Page loading... Please wait.
4|2|80 - वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः
॥ तस्मै पाणिनये नमः ॥
4|2|80
SK 1292
वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः  
सूत्रच्छेदः
वुञ्-छण्-क-ठच्-इल्-श-इनि-र-ढञ्-ण्य-य-फक्-फिञ्-इञ्-ञ्य-कक्-ठकः (प्रथमाबहुवचनम्) , अरीहण-कृशाश्व-ऋश्य-कुमुद-काश-तृण-प्रेक्षा-अश्म-सखि-संकाश-बल-पक्ष-कर्ण-सुतङ्गम-प्रगदिन्-वराह-कुमुदादिभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वुञादयः स्पतदश प्रत्ययाः, अरीहणादयो ऽपि सप्तदश एव प्रातिपदिकगणाः। आदिशब्दः प्रत्येकम् अभिसम्बध्यते। तत्र यथासङ्ख्यं सप्तदशभ्यः प्रातिपदिकगणेभ्यः सप्तदश प्रत्ययाः भवन्ति चातुरर्थिकाः। अणो ऽपवादः। यथासम्भवमर्थसम्बन्धः। अरीहणादिभ्यो वुञ् प्रत्ययो भवति। आरीहणकम्। द्रौघणकम्। अरीहण। द्रुघण। खदिर। सार। भगल। उलन्द। साम्परायण। क्रौष्ट्रायण। भास्त्रयण। मैत्रायण। त्रैगर्तायन। रायस्पोष। विपथ। उद्दण्ड। उदञ्चन। खाडायन। खण्ड। वीरण। काशकृत्स्न। जाम्बवन्त। शिंशिपा। किरण। रैवत। बैल्व। वैमतायन। सौसायन। शाण्दिल्यायन। शिरीष। बधिर। अरीहणादिः। कृशाश्वादिभ्यः छण् प्रत्ययो भवति। कार्शाश्वीयः। आरिष्टीयः। कृशाश्व। अरिष्ट। अरीश्व। वेश्मन्। विशाल। रोमक। शबल। कूट। रोमन्। वर्वर। सुकर। सूकर। प्रतर। सुदृश। पुरग। सुख। धूम। अजिन। विनता। अवनत। विकुघास। अरुस्। अवयास। मौद्गल्य। कृशाश्वादिः। ऋश्यादिभ्यः कः प्रत्ययो भवति। ऋश्यकः। न्यग्रोधकः। ऋश्य। न्यग्रोध। शिरा। निलीन। निवास। निधान। निवात। निबद्ध। विबद्ध। परिगूढ। उपगूढ। उत्तराश्मन्। स्थूलबाहु। खदिर। शर्करा। अनडुः। परिवंश। वेणु। वीरण। ऋश्यादिः। कुमुदादिभ्यः ठच् प्रत्ययो भवति। कुमुदिकम्। शर्करिकम्। कुमुद। शर्करा। न्यग्रोध। इत्कट। गर्त। बीज। अश्वत्थ। बल्वज। परिवाप। शिरीष। यवाष। कूप। विकङ्कत। कुमुदादिः। काशादिभ्य इलः प्रत्ययो भवति। काशिलम्। वाशिलम्। काश। वाश। अश्वत्थ पलाश। पीयूष। विश। तृण। नर। चरण। कर्दम। कर्पूर। कण्टक। गृह। काशादिः। तृणादिभ्यः शः प्रत्ययो भवति। तृणशः। नडशः। तृण। नड। बुस। पर्ण। वर्ण। चरण। अर्ण। जन। बल। लव। वन। तृणादिः। प्रेक्षादिभ्य इनिप्रत्ययो भवति। प्रेक्षी। हलकी। प्रेक्षा। हलका। बन्धुका। ध्रुवका। क्षिपका। न्यग्रोध। इर्कुट। प्रेक्षादिः। अश्मादिभ्यो रप्रत्ययो भवति। अश्मरः। अश्मन्। यूष। रूष। मीन। दर्भ। वृन्द। गुड। खण्ड। नग। शिखा। अश्मादिः। सख्यादिभ्यो ढञ् प्रत्ययो भवति। साखेयम्। साखिदत्तेयम्। सखि। सखिदत्त। वायुदत्त। गोहित। भल्ल। पाल। चक्रपाल। चक्रवाल। छङ्गल। अशोक। करवीर। सीकर। सकर। सरस। समल। सख्यादिः। संकाशादिभ्यो ण्यप्रत्ययो भवति। सांकाश्यम्। कम्पिल्यम्। संकाश। काम्पिल्य। समीर। कश्मर। शूरसेन। सुपथिन्। सक्थच। यूप। अंश। एग। अश्मन्। कूट। मलिन। तीर्थ। अगस्ति। विरत। चिकार। विरह। नासिका। संकाशादिः। बलादिभ्यो