॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|42
SK 1250
4|2|42
ब्राह्मणमाणववाडवाद्यन्
SK 1250
सूत्रच्छेद:
ब्राह्मण-माणव-वाडवात् - पञ्चम्येकवचनम् , यन् - प्रथमैकवचनम्
अनुवृत्ति:
तस्य  [4|2|37] - षष्ठ्येकवचनम् , समूहः  [4|2|37] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
तस्य समूहः (इति) ब्राह्मण-माणव-वाडवात् यन्
सूत्रार्थ:
"तस्य समूहः" अस्मिन् अर्थे "ब्राह्मण", "माणव", "वाडव" शब्देभ्यः यन्-प्रत्ययः भवति ।
तस्य समूहः 4|2|37 अस्मिन् अर्थे ब्राह्मण, माणव, वाडव -शब्देभ्यः यन्-प्रत्ययः भवति । यथा -

1. ब्राह्मणानां समूहः = ब्राह्मण + यन् → ब्राह्मण्य ।
2. माणवानां (युवकानां) समूहः = माणव + यन् → माणव्य ।
3. वाडवानां (अग्नीनाम्) समूहः = वाडव + यन् → वाडव्य ।

अस्मिन् सूत्रे कानिचन वार्त्तिकानि दीयन्ते -

1. पृष्ठात् उपसंख्यानम् - "पृष्ठ" शब्दात् अपि तस्य समूहः 4|2|37 अस्मिन् अर्थे यन्-प्रत्ययः भवति । पृष्ठानां समूहः = पृष्ठ + यन् → पृष्ठ्यम् ।

2. अह्नः ख क्रतौ - "अहन्" शब्दस्य क्रतौ प्रयोगः भवति चेत् तेषां समूहं दर्शयितुम् "ख" प्रत्ययः भवति ।
अह्नाम् समूहः
= अहन् + ख
→ अहन् + ईन (आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति खकारस्य ईन्-आदेशः]
→ अह् + ईन [नस्तद्धिते 6|4|144 इति टिसंज्ञकस्य लोपः]
→ अहीन

3. पर्श्वा णस् वक्तव्यः - "पर्शु" (वृक्षस्य भेदनार्थम् प्रयुज्यमाणम् आयुधम्) शब्दात् तस्य समूहः 4|2|37 अस्मिन् अर्थे णस्-प्रत्ययः भवति । यथा -
पर्शूनां समूहः
= पर्शु + णस्
→ पर्शु + अ [इत्संज्ञा, लोपः]
→ → पार्शु + अ [आदिवृद्धिः]
→ पार्श्व [अत्र प्रत्ययः "सित्" अस्ति, अतः अङ्गस्य सिति च 1|4|16 इति पदसंज्ञा भवति । अतः ओर्गुणः 6|4|146 इत्यनेन गुणादेशः न विधीयते, अपितु इको यणचि 6|1|77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ]

4. वातात् ऊलः वक्तव्यः - "वात" शब्दात् तस्य समूहः 4|2|37 अस्मिन् अर्थे ऊल-प्रत्ययः भवति । वातानां समूहः = वात + ऊल → वातूल ।

