॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|39
SK 1246
4|2|39
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्  
SK 1246
सूत्रच्छेद:
गोत्र-उक्षन्-उष्ट्र-उरभ्र-राजन्-राजन्य-राजपुत्र-वत्स-मनुष्य-अजात् - पञ्चम्येकवचनम् , वुञ् - प्रथमैकवचनम्
अनुवृत्ति:
तस्य  [4|2|37] - षष्ठ्येकवचनम् , समूहः  [4|2|37] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
तस्य समूहः (इति) गोत्र-उक्षन्-उष्ट्र-उरभ्र-राजन्-राजन्य-राजपुत्र-वत्स-मनुष्य-अजात् वुञ्
सूत्रार्थ:
गोत्रवाचिनः शब्दाः, तथा उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - एतेभ्यः शब्देभ्यः "तस्य समूहः" अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।
अत्र निर्दिष्टानां शब्दानां विषये तस्य समूहः 4|2|37 अस्मिन् अर्थे वुञ्-प्रत्ययः विधीयते । यथा -

1. गोत्रवाची-शब्दाः - औपगवानां समूहः औपगवकम् । कापटवानां समूहः कापटवकम् । (औपगव, कापटव - एतौ गोत्रवाचिनौ शब्दौ) ।
2. उक्ष्णां (वृषभानाम्) समूहः = उक्षन् + वुञ् → औक्षकम् । अत्र नस्तद्धिते 6|4|144 इति "अन्" इत्यस्य लोपः भवति ।
3. उष्ट्राणां समूहः औष्ट्रकम् ।
4. उरभ्राणां (मेषानाम्) समूहः औरभ्रकम् ।
5. राज्ञां समूहः राजकम् । अत्र नस्तद्धिते 6|4|144 इति "अन्" इत्यस्य लोपः भवति ।
6. राजन्यानाम् समूहः राजन्यकम् ।
7. राजपुत्राणां समूहः राजपुत्रकम् ।
8. वत्सानां समूहः वात्सकम् ।
9. अजानां समूहः आजकम् ।

एतेषु सर्वेषु युवोरनाकौ 7|1|1 इत्यनेन "वु" इत्यस्य "अक" आदेशः भवति । प्रत्ययस्य ञित्वात् तद्धितेष्वचामादेः 7|2|117 इत्यनेन आदिवृद्धिः अपि विधीयते ।

