Page loading... Please wait.
4|2|6 - द्वंद्वाच्छः
॥ तस्मै पाणिनये नमः ॥
4|2|6
SK 1207
द्वंद्वाच्छः  
सूत्रच्छेदः
द्वन्द्वात् (पञ्चम्येकवचनम्) , छः (प्रथमैकवचनम्)
अनुवृत्तिः
तेन  4|2|1 (तृतीयैकवचनम्) , कालः  4|2|3 (प्रथमैकवचनम्) , युक्तः  4|2|3 (प्रथमैकवचनम्) , नक्षत्रेण  4|2|3 (तृतीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"नक्षत्रेण युक्तः कालः" (इति) द्वन्द्वात् छः
सूत्रार्थः
"युक्तः कालः" अस्मिन् अर्थे नक्षत्रद्वन्द्वात् विशेषकालं अविशेषकालं च निर्देशयितुम् छ-प्रत्ययः भवति ।
"नक्षत्रद्वन्द्वम्" इत्युक्ते द्वयोः नक्षत्रयोः एकत्रग्रहणम् । यस्मिन् काले चन्द्रमाः एकस्मात् नक्षत्रात् अग्रिमनक्षत्रे प्रविशति, तस्य कालस्य निर्देशं नक्षत्रद्वन्द्वस्य साहाय्येन वर्तमानसूत्रेण छ-प्रत्ययः भवति । यथा -

1. राधया अनुराधया च युक्तम् अहः = राधानुराधा + छ → राधानुराधीयम् अहः / राधानुराधीया रात्रिः ।
(राधा = विशाखानक्षत्रम्)
2. तिष्येण पुनर्वसुना च युक्तः कालः = तिष्यपुनर्वसु + छ → तिष्यपुनर्वसवीयः अद्य ।
(तिष्य = पुष्यनक्षत्रम् )
ज्ञातव्यम् -
1. अनेन सूत्रेण उक्तः छ-प्रत्ययः विशेषकालस्य विषये अपि भवति, अविशेषकालस्य विषये अपि भवति । इत्युक्ते, अयं प्रत्ययः "लुप्" इत्यस्यापि अपवादत्वेन आगच्छति ।
2. एतत् नक्षत्रद्वन्द्वम् क्रमेण विद्यमानयोः नक्षत्रयोः एव भवेत्, यतः चन्द्रमाः क्रमेणैव नाक्षत्रमण्डलं भ्रमति ।
One-line meaning in English
To indicate the meaning of "time occupied by a certain नक्षत्र", छ प्रत्यय can be attached to the word in तृतीया विभक्ति that indicates name of a नक्षत्रद्वन्द्व.
काशिकावृत्तिः
नक्षत्रद्वन्द्वात् तृतीयासमर्थाद् युक्ते काले छः प्रत्ययो भवति, विशेषे च अविशेषे च। राधानुराधीया रात्रिः। तिष्यपुनर्वसवीयमहः। अविशेषे राधानुराधीयम्। अद्य तिष्यपुनर्वसवीयम्। लुपं परत्वाद् बाधते।
नक्षत्रग्रहणं यत्प्रकृतं तदिहार्थात् षष्ठन्तं विपरिणम्यते।तेन नक्षत्राणां यो द्वन्द्वस्तस्मात् प्रत्ययो विज्ञायत इत्याह-- `नक्षत्रद्वन्द्वात्` इति। `विशेषे चाविशेषे च` इति। अविशेषग्रहणस्य निवृत्तत्वात्। `अद्य राधानुराधीयम्` इति। ननु चाविशेषे लुपा भवितव्यम्, तत्कथं प्रत्ययस्य श्रवणमित्याह-- `लुपं परत्वाद्बाधते` इति॥
नक्षत्रग्रहणमनुवृतं षष्ठ।ल्न्ततया विपरिणम्यते, तच्च द्वन्द्वस्य विशेषणमित्याह---नक्षत्रद्वन्द्वादिति । राधानुराधीया रात्रिरिति । एकदेशद्वारेण रात्र्यादेर्नक्षत्रद्वययोगः । अद्य राधानुराधीयमिति । अद्येत्यस्यालिङ्गत्वेऽपि तद्विशेषणस्य नपुंसकत्वम्, लोकाश्रयत्वाल्लिङ्गस्य, लुपं परत्वाद्वाधते । च्छ इति । ननु युगपत्प्राप्तयोर्विप्रतिषेधः, न च लुप्च्छयोर्युगपत्प्रसङ्गः, प्रत्ययादर्शनस्य हि लुपसंज्ञा, तस्य कथं प्रत्ययेन सह प्रसङ्गः ? तस्मादयमत्रार्थः---ठ्मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोतरान्ऽ इति, एवमयं लुबण एव भवति, नास्य च्छस्य । तेनायं छाए लुपो विषये श्रूयते, एतदेव लुपं परत्वाद्वाधते च्छ इति बाधकत्वम् । परत्वादिति । यतोऽयं परस्तेन लुबस्य न भवति, तेन तद्विषयेऽप्यसौ श्रूयत इति ॥
सिद्धान्तकौमुदी
नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥
द्वंद्वाच्छः - द्वन्द्वाच्छः । तिष्यपुनर्वसवीयमिति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः । राधानुराधीयेति । रादेति विशाखानक्षत्रमुच्यते । राधा च अनूराधाश्च राधानूराधाः, तद्याक्ता रात्रिरित्यर्थः ।
द्वंद्वाच्छः - द्वन्द्वाच्छः । विशेषे उदाहरणमाह — तिष्येत्यादि । अविशेषे तूदाहर्तव्यम्अद्यराधानुराधीय॑मिति । न चात्रलुबविशेषे॑इति अम इव छस्यापि लुप्स्यादिति वाच्यं, मध्येऽपवादन्यायरीत्या पूर्वोपस्थितस्याऽण एव तत्प्रवृत्तेः । यत्तुलुपं परत्वाद्बाधते छ॑इति वृत्तिकृतोक्तं, तन्न, द्वयोर्युपत्प्रप्त्यभावा ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.