॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|4
SK 1205
4|2|4
लुबविशेषे  
SK 1205
सूत्रच्छेद:
लुप् - प्रथमैकवचनम् , अविशेषे - सप्तम्येकवचनम्
अनुवृत्ति:
नक्षत्रेण  [4|2|3] - तृतीयैकवचनम् , युक्तः  [4|2|3] - प्रथमैकवचनम् , कालः  [4|2|3] - प्रथमैकवचनम् , तेन  [4|2|1] - तृतीयैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"नक्षत्रेण युक्तः कालः" (इति) अविशेषे लुप्
सूत्रार्थ:
नक्षत्रवाचिनः तृतीयासमर्थात् "युक्तः कालः" अस्मिन् अर्थे प्रयुक्तस्य तद्धितप्रत्ययस्य अविशेष-कालस्य निर्देशे लुप् भवति ।
यदि कस्यचन नक्षत्रस्य नाम्नः प्रयोगं कृत्वा कालस्य कस्यचन विभागस्य (यथा - प्रातः, दिनम्, सायम्, रात्रिः - एतेषाम्) निर्देशः क्रियते, तर्हि तस्मात् नक्षत्रनाम्नः नक्षत्रेण युक्तः कालः 4|2|3 अनेन सूत्रेण यथाविहितः तद्धितप्रत्ययः भवति । परन्तु यदि सः कालः "अविशेषः कालः" अस्ति (इत्युक्ते, तस्य कालस्य " प्रातः / अहः / सायम् / रात्रिः" एतादृशम् विशेषरूपेण निर्देशः न भवति) तर्हि अस्य तद्धितप्रत्ययस्य लुप् (इत्युक्ते, लोपः) भवति ।

यथा - "पुष्येण युक्तः कालः" अस्मिन् वाक्ये कालस्य विशेषरूपेण उल्लेखः नास्ति, अतः अत्र प्राप्तस्य तद्धितप्रत्ययस्य लुप् भवति । प्रक्रिया इयम् -
पुष्येण + अण्
→ पुष्य + टा + अण् [अलौकिकविग्रहः]
→ पुष्य + अण् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2|4|71 इति टा-प्रत्ययस्य लोपः]
→ पुष्य [लुबविशेषे 4|2|4 इति अविशेष-कालस्य निर्देशे अण्-प्रत्ययस्य लुप् भवति ।]
अतः "पुष्येण युक्तः कालः = पुष्यः" इति रूपं सिद्ध्यति ।

ज्ञातव्यम् -
1. यदि कालस्य विशेषरूपेण उल्लेखः कृतः अस्ति, तर्हि अनेन सूत्रेण निर्दिष्टः लुप् न भवति । यथा - पुष्येण युक्तम् अहः = पुष्य + अण् = पौषम् अहः । अत्र प्रत्ययस्य लुप् न भवति ।

2. अस्मिन् सूत्रे तद्धितप्रत्ययस्य "लुप्" उक्तः अस्ति । "लुप्" इति प्रत्ययलोपस्य एकः भेेदः । लुपि युक्तवद् व्यक्तिवचने 1|2|51 इत्यनेन प्रत्ययस्य लुप् भवति चेत् निर्मितस्य शब्दस्य लिङ्गम् वचनम् च प्रकृतिवदेव जायते, न हि विशेष्यवत् । यथा -
1) उत्तरया युक्तः कालः = उत्तरा + अण् → उत्तरा + X → उत्तरा कालः । अत्र "उत्तरा" अयम् वस्तुतः अण्-प्रत्ययान्तशब्दः अस्ति यत्र अण्-प्रत्ययस्य लुप् कृतः अस्ति । अत्र यद्यपि अयं शब्दः "काल" इत्यस्य विशेषणरूपेण आगच्छति, तथापि अयं शब्दः प्रकृतेः लिङ्गम् एव स्वीकरोति, अतः "उत्तरा" अयं शब्दः स्त्रीलिङ्गे एव प्रयुज्यते ।
2) श्रवणेन युक्तः कालः = श्रवण + अण् → श्रवण + X → श्रवणम् कालः ।
One-line meaning in English
To indicate the meaning of "time occupied by a certain नक्षत्र", an appropriate तद्धित प्रत्यय which gets attached to the word in तृतीया विभक्ति undergoes a लुप् if the time being indicated does not have a particular name.
