Page loading... Please wait.
4|2|64 - प्रोक्ताल्लुक्
॥ तस्मै पाणिनये नमः ॥
4|2|64
SK 1274
प्रोक्ताल्लुक्  
सूत्रच्छेदः
प्रोक्तात् (पञ्चम्येकवचनम्) , लुक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रोक्तसहचरितः प्रत्ययः प्रोक्तः। प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोः उत्पन्नस्य लुग् भवति। पाणिनिना प्रोक्तं पाणिनीयम्। तदधीते पाणिनीयः। आपिशलः। स्त्रियां स्वरे च विशेषः। पाणिनीया ब्राह्मणी।
युक्तो निर्देशो यदि प्रोक्तनामा ग्रन्थो व्याकरणादिर्भवति, न चासावस्ति; अन्यार्थेन ततः परः सम्भवतीत्येतं दोषमाकर्त्तुमाह-- `प्रोक्तसहचरितः` इत्यादि। साहचर्यात् सोऽयमित्यभेदोपचारेण प्रोक्तार्थे यो वहितः प्रत्ययः स प्रोक्तशब्देनोक्त इति दर्शयति। `पाणिनीयः` इति। `वृद्धाच्छः` 4|2|113 तदन्तात् `तदधीते तद्वेद` 4|2|58 इत्यण्। तस्य लुक् `पाणिनीयः`। आपिशलिना प्रोक्तमित्यण्, तस्य लुक्--- `आपिशलः`। कः पुनरत्र विशेषोऽर्थो लुकि सति, यावता तदेव रूपम्? इत्याह-- `स्त्रियाम्` इत्यादि। असति लुकि `टिड्ढाणञ्` 4|1|15 इति ङीप् स्यात्, सोऽणः स्वरेणान्तोदात्तः। लुकि हि सति टाब्भवति, स्वरेण तु मध्योदात्तः। आपिशलिशब्दाल्लुकि सति स्वरे नास्ति विशेषः। सत्यपि हि लुक्यन्तोदात्तत्वेन भवितव्यम्। स्त्रियान्तु पूर्वोक्तो विशेषो वत्र्तते--- न हि लुकि सति ङीब्भवति; सत्यप्यणि तत्रैव `अनुपसर्जनात्` 4|1|14 इत्यधिकारात् प्रतिषेधात्, प्रोक्तार्थविहितस्य चाण इहोपसर्जनत्वात्॥
प्रोक्तसहचरित इति । अर्थस्य प्रोक्तत्वादर्थेन च प्रत्ययस्य पौर्वापर्यायोगान्मुख्यार्थासम्भवाद् गौणस्य ग्रहणमित्यर्थः । अपर आह---प्रोक्तशब्द इह स्वर्यते, तेन तदधिकारविहितः प्रत्ययो गृह्यत इति । यदि वा प्रोक्ते भवः प्रोक्त इति सौत्रोऽयमतद्धैतनिर्देशः । पाणिनीयमिति । ननु पणोऽस्यास्तीति पणी, तस्यापत्यं पाणिनः, पाणिनस्यापत्यं पणिनो युवा पाणिनिः, ततः ठ्तेन प्रोक्तम्ऽ इत्यर्थविवक्षायां ठ्यूनि लुक्ऽ इति इञो लुकि कृते प्रत्ययलक्षणेन ठिञश्चऽ इत्यण् प्राप्नोति ? नैष दोषः; ठिञश्चऽ इत्यत्र ठ्कणावादिभ्यो गोत्रेऽ इत्यतः ठ्गोत्रेऽ इत्यनुवर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ् विहितस्तदन्तादिति । तत्र च पारिभाषिकं गोत्रं गृह्यते, तेन यूनीञो न भविष्यति, ततो वृद्धाच्छः; आपिशलिशब्दाद् ठिञश्चऽ इत्यण्, उभयत्राध्येतृप्रत्ययस्य लुक् । नन्वत्र लुकि सति, असति वा तदेव रूपमिति नास्ति विशेषः ? तत्राह---स्त्रियां स्वरेच विसेष इति । असति लुकि स्त्रियाम् ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप् स्यात्, अण्स्वरेणान्तोदातत्वं च । लुकि तु सति टाब् भवति, च्छस्वरेण मध्योदातत्वं च । आपिशले तु स्वरे नास्ति विशेषः, यथा तु लुकि सत्यपिशलेत्यत्र ङीब्न भवति, तथा ठनुपसर्जनाद्ऽ इत्यत्र प्रत्यपादि ॥
सिद्धान्तकौमुदी
प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ॥
प्रोक्ताल्लुक् - अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते । तदाह — प्रोक्तार्थकेति । पण इति । स्तुरित्यर्थः । ननुहलश्चे॑ति घञि उपधावृद्धिः स्यादित्यत आह — घञर्ते इति । पणीति । "अत इनिठनौ" इति मत्वर्थे इनिः । तस्येति । पणिनो गोत्रापत्येतस्यापत्य॑मित्यणि "पाणिन" इति रूपमित्यर्थः । अत्र अणोऽपत्यत्वात्तस्मिन्परे "इनण्यनपत्ये" इति प्रकृतिभावाऽभावाट्टिलोपे प्राप्ते ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रोक्ताल्लुक् (1485) (लुकोऽधिकरणम्) (सूत्रस्वरूपसाधकं भाष्यम्) अयुक्तोऽयं निर्देशः। प्रौक्तादिति भवितव्यम्। सौत्रो निर्देशः।।