॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|40
SK 1248
4|2|40
केदाराद्यञ् च  
SK 1248
सूत्रच्छेद:
केदारात् - पञ्चम्येकवचनम् , यञ् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
वुञ्  [4|2|39] - प्रथमैकवचनम् , तस्य  [4|2|37] - षष्ठ्येकवचनम् , समूहः  [4|2|37] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
तस्य समूहः (इति) केदारात् वुञ् यञ् च
सूत्रार्थ:
"तस्य समूहः" अस्मिन् अर्थे केदार-शब्दात् यञ् तथा वुञ् प्रत्ययौ भवतः ।
तस्य समूहः 4|2|37 अस्मिन् अर्थे "केदाराणाम् समूहः" इति स्थिते वुञ् तथा यञ् प्रत्ययौ विधीयेते । यथा -

1. केदार + वुञ् → कैदारक ।
2. केदार + यञ् → कैदार्य ।

अत्र एकं वार्त्तिकं पाठ्यते - गणिकाया "यञ्" इति वक्तव्यम् । इत्युक्ते, गणिका-शब्दात् समूहार्थे यञ्-प्रत्ययः भवति । गणिकानां समूहः = गणिका + यञ् → गाणिक्यम् ।
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
केदारशब्दाद् यञ् प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूहः इत्येतस्मिन् विषये। अचित्तलक्षनस्य ठकः अपवादः। केदाराणाम् समूहः कैदार्यम्, कैदारकम्। गणिकायाश्च यज् वक्तव्यः। गनिकानां समूहः गाणिक्यम्।
`गणिकायाश्च यञ्वक्तव्यः` (इति)। वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- इहाप्युत्तरसूत्राच्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन गणिकाशब्दादपि यञ् भवतीति, वुञ् न भवतीति, अनभिधानात्॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
चाद्वुञ् । कैदार्यम् । कैदारकम् ॥गणिकाया यञिति वक्तव्यम् (वार्तिकम्) ॥ गाणिक्यम् ॥
केदाराद्यञ् च - केदराद्यञ् च । कैदार्यम्-कैदारकमिति । केदाराणां समूह इति विग्रहः ।गणिकाया यञ् । यञ्ग्रहणाद्वुञो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
केदाराद्यञ्च (1463) (5363 पूरकवार्तिकम्।। 1 ।।) - गणिकायाश्च - (भाष्यम्) गणिकायाश्चेति वक्तव्यम्। गणिकानां समूहो गाणिक्यम्।।