काशिकावृत्तिः
पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे। न चेन् नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषो ऽभिधीयते। यावन् काले नक्षत्रेण युज्यते अहोरात्रः, तस्य अविशेषे लुब् भवति। अद्य पुष्यः। अद्य कृत्तिकाः। अविशेषे इति किम्? पौषी रात्रिः। पौषमहः।
यद्यविशेषे लुग्भवति, इहापि प्राप्नोति-- पौषी रात्रिः,पौषमहरिति, अत्राप्यविशेषी गम्यत एव। तथा हि-- पौषीरात्रिरित्युक्ते, अद्य आओ वेति विशेषो न गम्यत इत्यत आह-- `न चेत् नक्षत्रयुक्तस्य` इत्यादि। एवं मन्यते-- `नक्षत्रेण युक्तः कालः` 4|2|3 इत्यनुवत्र्तते, तेन तद्विशेष एव न भवतीति। `रात्र्यादिविशेषः` इति।आदिशब्देनाह, मुहूर्त्तः, लवः-- इत्येते विशेषा गृह्रन्ते। `यावान्` इत्यादि। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। कियांश्च कालो नक्षत्रेण युज्यते? अहोरात्रः। तदेवं यावान् कालो नक्षत्रेण युक्तस्तस्याविशेषे न गम्यते, अपि तु तदेकदेशस्य रात्रेः, अह्नो वेति नायं लुपो विषयः। यद्येवम्, प्रत्ययस्यापि कथमेकदेशो विषयः?समुदायद्वारेण तदन्तःपातिनो गृह्रन्ते। एकदेशानामपि योगात् पूर्वेण प्रत्ययोत्पत्तिः सिद्धा बवति। पुनरिहावयवस्यैकदेशो लुपो विषय इति। इह तर्हि प्राप्नोति-- पौषोऽहोरात्र इति, अत् यावान् कालो नक्षत्रेण युक्तः, तस्याविशेषो गम्यते, तथा ह्रहोरात्र इत्युक्ते न ज्ञायते-- किमतीतः, अथानागतः,अथ वत्र्तमान इति? नैष दोषः; अविशेष इति प्रसज्यप्रतिषेधोऽयम्। तेन नक्षत्रयुक्तस्य कालस्य यत्र विशेषो रात्र्यादिस्तत्र न लुग्भवतीति ज्ञायते, न तु यत्राविशेषस्तत्र तु लुब्भवतीति॥
यद्यविशेषे लुब् भवति, इहापि प्राप्नोति---पौषी रात्रिः, पौषमहरिति, अत्राप्यद्य ह्यए वेति विशेषो न गम्यते । अथ रात्रिरहरिति । विशेषा वसायातदाश्रयः प्रतिषेधो भवति, इहापि तर्हि न स्याद्---अद्य पुष्यो ह्यः कृतिका इति, अद्यत्वादिविशेषावसायात्; ठ्पुष्ये पायसमश्नीयात्ऽ इत्यादावेव तु स्याद् यत्र नमनागपि विशेषावसायः ? अत आह---नचेदित्यादि । रात्र्यादिरित्यादिशब्देन मुहूर्तादेः परिग्रहः । विशेषोऽभिधीयते इति । प्रत्ययान्तेन । एतदेव स्पष्टयति--यावानिति । कियाÄश्च कालो नक्षत्रेण युज्यते ? इत्याह---अहोरात्र इति । षष्टिनाडिकात्मक इत्यर्थः तावन्तं हि कालमेकस्य नक्षत्रस्य समीपे चन्द्रमा वर्तते । तदेतदेवं यावान्कालो नक्षत्रेण युज्यते तस्य सर्वस्य प्रत्ययान्तेनाभिधानमविशेषः, तदेकदेशस्याभिधानं विशेषः । एतच्च प्रत्ययान्तेऽनुप्रवेशादन्तरङ्गत्वाच्च लभ्यते । प्रसज्यप्रतिषेधश्चायम्, तेन पौषोऽहोरात्र इत्यत्र समुदायेनापि प्रतीयमानोऽवयवद्वयात्मकः प्रतीयत इति तदाश्रयः प्रतिषेधो भवति, इह पुष्येण युक्ता पौर्णमासी पौषी, मघाभिर्युक्ता माघीत्यादौ लुप् प्राप्नोति ? ज्ञापकात्सिद्धम्, यदयम् ठ्विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यःऽ इति निर्दिशति, तज्ज्ञापयति---पौर्णमास्यां लुब्न भवतीति । श्रवणाशब्दातु भवति---ठ्श्रवणाकार्तकीऽ इति निर्देशादेव । कथं तर्हि श्रावण्यां पौर्णमास्यामिति ? अबाधकान्यपि निपातनानि भवन्ति ॥
सिद्धान्तकौमुदी
पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः-(कौमुदी-1225)इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अतएव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥
