Page loading... Please wait.
4|2|78 - रोणी
॥ तस्मै पाणिनये नमः ॥
4|2|78
SK 1290
रोणी   🔊
सूत्रच्छेदः
रोणी पञ्चम्या विपरिणम्यते
अनुवृत्तिः
तदस्मिन्नस्तीति देशे तन्नाम्नि  4|2|67 () , तेन निर्वृत्तम्  4|2|68 () , तस्य निवासः  4|2|69 () , अदूरभवश्च  4|2|70 () , अण्  4|2|77 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
रोण्याः "तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च" (इति) प्राग्दीव्यतीयः प्रत्ययः अण्
सूत्रार्थः
"रोणी" शब्दान्त-प्रातिपदिकानि चतुरर्थेषु "अण्" प्रत्ययम् स्वीकुर्वन्ति ।
अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4|2|67, तेन निर्वृत्तम् 4|2|68, तस्य निवासः 4|2|69, तथा अदूरभवश्च 4|2|70 एते चत्वारः अर्थाः "चतुरर्थाः" नाम्ना ज्ञायन्ते । एतेषां विषये "रोणी" शब्दान्त-प्रातिपदिकानि "अण्" प्रत्ययम् स्वीकुर्वन्ति । यथा -

1. रोण्या निर्वृत्तः कूपः = रोणी + अण् → रौणः ।
2. अजकरोण्या निर्वृत्तः कूपः = अजकरोणी + अण् → आजकरोणः
3. सिहिकरोण्या निर्वृत्तः कूपः = सिहिकरोणी + अण् → सैहिकरोणः

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "रोणी" इति लुप्तपञ्चम्यन्तम् पदम् अस्ति । येन विधिस्तदन्तस्य 1|1|72 इत्यत्य दत्तेन समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः अनेन वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः नास्ति एतत् स्पष्टं भवति, अतः "रोण्याः" इति उच्यते चेत् अस्य सूत्रस्य प्रसक्तिः "अजकरोणी / सिहिकरोणी" एतेषाम् विषये न भवेत् । परन्तु अत्र तदन्तविधिः अपि अपेक्षते, अतः अत्र लुप्तविभक्तिकः निर्देशः कृतः अस्ति । अस्मिन् विषये न्यासकारः वदति - " यदि `रोण्याः` इत्यादिनिर्देशः क्रियेत, तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न (परिभाषा 89) इति `केवलात्` एव स्यात, न तदन्तात्। `रोणी` इति शास्त्र-अनपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वम् इह उच्यते, तत् अस्याः परिभाषाया अनपेक्षणात् इह तदन्तात् अपि प्रत्ययः सिद्धो भवति" ।
One-line meaning in English
In the context of चतुरर्थाः, the words ending in "रोणी" get the "अण्" प्रत्यय.
