Page loading... Please wait.
4|2|56 - संग्रामे प्रयोजनयोद्धृभ्यः
॥ तस्मै पाणिनये नम: ॥
4|2|56
SK 1265
संग्रामे प्रयोजनयोद्धृभ्यः  
सूत्रच्छेद:
सङ्‍ग्रामे - सप्तम्येकवचनम् , प्रयोजनयोद्धृभ्यः - पञ्चमीबहुवचनम्
अनुवृत्ति:
सः  [4|2|55] - प्रथमैकवचनम् , अस्य  [4|2|55] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"सः अस्य सङ्ग्रामे प्रयोजनयोद्धृभ्यः" (इति) समर्थानां प्रथमात् परः तद्धितः प्रत्ययः अण् वा
सूत्रार्थ:
प्रथमासमर्थात् प्रयोजनवाचिनः / योद्धावाचिनः शब्दात् सङ्ग्रामस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।
यदि कश्चन सङ्ग्रामः तस्य "प्रयोजनम् अनुसृत्य" / "योद्धॄन् अनुसृत्य" वा वर्ण्यते, तर्हि तस्य सङ्ग्रामस्य निर्देशं कर्तुम् वर्तमानसूत्रेण प्रथमासमर्थात् प्रयोजनवाचिनः शब्दात् / योद्धृवाचिनः शब्दात् यथाविहितः प्रत्ययः भवति । यथा -

1. भद्रा प्रयोजनम् अस्य सङ्ग्रामस्य सः = भद्रा + अण् → भाद्रः सङ्ग्रामः ।
2. सुभद्रा प्रयोजनम् अस्य सङ्ग्रामस्य सः = सुभद्रा + अण् → सौभद्रः सङ्ग्रामः ।
3. भरताः योद्धारः अस्य सङ्ग्रामस्य सः = भरत + अण् → भारतः सङ्ग्रामः ।
4. अहिमालाः योद्धारः अस्य सङ्ग्रामस्य सः = अहिमाला + अण् → आहिमालः सङ्ग्रामः ।
One-line meaning in English
To indicate a battle using the purpose or the participants of that battle, an appropriate तद्धितप्रत्यय can be attached to the word in the प्रथमा विभक्ति which represents the purpose or the participants of the battle.
काशिकावृत्तिः
सो ऽस्य इति समर्थविभक्तिः, प्रत्ययार्थश्च अनुवर्तते। प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च। प्रत्ययार्थविशेषनं सङ्ग्रामः। प्रयोजनवाचिभ्यः योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यः अस्य इति षष्ठ्यर्थे सङ्ग्रामे ऽभिधेये यथाविहितं प्रत्ययो भवति। भद्रा प्रयोजनम् अस्य सङ्ग्रामस्य भद्रः सङ्ग्रामः। सौभद्रः। गौरिमित्रः। योद्धृभ्यः आहिमाला योद्धारो ऽस्य सङ्ग्रामस्य आहिमालः। स्यान्दनाश्वः। भारतः। सङ्ग्रामे इति किम्? सुभद्रा प्रयोजनम् अस्य दानस्य। प्रयोजनयोद्धृभ्यः इति किम्? सुभद्रा प्रेक्षिका ऽस्य सङ्ग्रामस्य।
अत्र `संग्रामे` इति प्रत्ययार्थ इति, सप्तम्यन्तत्वात्। `प्रयोजनयोद्धृभ्यः` इति पञ्चम्यन्तत्वात् प्रकृतिनिर्देशः, ततश्च `समर्थानां प्रथमाद्वा` 4|1|82 इत्येतद्विरुध्यते; प्रथमस्य प्रत्ययार्थत्वेन द्वितीयस्य प्रकृतित्वेनोपादीयमानत्वादित्यस्य चोद्यस्य निरासायाह-- `सोऽस्येति समर्थविभक्तिः प्रत्ययार्थश्चानुवत्र्तते` इति। एतेनैतद्दर्शयति-- `प्रयोजनयोद्धृभ्यः` इत्येतदेवमर्थं यस्मात् पूर्वसूत्रादेव स इति प्रथमं तदिहानुवत्र्तते, तद्वशेषणं तु प्रयोजनयोद्धृभ्य इति। प्रत्ययाथोऽप्यस्येति पूर्वसूत्रादनुवत्र्तते, तद्विशेषणं संग्रामः, तत्रो नास्ति विरोधः; पूर्वसूत्रे यत् प्रथमानिर्दिष्टं तत एव प्रत्ययविधानादिति॥
ठ्समर्थानां प्रथमाद्वाऽ इति वचनात्संग्रामवाचिभ्यः प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्यश्चरमनिर्दिष्टेभ्य इत्याशङ्क्याह--सोऽस्येति समर्थविभक्तिरित्यादि । प्रथमासमर्थविशेषणमिति । तेन विशेष्यद्वारेण प्रयाजनयोद्धार एव प्रथमनिर्दिष्टाः । प्रत्ययार्थविशेषणं संग्राम इति । तेन तद्द्वारेण संग्रामश्चरमनिर्दिष्टः ॥
सिद्धान्तकौमुदी
सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः ॥
संग्रामे प्रयोजनयोद्धृभ्यः - संग्रामे । अनुवर्तते इति । तथाच "संग्रामे" इति सप्तम्यन्तं षष्ठआ विपरिणतमस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सह्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रतमान्तेभ्योऽणादयः स्युरित्यर्थः ।
संग्रामे प्रयोजनयोद्धृभ्यः - संङ्ग्रामे । ननुप्रथमा॑दित्यधिकारात्प्रथमोच्चारितसङ्ग्रामवाचिन एव प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्य इत्यत आह — सोऽस्येतीति । एवं च प्रथमान्तविशेषणद्वारा प्रयोजनयोद्धृणां प्रकृतित्वम् ।अस्ये॑ति प्रत्ययार्थविशेषणद्वारा संग्रामस्य प्रत्ययर्थत्वं वक्तुं शक्यमिति भावः । तता चयमिह सूत्रार्थः — प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च प्रथमान्तेभ्योऽस्येति षष्ठन्तार्थेऽण् स्यात्, स च षष्ठआन्तार्थः । संग्रामश्चेदिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!