Page loading... Please wait.
4|3|101 - तेन प्रोक्तम्
॥ तस्मै पाणिनये नमः ॥
4|3|101
SK 1481
तेन प्रोक्तम्   🔊
सूत्रच्छेदः
तेन (तृतीयैकवचनम्) , प्रोक्तम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तेन इति तृतीयासमर्थात् प्रोक्तम् इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकर्षेण उक्तम् प्रोक्तम् इत्युच्यते, न तु कृतम्, कृते ग्रन्थे 4|3|116 इत्यनेन गतार्थत्वात्। अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः। पाणिनीयम्। आपिशलम्। काशकृत्स्नम्।
`प्रकर्षेणोक्तम्` इति। प्रकर्षः = अतिशयः,तेन व्याख्यातं तदध्यापितं वा `प्रोक्तम्` इत्युच्यते। `न तु कृतम्` इति। न तु कृतमुत्पादितं प्रोषतमित्युच्यते। कस्मादित्याह-- `कृते ग्रन्थे` 4|3|116 इति गतार्थत्वात्। कथं माथुरीत्यण्, यावता वृधाच्छेनैव भवितव्यम्? नैष दोषः; `कलापिनोऽण्` 4|3|108 इत्यत्राण्ग्रहणस्यान्येभ्यो भवतीत्येतत् प्रयोजनं वक्ष्यति, तेन माथुरशब्दादप्यण्भवति। `पाणिनीयम्` इति। पाणिशब्दात् `वृद्धाच्छः` 4|2|113 इति च्छः। `आपिशलम्,कालकृत्स्नम्` इति। आपिशलिकाशकृत्स्निशब्दाभ्यां `इञश्च` 4|2|111 इत्यण्॥
प्रकर्षेणोक्तमिति । अध्यापनेनार्थव्याख्यानेन वा प्रकर्षेणाप्रकाशितमित्यर्थः । प्रकर्षेणेति वचनाद् ग्रामे ग्रामे यद्यपि काठकादिकं देवदतादिभिः प्रोच्यते, तथापि तेभ्यः प्रत्ययो न भवति । न तु कृतमिति । प्रपूर्वो वचिः करणेऽपि वर्तते इति भावः । मधुरायां भवो माधुरः, ततो वृद्धाच्छे प्राप्ते ठ्कलापिनोऽण्ऽ इत्यण्ग्रहणादधिकविधानार्थादण्प्रत्ययः । पाणिनीयमिति । स्वयमन्येन वा कृतं यत्पाणिनिना प्रोक्तं तदुच्यते ॥
सिद्धान्तकौमुदी
पाणिनिना प्रोक्तं पाणिनीयम् ॥
तेन प्रोक्तम् - तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति ।व्याकरण॑मिति शेषः । वृद्धाच्छः । प्रथमं प्रकाशितं — प्रोक्तम् । नेह — ॒देवदत्तेनाद्यापितम् ।
तेन प्रोक्तम् - तोन प्रोक्तम् । प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतं,कृते ग्रन्थे॑इत्यनेन गतार्थत्वात् । पाणिनिना प्रोक्तमिति । स्वयमन्येवा वा कृतं व्याकरणमध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । प्रेति किम् । देवदत्तेनाध्यपितं । प्रख्यातस्यैव ग्रन्थस्याध्यापनमिति नानेन प्रत्ययः ।
लघुसिद्धान्तकौमुदी
पाणिनिना प्रोक्तं पाणिनीयम्॥
महाभाष्यम्
तेन प्रोक्तम् (1671) (प्रोक्तार्थाधिकरणम्) (5499 प्रोक्तग्रहणाक्षेपे वार्तिकम्।। 1 ।।) - प्रोक्तग्रहणमनर्थकं तत्रादर्शनात् - (भाष्यम्) प्रोक्तग्रहणमनर्थकम्। किं कारणम्? तत्रादर्शनात्। ग्रामे ग्रामे कालापकं काठकं च प्रोच्यते। तत्रादर्शनात्, न च तत्र प्रत्ययो दृश्यते।। (5500 आक्षेपसाधकवार्तिकम्।। 2 ।।) ग्रन्थे च दर्शनात्।। (भाष्यम्) यत्र च दृश्यते ग्रन्थः सः, तत्र कृते ग्रन्थे (4।3।116) इत्येव सिद्धम्।। (आक्षेपनिवारकभाष्यम्) छन्दोऽर्थं तर्हीदं वक्तव्यम्। न हि छन्दांसि क्रियन्ते, नित्यानि च्छन्दांसि।। (5501 प्रत्याक्षेपे वार्तिकम्।। 3 ।।) - छन्दोऽर्थमिति चेत्तुल्यम् - (भाष्यम्) छन्दोऽर्थमिति चेत्तुल्यमेतद्भवति। ग्रामे ग्रामे काठकं कालापकं च प्रोच्यते तत्रादर्शनात्। न च तत्र प्रत्ययो दृश्यते। ग्रन्थे च दर्शनात्। यत्र दृश्यते ग्रन्थः सः, तत्र कृते ग्रन्थ इत्येव सिद्धम्। ननु चोक्तम् ‐ न हि च्छन्दांसि क्रियन्ते नित्यानि च्छन्दांसीति। यद्यप्यर्थो नित्यः, या त्वसौ वर्णानुपूर्वी साऽनित्या। तद्भेदाच्चैतद्भवति ‐ काठकम्, कालापकम्, मौदकम्, पैप्पलादकमिति।। (सिद्धान्तभाष्यम्) न तर्हीदानीमिदं वक्तव्यम्। वक्तव्यं च। किं प्रयोजनम्? यत्तेन प्रोक्तं न च तेन कृतम्। माधुरी वृत्तिः। यदि तर्हि अस्य निबन्धनमस्ति, इदमेव वक्तव्यम्, तन्न वक्तव्यम्। तदप्यवश्यं वक्तव्यम्। यत्तेन कृतं न च तेन प्रोक्तम् ‐ वाररुचं काव्यम्, जालूकाः श्लोकाः।।