Page loading... Please wait.
4|2|59 - तदधीते तद्वेद
॥ तस्मै पाणिनये नम: ॥
4|2|59
SK 1269
तदधीते तद्वेद  
सूत्रच्छेद:
तत् - द्वितीयैकवचनम् , अधीते (क्रियापदम्) तत् - द्वितीयैकवचनम् , वेद (क्रियापदम्)
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ततिति द्वितीयासमर्थातधीते वेद इत्येतयोः अर्थयोः यथाविहितं प्रत्ययो भवति। छन्दो ऽधीते छान्दसः। वैयाकरणः। नैरुक्तः। निमित्तानि वेद नैमित्तः। मौहूर्तः। औत्पातः। द्विस्तद्ग्रहणम् अधीयानविदुषोः पृथग्निधानार्थम्।
`वैयाकरणः` इति। `नन य्वाभ्याम्` 7|3|3 इत्यादिना वृद्धिप्रतिषेधः,ऐजागमश्च। `द्विस्तद्दग्रहणम्` इत्यादि। यदि `तदधीते वेद` इत्येवोच्येत प्रत्ययार्थद्वस्य द्वितीयासमर्थे समुच्चयो विज्ञायते, ततश्च यस्त्वधीते वेत्ति च तत्रैव स्यात्; यस्त्वधीते केवलं न वेत्ति, वेत्ति वा केवलं नाधीते तत्र न स्यात्। द्विस्तद्ग्रहणे तु वाक्यभेदादधीयाने विदुषि च प्रत्येकं प्रत्ययः सिध्यति। तदर्थं द्विस्तद्ग्रहणम्। नैतद्द्विस्तद्ग्रहणस्य प्रयोजनम्, यथैव हि `ते न दीव्यति खनति जयति जितम्` 4|4|2 इत्यत्र सकृत् समर्थविभक्त्युपादानेऽपि प्रत्ययार्थचतुष्टयेन तृतीयासमर्थेन समुच्चयो न विज्ञायते,तथेहापि न विज्ञास्यते। तेन यथा दीव्यतिप्रभृतिषु प्रत्ययो भवति, तथेहापि प्रत्येकमधीयाने विदुषि च भविष्यतीति? न ब्राऊमः-- इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति। `कुतस्तर्हि? `क्रतूक्थादिसूत्रान्ताट्ठक्` 4|2|59 , `वसन्तादिभ्यष्ठक्` 4|2|62 इत्यत्र च। किं कारणं तत्र न स्यात्? क्रतुशब्दः कर्मनामधेयः,वसन्तादयोऽप्यृतुवचनाः, तेषामध्ययनं नोपपद्यते। तत्सहचरिते ग्रन्थे स्यात्, स च तत्र गोण इति न गृह्रते। मुख्य एवार्थे वेदने सम्भवतीति तेभ्यो विदुष्येण प्रत्ययः स्यात्, नाध्येतरि। पुनर्द्विस्तद्ग्रहणाद्गौणस्यापि ग्रहणं भवतीति प्रत्येकमध्येतृविदुषोरत्र ठक्प्रत्ययो भवति॥क्रतुशब्दः कर्मनामधेयः, तस्याध्यनवेदने द्वे न सम्भवत इति साहचर्यात् तदर्थो ग्रन्थो गृह्रते, न तु क्रतुनामा क्रतुरस्तीति तद्विशेषा येऽग्निष्टोमादयस्तद्रथो ग्रन्थो गृह्रते, तत्र चाह-- `क्रतुविशेषवाचिभ्यः` इति। अग्निष्टोममधीत इत्यग्निष्टोमेन सहचरितं तदर्थग्रन्थमधीत इत्यर्थः।`सूत्रान्तादकल्पादेरिष्यते` इति। किमिष्यत एव? ततो न तत् शस्यते, लभ्यते च। कुतः? वेत्यनुवृत्तेव्र्यवस्थितविभाषाविज्ञानात्। `किं तर्हि? सामलक्षण औक्थिक्ये वत्र्तमाने` इति। उक्थसंज्ञकानां साम्नलक्षणं व्याख्याग्रन्थ औक्थिक्यः, `{छन्दोगौक्थिक्य` इतिमु।पाठः।} छन्दोगौक्थिकय` 4|3|129 इत्यादिना ञ्यः। तत्रौक्थिक्ये सामलक्षणेग्रन्थे वत्र्तमान उक्थशब्दः प्रत्ययमुत्पादयति। कुत एतत्? गौणेन सह क्रतुशब्देन निर्देशात्। औक्थिक्ये उक्थशब्दस्य वृत्तिस्तादथ्र्याद्भवति। भवति च तादथ्र्यात् ताच्छब्द्यम्, यथा-- प्रदीपार्था मल्लिका प्रदीप इति। औक्थिक्यं योऽधीते कथं तत्र भवितव्यम्? इत्यत आङ-- `औक्थिक्यशब्दाच्च` इति। तत्रैव कारणमाह-- `अनभिधानात्` इति।`विद्यालक्षणकल्पसूत्रान्तात्` (ग।सू।84), इत्यस्यातिप्रसक्तस्यापवादमाह-- `विद्या च`इत्यादि। विद्याशब्दोऽनङ्गक्षत्रधर्मसंसर्गत्रिपूर्व एव प्रत्ययमुत्पादयति, नाङ्गादिपूर्व इत्यर्थः। `त्रैविद्यः` इति। त्र्यवयवा विद्या, शाकपार्थिवादित्वादुत्तरपदलोपी समासः। त्रिविद्यामधीते त्रैविद्यः। यावक्रीतमाख्यानधीते `यावक्रीतिकः`। प्रियङ्गुमधीते `प्रैयङ्गविकः`। वासवदत्तामाख्ययिकामधीते `वासवदत्तिकः`। सुमनोत्तरामधीते `सौमनोत्तरिकः।