Page loading... Please wait.
4|2|93 - राष्ट्रावारपाराद्घखौ
॥ तस्मै पाणिनये नमः ॥
4|2|93
SK 1313
राष्ट्रावारपाराद्घखौ   🔊
सूत्रच्छेदः
राष्ट्रा-आवार-पारात् (पञ्चम्येकवचनम्) , घ-खौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
राष्ट्र अवारपार इत्येताभ्यां यथासङ्ख्यं घखौ इत्येतौ प्रत्ययौ भवतः। राष्ट्रियः। अवारपारीणः। विगृहीतादपि इष्यते। अवारीणः। पारीणः। विपरीताच् च। पारावारीणः। प्रकृतिविशेष उपादानमात्रेण तावत् प्रत्यया विधीयन्ते। तेषां तु जातादयो ऽर्थाः समर्थविभक्तयश्च पुरस्ताद् वक्ष्यन्ते।
राष्ट्रशब्दात् `वृद्धाच्छः` 4|2|113 इति च्छे प्राप्ते।अवारपारशब्दादणि घखौ विधीयेते। अवारस्य पारमवारपारमिति षष्ठीसमासः। राजदन्तादिषु दर्शनात् पारावारमित्यपि पक्षे भवति। विगृहीताद्विपरीताच्च लभ्यते। वक्तव्यमेवैतत्। अथ वा-- एकशेषो विज्ञास्यते, तत्रैकः समुदायारेथः, अपरोऽवयवार्थो भविष्यति। विपरीतस्यापि `एकार्थानां विरूपाणाम्` (1.2.64।वा।23) इत्येकशेषो न विरुध्यते, था-- वक्रदण्डश्च कुटिलदण्डश्च कुटिलदण्डाविति, यथा च यङ्लुकाविति। ननु च तस्यैवं प्रकृतयो भवन्ति, पञ्च राष्ट्रादिशब्दाः,प्रत्ययौ तु द्वौ-- इति वैषम्यात् संख्यातानुदेशो न सिध्यति? नैष दोषः;निर्देशापेक्षं हि यथासंख्यत्वम्। निर्देशश्च द्वयोरेव तदपेक्षया प्रकृते यथासंख्यत्वम्। एवं पञ्चाद्यभेद उपजायते, न स यथासंख्यं बाधते। यथा वुञादीनाञ्च गणापेक्षया यथासंख्यं प्रवृत्ते तु यथासंख्येन प्रत्ययोत्पत्तिवेलायां गणेषु यद्यपि प्रातिपदिकरूपाण्यसमसंख्यानि भवन्ति, तथात्रापि यथासंख्यं न हीयते। कुतः पुनरवगतम्-- एकशेषोऽयमिति? व्याख्यानात्।`प्रकृतिविशेषोपादानमात्रेण` इति। मात्रशब्दो जाताद्यर्थविभक्तिनिर्देशस्य च व्यवच्छेदाय॥
विगृहीतादपीष्यते इति । सूत्रे तु संघातस्यैव ग्रहणम्; अन्यथा वैषम्यात्संख्यातानुदेशो न स्यात् । विपरीताच्चेति । इयमपीष्टिरेव ॥
सिद्धान्तकौमुदी
आभ्यां क्रमाद्घखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ॥ ।अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् (वार्तिकम्) ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
राष्ट्रावारपाराद्घखौ - राष्ट्रावारपाराद्धखौ । आभ्यामिति । राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति । राष्ट्रे जातः भव इत्यादिरर्थो यथायथं बोध्यः । धस्य इयः । अवारपारीण इति । खस्य ईनादेशः, णत्वम् ।अवारपारादविगृहीतादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतदादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पाराऽवारशब्दादपीत्यर्थः । ननुसार्ष्टावारपारे॑त्यरभ्यविभाषा पूर्वाह्णाऽपराह्णाभ्या॑मित्यन्तैः सूत्रै राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते, यत्किञ्चिद्विभक्त्यन्तेभ्यो राष्ट्रादिप्रकृतिविशेषेभ्यो घादयः टउटउलन्ताः प्रत्ययाः स्युः,समर्थानां प्रथमाद्वे॑त्थस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किंच "तत्र जातः" इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह — इह प्रकृतीत्यादिना ।राष्ट्रावारे॑त्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनामर्थविशेषविभक्तिविशेषाकाङ्क्षायां, "तत्र जातः" इत्यादि सूत्राणां च केवलमर्थविशेषनिर्देशपराणांसमर्थाना॑मिति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्क्षायां परस्परमेकवाक्यत्वे सति तत्र जात इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्त्यन्तेभ्यो राष्ट्रादिशब्देभ्यो घादयः ठ्युठ्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्राद्यन्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
राष्ट्रावारपाराद्धखौ (1514) (घखाधिकरणम्) (5398 सिद्धान्तवार्तिकम्।। 1 ।।) - अवारपाराद्विगृहीतादपि - (भाष्यम्) अवारपाराद्विगृहीतादपीति वक्तव्यम्। अवारीणः, पारीणः, अवारपारीणः।। (5399 सिद्धान्तवार्तिकम्।। 2 ।।) - विपरीताच्च - (भाष्यम्) विपरीताच्चेति वक्तव्यम्। पारावारीणः।।