अत्र काशिकाकारः एकं वार्त्तिकं पाठयति - वृद्धात् च इति वक्तव्यम् । इत्युक्ते, "वृद्ध" शब्दस्य विषये अपि समूहार्थे वुञ्-प्रत्ययः भवति । वृद्धानां समूहः वार्द्धकम् ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः "गोत्र"शब्दः लौकिकगोत्रस्य निर्देशं करोति, न हि अपत्यं पौत्रप्रभृतिषु गोत्रम् 4|1|162 इत्यनेन निर्दिष्टस्य अपत्यवाचिनः अर्थस्य ।
One-line meaning in English
For the words that indicate a गोत्र, and for the words in this list - उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - The वुञ् प्रत्यय is added to indicate the meaning of तस्य समूहः.
काशिकावृत्तिः
गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते ऽपत्यमात्रं, न तु पौत्रप्रभृत्येव। औपगवानां समूहः औपगवकम्। कापटवकम्। उक्षन् औक्षकम्। उष्ट्र औष्ट्रकम्। उरभ्र औरभ्रकम्। राजन् राजकम्। राजन्य राजन्यकम्। राजपुत्र राजपुत्रकम्। वत्स वात्सकम्। मनुष्य मानुष्यकम्। अज आजकम्। प्रकृत्या ऽके राजन्यमनुष्ययुवानः इति यलोपो न भवति, आपत्यसय् च तद्धिते ऽनाति 6|4|151 इति। वृद्धाच्चेति वक्तव्यम्। वृद्धानां समूहो वार्धकम्।
`अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्रते` इति। यद्येवम्, गोत्रग्रहणेनैतस्य सिद्धत्वाद्राजन्यमनुष्ययोरुपादानमनर्थकम्? नैतदस्ति; न हि तौ गोत्रप्रत्ययान्तौ, जातेः प्रत्ययार्थत्वात्। यद्येवम्, लोपस्य प्राप्तिरेव नास्ति, तत्र यदुक्तम्-- `प्रकृत्याके राजन्यमनुष्ययुवानः` (वा।814) इति यलोपो न भवतीति, तदनर्थकं स्यात्? एतत् पुनरेकीयमतमाश्रित्योक्तम्। केचिदाचार्या राजन्यमनुष्ययोरपत्यप्रत्ययान्तत्वमिच्छन्ति, अतस्तन्मतमाश्रित्यैदुक्तमित्यदोषः, तन्मतेन तर्हि राजन्यमनुष्ययोग्र्रहणमनर्थकं स्यात्? ज्ञापनार्थत्वात्। तेनैतद्ज्ञाप्यते-- राजन्यमनुष्ययोर्यकारसय् किञ्चिदपत्याश्रितं कार्यं न भवतीति। किं पुनस्तत्? आपत्यव्यपदेशम्। तेन राजन्यकम्, `मानुष्यकमिति -- अत्रापि `आपत्यस्य च तद्धितेऽनाति` 6|4|151 इति यलोपो न भवतीति। तथा सूत्रोपात्त एव राजन्यमनुष्ययोः प्रकृतिभावः `प्रकृत्याके राजन्यमनुष्ययुवानः` (वा।814) इत्यनेनाख्यायत इति वेदितव्यम्।`वृद्धाच्चेति वक्तव्यम्` इति। वृद्धश्बदाद्वुञ् भवतीत्येदर्थमित्यर्थः। तत्रेदं व्याख्यानम्-- इह पुनरुत्तरसूत्राच्चकारोऽनुवत्र्तते सिंहावलोकितन्यायेन, स चानुक्तसमुच्चयार्थः, तेन वृद्धशब्दाद्वुञ् भवतीति। योगश्चायं यथायोगमणञोरपवादः॥
अपत्याधिकारादन्यत्रेति । यद्येवम्, राजन्यमनुष्ययोरुपादानमनर्थकम्, गोत्र इत्येवसिद्धम् । न तावपत्यप्रत्ययान्तौ; जातेः प्रत्ययार्थत्वात् । उक्तं हि---ठ्राज्ञोऽपत्ये जातिग्रहणम्, मनोर्जातावञ्यतौ षुक्चेति । किंतर्ह्युच्यते ठ्प्रकृत्याऽके राजन्यमनुष्ययुवानःऽ इति यलोपो न भवतीति, यावताऽनापत्ययकारत्वेनैव न भविष्यति ? सत्यम् ; अपत्यार्थत्वमभ्युपेत्यैतदुच्यते । यद्यपत्यार्थत्वमभ्युपेयते, राजन्यमनुष्ययोर्ग्रहणमनर्थकम् ? नानर्थकम्; ज्ञापनार्थत्वात्, एतज् ज्ञापयति---नैतयोरपत्यकृतं भवतीति, तेन यलोपो न भवति, सर्वथा ठ्प्रकृत्याऽके राजन्यमनुष्ययुवानःऽ इति न वक्तव्यम् । औपगवकमिति । यथात्र परोऽप्यनुदातादेरञ् न भवति, तथा ठ्खण्डिकादिभ्यश्चऽ इत्यत्र वक्ष्यते ॥
सिद्धान्तकौमुदी
एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स- मनुष्याजाद्वुञ् - गोत्रोक्षोष्ट्रो । एभ्य इति । गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज-एतेब्य इत्यर्थः लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिकं गोत्रं किमित्यत आह — तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः ।अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते, नतु पारिभाषिकं गोत्रमिष्यते॑ इतिस्त्रीपुंसाभ्या॑मित्यादिसूत्रबाष्ये सिद्धान्तितत्वादिति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्ञ् (1462) (वुञ्ञोऽधिकरणम्) (5360 पूरकवार्तिकम्।। 1 ।।) - वृद्धाच्च - (भाष्यम्) वृद्धाच्चेति वक्तव्यम्। वृद्धानां समूहो वार्द्धकम्।। (5361 एकदेशिवार्तिकम्।। 2 ।।) - अञ्ञो वुञ्ञ्पूर्वविप्रतिषिद्धम् - (भाष्यम्) अञ्ञो वुञ्ञ्भवति पूर्वविप्रतिषेधेन। अञ्ञोऽवकाशः ‐ कपोत ‐ कापोतम्। वुञ्ञोऽवकाशः ‐ ग्लुचकायनि ‐ ग्लौचुकायनकम्। इहोभयं प्राप्नोति ‐ औपगवकम्, कापटवकम्। वुञ्ञ्भवति पूर्वविप्रतिषेधेन।। स तर्हि पूर्वविप्रतिषेधो वक्तव्यः। न वक्तव्यः। वक्ष्यत्येतत् ‐ पूर्वोऽपि वुञ्ञ् परमञ्ञं बाधत इति।। अथ वा ‐ इष्टवाची परशब्दः, विप्रतिषेधे परं यदिष्टं तद्भवतीति।। (5362 विप्रतिषेधबोधकवार्तिकम्।। 3 ।।) - ठक्तु विप्रतिषेधात् - (भाष्यम्) ठक्तु भवति विप्रतिषेधेन। ठकोऽवकाशः ‐ सक्तु ‐ साक्तुकम्। अञ्ञः स एव। इहोभयं प्राप्नोति ‐ आपूपिकम्, शाष्कुलिकम्, मौदकिकम्। ठग्भवति विप्रतिषेधेन।।