`सर्वसादेर्द्विगोश्च लः` इति। सर्वादेः सादेर्द्विगोरुत्पन्नस्य ठको लोपो भवतीत्यर्थः। ननु च `द्विगोर्लुगनपत्ये` 4|1|88 इत्येवं सिद्धः? सत्यमेतत्; इह तु कैश्चित् `विद्यालक्षणकल्पसूत्रान्तात्` (ग।सू।84) इत्यादिना प्रतिपदं प्रत्ययो विधीयते। तद् द्वेष्यमपि जायेत। प्रतिपदविधानान्न लुक्, ततो लुग्वचनम्।`अनुसूर्लक्ष्यलक्षणे च` इति। अनुसूशब्दः प्रत्ययमुत्पादयति। लक्ष्यलक्षणे च शब्दरूपे प्रत्ययमुत्पादयतः। `आनुसुकः` इति। `इसुसुक्तान्तात् कः` 7|3|51 इति कः, `केऽणः` 7|4|13 इति ह्यस्वः।`इकन बहुलं पदोत्तरपदात्` इति। पदशब्द उत्तरपदं यस्य स तथोक्तः।`शतषष्टेः षिकन् पथः`इति। शतषष्टिशब्दाभ्यामुत्तरस्मात् पथः षिकन् प्रत्ययो भवति। षकारो ङीषर्थः, नकारः स्वरार्थः। एतत्सर्वमुक्थादिषु पाठादेव सिद्धम्। यदपीह किञ्चिन्न पठते, तदपि च बहुलग्रहणेन संगृहीतम्। उक्थादिष्वपि षिकन् बहुलं पदोत्तरपदाच्चेति पठते॥
इह योऽयं ग्रन्थमधीते स तं स्वरूपता वेति, यश्च वेति सोऽवश्यमधीते---इत्यन्यतरोपादानेन सिद्धम्, किमर्थमिमावर्थावुपदिश्येते, नैतयोरावश्यकः समावेशः, अध्ययनम् उ शब्दपाठः, अर्थावबोधः उ वेदनम्, भवति च---कश्चित्संपाठ्ंअ पठति नार्थं वेति, कश्चिच्चार्थं वेति न संपाठ्ंअ पठति । द्विस्तद्ग्रहणमित्यादि । ठ्तदधीते वेदऽ इत्युच्यमाने समुच्चयो विज्ञायेत, ततश्च यस्तदधीते वेद च तत्रैव स्यात्, यस्तु केवलमधीते वेद वा न तत्र स्यात्; द्विस्तद्ग्रहणे तु वाक्यभेदेनाधीयानविदुषोः पृथक्प्रत्ययविधानं सिध्यति । ननु च ठ्तदस्य तदस्मिन्स्यात्ऽ इत्यत्र नानार्थनिर्देशे प्रत्येकं समर्थविभक्तिः सम्बन्धनीयेति द्विस्तद्ग्रहणेन न्यायो व्युत्पादयिष्यते, अत एव ठ्तेन दीव्यतिऽ इत्यत्र प्रत्यर्थं प्रत्ययो भवति ? न ब्रूमः---इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति, किं तर्हि ? उतरत्र ठ्क्रतूक्थादिसूत्रान्ताठठक्ऽ, ठ्वसन्तादिभ्यष्टक्ऽ इत्यत्रापि, किं च कारणं न स्यात् ? क्रतुशब्दः कर्मनामदेयं वसन्तादयोऽप्यर्थाः, न तेषामध्ययनं सम्भवति, तस्य शब्दविषयत्वात्, तत्सहचरिते तु ग्रन्थे सम्भवति, गौणत्वातु न गृह्यते, मुख्य एव त्वर्थे वेदनं सम्भवतीति तेभ्यो विदुष्येव स्याद्, नाध्येतरि । पुनस्तद्ग्रहणातु यत्नाद् गौणस्यापि ग्रहणातत्रापि भवति ॥
सिद्धान्तकौमुदी
व्याकरणमधीते वेद वा वैयाकरणः ॥
तदधीते तद्वेद - तदधीते । तदधीते इत्यर्थे, तद्वेत्तीत्यर्थे च द्वितीयान्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयथ्र्यात् । यताचैतत्तथा अध्वरमीमासाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणिन य्वाभ्यामि॑त्यैजागमः ।ऋतूक्थादि । "तदधीते तद्वेदे" त्यर्थयोः — क्रतु, उक्थादि,सूत्रान्तः-एभ्यः ठक् स्यादित्यर्थः । क्रतुविशेषवाचिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमद्ययनम्, अक्षरग्रहणात्मकत्वाऽभावादित्यत आहतेभ्य इति । अग्निष्टोमादिशब्दाः क्रतुविशेषेषु मुख्याः । तत्प्रतिपादकग्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्योऽग्निष्टोमादिशब्देभ्यो वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्योऽध्येतरीत्यर्थः । आग्निष्टोमिक इति । अग्निष्टोमं क्रतुं वेत्ति, तत्प्रतिपादकग्रन्थमधीते इति वाऽर्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थशब्दाट्ठगित्याह — उक्थं सामविशेष इति ।