ज्ञातव्यम् -
1. "यन्" प्रत्यये प्रयुक्तः नकारः स्वरार्थः अरस्ति । ञ्नित्यादिर्नित्यम् 6|1|197 इत्यनेन नित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यम् उदात्तः भवति ।
2. "माणव" अयम् शब्दः "मनोः अपत्यम्" अस्मिन् अर्थे अण्-प्रत्ययं कृत्वा सिद्ध्यति । "मनु + अण्" इत्यत्र अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः इत्यनेन भाष्योक्तसिद्धान्तेन नकारस्य णकारादेशः भवति ।
One-line meaning in English
The words ब्राह्मण, माणव, वाडव get the "यन्" प्रत्यय in the meaning of "तस्य समूहः".
काशिकावृत्तिः
ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। नकारः स्वरार्थः। ब्राह्मणानां समूहः ब्राह्मण्यम्। माणव्यम्। वाडव्यम्। यन्प्रकरणे पृष्ठादुपसङ्ख्यानम्। पृष्ठानां समूहः पृष्ठ्यः। अह्नः खः क्रतौ। अह्णां समूहः अहीनः क्रतुः। क्रतौ इति किम्? आह्नः। खण्डिकादिषु दर्शनादञ् भवति। पर्श्वा णस् वक्तव्यः। पर्शूनां समूहः पार्श्वम्। पदसंज्ञकत्वाद् गुणो न भवति। वातादूलः। वातानां समूहः वातूलः।
`पृष्टादुपसंख्यानम्` इति। पृष्ठशब्दाद्यन्प्रत्ययस्योपसंख्यानम् = व्याख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्रादिह चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन पृष्ठशब्दादपि भविष्यतीति। `अहीनः` इति। `अह्नष्टखोरेव` 6|4|145 टिलोपः। `आह्नः` इति। `अल्लोपोऽनः` 6|4|134 इत्यकारलोपः। ननु चाचित्तलक्षणेन ठका भवितव्यम्, तत्कथमाह्न इति भवति? इत्याह-- `खण्डिकादिषु ` इत्यादि।`णस्वक्तव्यः` इति। सकारः `सिति च` 1|4|16 इति विशेषणार्थः। तेन पार्(ामित्यत्र भत्वाभावात् `ओर्गुणः` 6|4|146 न भवति॥
नकारः स्वार्थ इति । ठ्ञ्नित्यादिर्नित्यम्ऽ इत्याद्यौदातत्वं यथा स्यात् । किमर्थं पुनर्ब्राह्मणादिभ्यो यन्विधीयते, न प्रकृतो यञेव विधीयते, न हि वृद्धेषु यञो यनो वा विशेषोऽस्ति---तदेव रूपम्, स एव स्वरः, ठञस्त्वस्वरितत्वादननुवृत्तिः ? ज्ञापनार्थं तु । एतज् ज्ञापयति---अन्येभ्यऽप्ययम् । किं सिद्धं भवति ? पृष्ठादुपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति । पृष्ठानां समूह इति । पृष्ठशब्दः स्तुतिविशेषवचनः । पृष्ठयः षडह इति । तद्वति तदुपचारः । णस्वक्तव्य इति । सकारः पदसञ्ज्ञार्थः, तेन पार्श्वमित्यत्र भत्वाभावादोर्गुणो न भवति ॥
सिद्धान्तकौमुदी
ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ ।पृष्ठादुपसंख्यानम् (वार्तिकम्) ॥ पृष्ठ्यम् ॥
ब्राआहृणमाणव। ब्राआहृण्यमित्यादि। ब्राआहृणानां माणवानां बाडबानां च समूह इति विग्रहः। मनोरपत्यं माणवः। अणि नस्य णत्वम्। `अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः` इति `मनोर्जातावञ्यतौ षुक्च` इति सूत्रे भाष्यम्।
ब्राआहृणमाणव। ननु त्रयोऽप्यमी वृद्धाः। तेभ्यः प्रकृतो यञेवास्तु, वृद्धाद्यनि यञि वा रूपे विशेषऽभावात्। नापि स्वरे विशेषः, उभयथाप्युदात्तत्वात्। स्त्रिया विशेषस्तु न शङ्क्य एव, नपुंसकत्वात्। `यञश्चे`त्यत्रापत्यग्रहणाच्च। ठञ् तु नानुवर्तिष्यते, अस्वरितत्वादिति, चेत्। सत्यम्। अवृद्धादपि कृतश्चिद्विधानार्थं यन्वचनम्। तत्सिद्धार्थानुवादकं वार्तिकमाह--।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ब्राह्मणमाणववाडवाद्यन् (1465) (यन्प्रत्ययाधिकरणम्) (नित्वफलबोधकं भाष्यम्) किमर्थं ब्राह्मणादिभ्यो यन्विधीयते, न यञ्ञ्प्रकृतस्सोनुवर्तिष्यते? न ह्यस्ति विशेषो ब्राह्मणादिभ्यो यनो वा यञ्ञो वा, तदेव रूपं स एव स्वरः। एवं तर्हि सिद्धे सति यद् ब्राह्मणादिभ्यो यनं शास्ति तज्ज्ञापयत्याचार्यः ‐ अन्येभ्योऽप्ययं भवतीति।। किमेतस्य ज्ञापने प्रयोजनम्? यन्प्रकरणे पृष्ठादुपसंख्यानमिति चोदयिष्यति तन्न कर्तव्यं भवति।। (5364 सिद्धार्थकथनपरं वार्तिकम्।। 1 ।।) - यन्प्रकरणे पृष्ठादुपसंख्यानम् - (भाष्यम्) यन्प्रकरणे पृष्ठादुपसंख्यानं कर्तव्यम्। पृष्ठानां समूहः ‐ पृष्ठयः ‐ षडहः।।