॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|62
SK 1272
4|2|62
अनुब्राह्मणादिनिः  
SK 1272
सूत्रच्छेद:
अनुब्राह्मणात् - पञ्चम्येकवचनम् , इनिः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनुब्राह्मणशब्दातिनिः प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणो ऽपवादः। ब्राह्मणसदृशो ऽयं ग्रन्थः अनुब्राह्मणम्। तदधीते अनुब्राह्मणी। अनुब्राह्मणिनौ, अनुब्राह्मणिनः। मत्त्वर्थेन अत इनिठनौ 5|2|115 इति इनिना सिद्धम्? तत्र एतस्माट् ठन्नपि प्राप्नोति। अनभिधानान् न भविष्यति? अणो निवृत्त्यर्थं तर्हि वचनम्।
`ब्राआहृणसदृसोऽयं ग्रन्थोऽनुब्राआहृणम्` इति। यथार्थऽव्ययीभावं दर्शयति। ननु योऽनुब्राआहृणमधीते तस्यानुब्राआहृणमस्तीति तत्र मत्वर्थीयेनैवेनिना सिद्धम्, तत् किमर्थमिदम्? अण्बाधनार्थम्। यदीदं नोच्येत `तदधीते तद्वेद` 4|2|58 इत्यण् प्रसज्येत॥
ब्राह्मणासदृश इति । ठ्यथार्थे यदव्ययम्ऽ इति सादृश्येऽव्ययीभावः । चोदयति---मत्वर्थ इति । परिहरति---तत्रैतस्मादिति । दूषयति---अनभिधानादिति । साक्षात्परिहारमाह---अणो निवृत्यर्थं तु वचनमिति । क्वचितु मत्वर्थ इत्यादि न पठ।ल्ते ॥
सिद्धान्तकौमुदी
तदधते तद्वेद (कौमुदी-1269)इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥
अनुब्राह्मणादिनिः - अनुब्राआहृणादिनिः । सेषपूरणेन सूत्रं व्याचष्टे — तदधीते तद्वेदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथा च नकारस्योपदेशेऽन्त्यत्वाऽभावान्नेत्संज्ञा । ननु "अत इनिठनौ" इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह — अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् ।
अनुब्राह्मणादिनिः - अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदं सूत्रं, तद्रीत्या त्वणिष्यत इति, अनभिधानान्नेति वा बोध्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अनुब्राह्मणादिनिः (1485) (इनिप्रत्ययाधिकरणम्) (प्रत्याख्यानभाष्यम्) अयं योगः शक्योऽवक्तुम्। कथमनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिन इति? इनिनैतन्मत्वर्थीयेन सिद्धम्।।