काशिकावृत्तिः
रोणीशब्दादण् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। कूपलक्षणस्य अञो ऽपवादः। रोणी इति को ऽयं निर्देशो, यावता प्रत्ययविधौ पञ्चमी युक्ता? सर्वावस्थप्रतिपत्त्यर्थम् एवम् उच्यते। रोणीशब्दः सर्वावस्थोऽण्प्रत्ययम् उत्पादयति, केवलस्तदन्तश्च। रौणः। आजकरोणः। सैहिकरोणः।
`कोऽयं निर्देशः`इति। कुत्सितोऽयं निर्देश इत्यर्थः। कुत्सितं तु लक्षणातिक्रान्तत्वात्। तदेव लक्षणातिक्रान्तत्वं दर्शयितुमाह `यावता`इत्यादि। सर्वावस्था च केवलस्य तदन्तस्य च प्रतिपत्तिः प्रकृतत्वेन यथा स्यादित्येवमर्थमुच्यते। यदि `रोण्याः` इत्यादिनिर्देशः क्रियेत तदा `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न` (व्या।प।89) इति केवलादेव स्यात, न तदन्तात्। रोणीति शास्त्रानपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिहोच्यते, तदस्याः परिभाषाया अनपेक्षणादिह तदन्तापि प्रत्ययः सिद्धो भवति। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न चेदं प्रातिपदिकम्; स्त्रीप्रत्ययान्तत्वात्। अथ मतम्-- `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इति प्रातिपदिकस्य तदन्तविधेः प्रतिषिध्यमानः स्त्रीप्रत्ययान्तस्यापि प्रतिषिध्यत इति,एतच्च यत्र हि प्रातिपदिकस्य स्वरूपग्रहणं तद्विषया परिभाषेति प्राग् ज्ञापितमेतत्? एवं तर्हि तस्य ज्ञापनस्य प्रायिकत्वं दर्शयति। तेन क्वचिदस्वरूपग्रहणेऽप्येषा परिभाषा प्रवत्र्तते। तेन कुमारीमाचष्टे कुमारयतीत्यत्र `जातिष्ठवत् प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भावः सिद्धो भवति॥
केवलस्तदन्तश्चेति । अन्यथा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्केवलादेव स्यात्, न तदन्तात् । रोणीति पुनः शास्त्रनिरपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिह सच्यत इति परिभाषया अनपेक्षणातदन्तादपि भवति । ननु च रोणीति नेदं प्रातिपदिकम्, स्त्रीप्रत्ययान्तत्वात्; न च ठ्ग्रहणवता प्रातिपदिकेनऽ इत्यत्र लिङ्गविशिष्टस्य ग्रहणम्, येन स्त्रीप्रत्ययान्तेनापि तदन्तविधिः प्रतिषिध्येत, स्वरूपविधिविषया परिभाषेयं प्रातिपदिकस्य स्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्युक्तत्वात् ? यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं भवतीति भाष्यकारपक्षः, तदाश्रयेणैतदुक्तम् । एवं च वृत्तिकारस्याप्ययमेव पक्षः । ङ्याप्सूत्रेतु परपक्षो दर्शित इति गम्यते । कि सिद्धं भवति ? कुमारीमाचष्टे कुमारयति---ठ्णाविष्ठवद्ऽ इति टिलोपः सिद्धो भवति ॥ वुञ्च्छण्कठजिलसेनिरढञ्णययफक्फिञिञ्ञ्यकक्ठकोरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥ सूत्रे कुमुदशब्दो द्विरुपादीयते, तत्रारीहणकृशाश्वर्श्यकुमुदाश्च काशतृणादयश्चेति द्वन्द्वयोर्द्वन्द्करणादेकशेषाभावः । कुमुदादिष्विति । ऋश्यादेरनन्तरेषु औत्सर्गिकोऽपि तत्र इष्यत इत्यादि यदुक्तं तदेवाप्तप्रयोगेण द्रढयति---तथा चोक्तमिति । ठ्लुपियुक्तवद्ऽ इत्यत्र भाष्यकारणैतदुक्तम् । अथास्मात्प्रयोगाद्विशेषविहितानामेव पक्षे लुब् भवतीति कस्मान्नोच्यते ? तथा वा भवतु; सर्वथा चातूरूप्यमेवात्र नः समीहितम् ॥
सिद्धान्तकौमुदी
रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥
कोपधाच्च - कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः । कार्कवाकवमिति । कृकवाकुना निर्वृत्तः कूप इत्यर्थः । ओर्गुणः । आदिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति । त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः ।
रोणी - रोणी । रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः । तथाच फलितमाह — रोणीशब्दादिति । पञ्चम्याः सौत्रो लुगित्यन्ये । तदन्तादिति ।येन विधि॑रिति सूत्रे भाष्यस्थविसेषवचनात्, विशेषणविशेष्ययोः कामचारमाश्रित्यसमासप्रत्ययविधौ प्रतिषेधः॑इत्यस्य प्रत्याख्यानाद्वा तदन्तविरिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.