यः प्रत्ययो भवति। बल्यः। कुल्यम्। बल। वुल। तुल। उल। डुल। कवल। वन। कुल। बलादिः। पक्षादिभ्यः फक् प्रत्ययो भवति। पाक्षायणः। तौषायनः। पक्ष। तुष। अण्ड। कम्बलिक। चित्र। अश्मन्। अतिस्वन्। पथिन् पन्थ च। पक्षादिः। कर्णादिभ्यः फिञ् प्रत्ययो भवति। कार्णायनिः। वासिष्ठायनिः। कर्ण। वसिष्ठ। अलुश। शल। डुपद। अनडुह्र। पाञ्चजन्य। स्थिरा। कुलिश। कुम्भी। जीवन्ती। जित्व। अण्डीवत्। कर्णादिः। सुतङ्गमादिभ्य इञ् प्रत्ययो भवति। सौतङ्गमिः। मौनिचित्तिः। सुतङ्गम। मुनिचित्त। विप्रचित्त। महापुत्र। श्वेत। गडिक। शुक्र। विग्र। बीजवापिन्। श्वन्। अर्जुन। अजिर। जीव। सुतङ्गमादिः। प्रगदिन्नादिभ्यः ज्यः प्रत्ययो भवति। प्रागद्यम्। प्रगदिन्। मगदिन्। शरदिन्। कलिव। खडिव। गडिव। चूडार। मार्जार। कोविदार। प्रगद्यादिः। वराहादिभ्यः कक् प्रत्ययो भवति। वाराहकम्। पालाशकम्। वराह। पलाश। शिरीष। पिनद्ध। स्थूण। विदग्ध। विजग्ध। विभग्न। बाहु। खदिर। शर्करा। वराहादिः। कुमुदादिभ्यः ठक् प्रत्ययो भवति। कौमुदिकम्। कुमुद। गोमथ। रथकार। दशग्राम। अश्वत्थ। शाल्मली। कुण्डल। मुनिस्थूल। कूट। मुचुकर्ण। कुमुदादिः। शिरीषशब्दो ऽरीहणादिषु, कुमुदादिषु, वराहादिषु च पठ्यते, औत्सर्गिको ऽपि तत इष्यते, तस्य च वरणादिषु दर्शनाल् लुब् भवति। तथा च उक्तम्, शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम् इति।
`औत्सिर्गिकोऽपि तत्रेष्यते` इति। यद्येवम्, तस्य श्रवणं प्राप्नोतीत्यत आह-- `तस्य च` इत्यादि। `तथा चोक्तम्` इत्यादि। तदेव द्रढयति-- औत्सर्गिक इत्येव। शिरीषाणामदूरभवो शिरीषाः, तस्य वनं शिरीषवनमिति भाष्यकारवचनाल्लभ्यते। विशेषविहितानांहि लुपा न भवितव्यम्। अत औत्सर्गिकस्य लुब्भवतीति विज्ञायते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एभ्यः सप्तदशभ्यः सप्तदश क्रमात्स्युस्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ् । अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् । कार्शाश्वीयम् । ऋस्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी । अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । (गणसूत्रम् -) पथः पन्थ च ॥ पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ् सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रगदिन्, प्रागद्यः । वराहादिभ्यः कक् । वारीहकः । कुमुदादिभ्यष्ठक् । कौमुदीकः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
वुञ्छण्। `ठक`इत्यन्तमेकं समस्तं पदम्। अरीहणादि त्वपरम्। तत्र प्रथमतः कुमुदान्तानां चतुर्णां द्वन्द्वं विधाय, द्वितीयेन काशादिकुमुदान्तद्वन्द्वेन सह पुनर्द्वन्द्वो बोध्यः। तेन कुमुदशब्दस्य द्विःपाठेऽपि नैकसेषः। आदिशब्दः प्रत्येकं संबध्यत इत्याह---अरीहणादिभ्य इति। पक्षाद्यन्तर्गणसूत्रमाह--पथ इति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.