इति।।