॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|69
SK 1281
4|2|69
तस्य निवासः  
SK 1281
सूत्रच्छेद:
तस्य - षष्ठ्येकवचनम् , निवासः - प्रथमैकवचनम्
अनुवृत्ति:
देशे  [4|2|67] (प्रथमया विपरिणम्यते) - प्रथमैकवचनम् , तन्नाम्नि  [4|2|67] (प्रथमया विपरिणम्यते) - प्रथमैकवचनम् , इति  [4|2|67] - अव्ययम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"तस्य निवासः इति तन्नामा देशः" (इति) समर्थानाम् प्रथमात् परः तद्धितः प्रत्ययः अण् वा
सूत्रार्थ:
षष्ठीसमर्थात् "तस्य निवासः" अस्मिन् अर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।
कस्यचन देशस्य नाम्नः निर्देशं तस्मिन् देशे यस्य निवासः अस्ति तस्य आधारेण कर्तुम् अस्य सूत्रस्य प्रयोगः भवति । यथा -

1. शिबीनां निवासः देशः = शिबि + अण् → शैबः देशः ।
2. उत्सानां निवासः देशः = उत्स + अण् → औत्सः देशः ।
3. ऋजुनावां निवासः देशः = ऋजुनव + अण् → आर्जुनावः देशः ।


स्मर्तव्यम् - अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4|2|67, तेन निर्वृत्तम् 4|2|68, तस्य निवासः 4|2|69, तथा अदूरभवश्च 4|2|70 एते चत्वारः अर्थाः "चतुरर्थाः" नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु "देशे तन्नाम्नि" इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।
One-line meaning in English
To indicate the name of a country by referring to its residents, an appropriate तद्धित प्रत्यय gets attached to the word in षष्ठीविभक्ति representing the name of the residents.
काशिकावृत्तिः
तस्य इति षष्ठीसमर्थान् निवासः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। निवसन्त्यस्मिन्निति निवासः। ऋजुनावां निवासो देशः आर्जुनावो देशः। शैबः। शुदिष्ठः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
ऋजुनावामिति । ऋज्वी नौर्येषां तेषामित्यर्थः ॥
सिद्धान्तकौमुदी
शिबीनां निवासो देशः शैबः ॥
तस्य निवासः - तस्य निवासः । "तन्नाम्नि देशे" इत्येव । तस्य निवास इत्यर्थे षष्ठन्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः । स्वत्ववान्विषयः, निवासस्तु वसतिमात्रं, स्वत्वाऽस्वत्वसाधारणमित्याहुः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
शिबीनां निवासो देशः शैबः॥
महाभाष्यम्
तस्य निवासः (1490)