अग्निष्टोमस्तोत्रात्परं यत्साम गीयते॑ इति वृत्तिकृदुक्तेरिति भावः । भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लक्ष्यते । मुख्यार्थादिति । सामवाचिन उक्थशब्दात्तु न ठक् । तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दाट्ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितान्न्यायादिशब्दाट्ठकमुदाहरति — न्यायमिति ।अधीते वेत्ति वे॑ति शेषः । नैयायिक इति । ठकि ऐजागमः । वृत्तिमिति ।अधीते वेद वे॑ति शेषः । वार्त्तिक इति । ठकि आदिवृद्धौ रपरत्वम् । साङ्ग्रहसूत्रिक इति । संग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति । विद्या, लक्षण, कल्प-एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । अङ्गेति । अङ्ग, क्षत्र, धर्म, त्रि-एतत्पूर्वकाद्विद्यान्तात्समासाट्ठक् नेत्यर्थः । ततश्च अणेव । त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिरुआओ विद्यास्त्रिविद्या इति न विग्रहः,दिक्सङ्ख्ये संज्ञाया॑मिति नियमात् । नापि तिरुआओ विद्या अधीते वेद वेति तद्धितार्थे द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया "द्विगोर्लुगनपत्ये" इति लुगापत्तेः । तिसृणां विद्यानां समाहर इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण-एभ्यश्च उक्तेऽर्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन आक्यायिकाशब्देन च आख्यानविशेषवाचिन आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहास पुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः ।आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षण॑मित्यमरः ।इतिहासः पुरावृत्त॑मिति च ।सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षमम् । तत्र आख्यानादुदाहरति — यवक्रीतमिति । आख्यायिकाया उदाहरति — वासवदत्तामिति । लुग्वक्तव्य इति ।उक्तप्रत्ययस्ये॑ति शेषः । सर्ववेद इति । अणो लुकि आदिवृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्यधीते वेद वेत्यर्थः । सवार्तिंक इति । वार्तिकेन सह सवार्तिकम् ।तेन सहे॑ति बहुव्रीहि ।वौपसर्जनस्ये॑ति सभावः । सवार्तिकं सूत्रमधीते इत्यर्थः । द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वादणो लुकि आदिवृद्ध्यभावे "द्वितन्त्र" इति रूपमित्यर्थः । इकन्पदोत्तरपदादिति । पदशब्द उत्तरपदं यस्य स पदोत्तरपदः, तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः षिकन्पथ इति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तस्मादुक्तेर्थे षिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः । शतपथिक इति । शतपथं नाम वाजसनेयिब्राआहृणं । तदधीते वेत्ति वेत्यर्थः । शतपथिकीति । षित्त्वान्ङीषिति भावः । एवं षष्ठिपथिकः । षष्टिपथिकीति ।
तदधीते तद्वेद - तदधीते । द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । द्विस्तद्ग्रहणमधीयाने विदुषि च प्रत्येकं विधानार्थम् । तेनोत्तरत्र क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गौणा अप्यधीयानेऽपि प्रत्ययं प्राप्रनुवन्ति । अन्यथा तेषामध्ययनाऽसंभवेन वेदितर्येव प्रत्ययः स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तदधीते तद्वेद (1482) (अर्थाधिकरणम्) (अर्थद्वयकथनप्रयोजनभाष्यम्) किमर्थमिमावुभावप्यर्थौ निर्दिश्येते, न योऽधीते वेत्त्यप्यसौ, यस्तु वेत्त्यधीतेऽप्यसौ। नैतयोरावश्यकः समावेशः। भवति हि कश्चित्संपाठं पठति, न च वेत्ति; कश्चिच्च वेत्ति, न च संपाठं पठति।।