लुबविशेषे - लुबविशेषे । षष्ठिदण्डेति । षष्टिघटिकापरिच्छिन्ने काले एकैकस्मिन्नेकैकेन नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः । तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषोऽहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः । अद्य पुष्य इति । अद्येत्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम्, इह तु अधिकरणशक्तिविनिर्मुक्तोऽहोरात्रकालो विवक्षितः । तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप् । कथं तर्हीति । पौर्णमस्याः षष्टिदण्डात्मिकाया अवान्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः । समाधत्ते — विभाषेति । फाल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राऽण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यां नक्षत्रयुक्तायांलुबंभावात्कथं श्रणणेति निर्देश इत्यत आह — श्रवणशब्दात्त्वत एव लुबिति ।श्रवणे॑ति निपातनादेव पौर्णमास्यां लुबित्यर्थः । ननुकृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्तर॑मित्यादौ श्रवणशब्दस्य पुंलिङ्गत्वदर्शनेन तस्मादणो लिपि कृतेलुपि युक्तवद्व्यक्तिवचने॑ इति पुंलिङ्गत्वावश्यंभावाच्छ्रवणेति कथं स्त्रीलिङ्गतेत्यत आह — युक्तवद्भावाभावश्चेति ।निपातना॑दिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह — अबाधकान्यपीति । इयं परिभाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तुबाधकान्येव निपातनानी॑त्युक्तम् ।
लुबविशेषे - लुबवि [शेषे] । पूर्वसूत्रस्यानुवर्तनादिहनक्षत्रेण युक्तस्य कालस्याऽविशेषे गम्ये॑इत्यर्थ उपलभ्यते, तदाह — षष्टिदण्डेति ।अद्य पुष्यः॑इत्युक्त्या॒न ह्रो, न आः॑इति विशेषे गम्यमानेऽपि अहोरात्रात्मककालस्यावान्तरविशेषानवगमाल्लुब्भवत्येवेति भावः ।अविशेषे॑इत्यत्र प्रसज्यप्रतिषेधाश्रयणात्पौषोऽहोरात्रः॑इत्यत्र लुब्न भवति, षष्टिदण्डात्मकसमुदायरूपकालस्य प्रतीतावप्यवयवद्वयात्मकस्यापि विशेषस्यापि प्रतीतेरित्याशयेनाह — -विशेषश्चेन्नेति । अद्य पुष्य इति.समूलेनावाहयेद्देवीं श्रवणेने॑त्यप्युदाहरणं बोध्यम् ।
लघुसिद्धान्तकौमुदी
पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते। अद्य पुष्यः॥
महाभाष्यम्
लुबविशेषे (1427) (लुबधिकरणम्) (पूर्वसूत्राननुवृत्तौ दोषदर्शकभाष्यम्) इह कस्मान्न भवति ‐ पौषी रात्रिः, पौषमहः? अविशेष इत्युच्यते, विशेषश्चात्र गम्यते ‐ रात्रिरित्युक्तेऽहर्नेति गम्यते, अहरित्युके रात्रिर्नेति गम्यते। इहापि तर्हि न प्राप्नोति ‐ अद्य पुष्य इति। अत्रापि हि विशेषो गम्यते ‐ अद्येत्युक्ते न ह्यो न श्व इति गम्यते। यद्यप्यत्र विशेषो गम्यते, अविशेषोऽपि तु गम्यते।। अद्येत्युक्ते न ज्ञायते रात्रौ दिवा वेति। यतोऽविशेषस्तदाश्रयो लुब्भविष्यति।। इहापि तर्हि ‐ यद्यपि विशेषो गम्यते, अविशेषोऽपि तु गम्यते। रात्रिरित्युक्ते न ज्ञायते कदेति। दिवेत्युक्ते न ज्ञायते कदेति। यतोऽविशेषस्तदाश्रयो लुप्प्राप्नोति। (सिद्धान्तभाष्यम्) एवं तर्हि ‐ नक्षत्रेण युक्तः कालः इत्यनुवर्तते, नक्षत्रेण युक्तस्य कालस्याविशेषे। कः पुनः कालो नक्षत्रेण युज्यते?