॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|65
SK 1277
4|2|65
सूत्राच्च कोपधात्‌  
SK 1277
सूत्रच्छेद:
सूत्रात् - पञ्चम्येकवचनम् , च - अव्ययम् , कोपधात् - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सूत्रवाचिनः ककार उपधादुपन्नस्य प्रत्ययस्य लुग् भवति। अप्रोक्तार्थ आरम्भः। पाणिनीयम् अष्टकं सूत्रम्। तदधीयते अष्टकाः पाणिनीयाः। दशका वैयघ्रपदीयाः। त्रिकाः काशकृत्स्नाः। सङ्ख्याप्रकृतेरिति वक्तव्यम्। इह मा भूत्, महावार्त्तिकं सूत्रम् अधीते माहावार्त्तिकः। कालापकम् अधीते कालापकः। कोपधातिति किम्? चतुष्टयम् अधीते चातुष्टयः।
कोपधादिति वचनात् स्वरूपग्रहणं न भवतीत्यतः सूत्रवाचिनो ग्रहणं विज्ञायत इत्याह-- `सूत्रवाचिनः प्रतिपादिकात्` इति। `अष्टकम्` इति। अष्टावध्यायाः परिमाणमस्य। `तदस्य परिमाणम्` 5|1|56 इत्यनुवत्र्तमाने `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु` 5|1|57 इति च `सख्याया अतिशदन्तायाः कन्` 5|1|22 इति कन्।`संख्याप्रकृतेरिति वक्तव्यम्` इति। संख्या प्कृतिर्यस्य प्रत्ययस्य स संख्याप्रकृतिः। तदन्तात् कोपधादुत्पन्नस्य लुब्भवतीत्येतदर्थरूपं वक्तव्यम्, व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्-- वेति वत्र्तते, सा च व्यवस्थितविभाषा, तेन संख्याप्रकृतेरेव भविष्यति, नान्यस्मादिति।`{चातुष्टयः-- काशिका, चतुष्टयः-पदमञ्जरी।}चातुष्टयम्` इति। चत्वारोऽवयवा अस्येति `संख्याया अवयवे तयप्` 5|2|42 , `ह्यस्वात् तादौ तद्धिते` 8|3|99 इति मूर्धन्यः, षत्वं भवति। एतत् संख्याप्रकृतिप्रत्ययान्तम्, न तु कोपधम्, किं तर्हि? योपधम्॥
अष्टकं सूत्रमिति । अष्टावध्यायाः परिमाणमस्य, ठ्संख्यायाः संज्ञासङ्घसूत्राध्ययनेषुऽ इति ठ्संख्याया अतिशदन्तायाः कन्ऽ । संख्याप्रकृतेरिति वक्तव्यमिति । संख्या प्रकृतिर्यस्य प्रत्ययस्य तदन्तात्कोपधादिति वक्तव्यमित्यर्थः । कालापकमधीते कालापक इति । कलापिना प्रोक्तमेधीयते कालापाः, ठ्कलापिनोऽण्ऽ, ठ्नान्तस्य टिलोपे सब्रह्मचारिऽ इत्यौपसंख्यानिकष्टिलोपः, ततः ठ्तदधीतेऽ इत्यण्, प्रोक्ताल्लुक् । कालापानामाम्नाय इति ठ्गोत्रचरणाद् वुञ्ऽ, कालापकम्, ततः ठ्तदधीतेऽ इत्यण्, तस्य लुग्न भवति । यदि स्याद् ञित्स्वरेणाद्यौदातत्वं स्यात्, लुगभावे त्वण एव स्वरो भवति, स्त्रियां च ङीब् भवति । चतुष्टय इति । चत्वारोऽवयवा अस्य ठ्संख्याया अवयवे तयप्ऽ, ठ्ह्रस्वातादौ तद्धितेऽ इति मूर्द्धन्यः ॥
सिद्धान्तकौमुदी
सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥
सूत्राच्च कोपधात् - सूत्राच्च को । ककारोपधादित्यनन्तरंपरस्ये॑ति शेषः । ननुप्रोक्ताल्लु॑गित्येव सिद्धे किमर्थमिदमित्यत आह — अप्रोक्तार्थ आरम्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति ।तदस्य परिमाण॑मित्यधिकारेसङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑ इतिसङ्ख्याया अतिशदन्तायाः क॑न्निति च सूत्ररूपेऽर्थे कन् । अष्टका इति । अष्टकशब्दाध्येतृवेदितृप्रत्ययस्य नेन लुक्, कोपधात्सूत्रवाचिनः परत्वादिति भावः ।सह्ख्याप्रकृतिकादिति ।सूत्राच्च कोपधा॑दितिलुक्सङ्ख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहावार्तिक इति । महावार्तिकं नाम सूत्रम् । तदधीते वेत्ति वा माहावार्तिकः । अत्र अणो न लुक् ।
सूत्राच्च कोपधात् - अष्टकमिति ।सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑इतिसङ्ख्याया अतिशदन्तायाः कन् ।सह्ख्याप्रकृतिकादिति वाच्यम् । सङ्ख्याप्रकृतिकीदिति । सङ्ख्याप्रकृतिकप्रत्ययन्तादित्य्रथः । कालापक इति । कलापि न्शब्दात्प्रोक्तार्थेऽण् ।सब्राहृचारी॑त्युपसङ्ख्यानाट्टिलोपः । ततोऽद्येतर्यण् । तस्यप्रोक्ताल्लु गिति लुक् । कालापानामाम्नाय इत्य्रथेगोत्रचरणाद्वुञ् । ततोऽध्यतृवेदित्रणो न लुक् । स्वरे स्त्रियां च विशेषः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सूत्राच्च कोपधात् (1486) (सूत्रपूरकभाष्यम्) संख्याप्रकृतेरिति वक्तव्यम्। इह मा भूत् ‐ माहावार्तिकः, चान्दनगन्धिकः, कालापकः।।