॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|34
SK 1237
4|2|34
कालेभ्यो भववत्‌  
SK 1237
सूत्रच्छेद:
कालेभ्यः - पञ्चमीबहुवचनम् , भववत् - अव्ययम्
अनुवृत्ति:
सा  [4|2|24] - प्रथमैकवचनम् , अस्य  [4|2|24] - षष्ठ्येकवचनम् , देवता  [4|2|24] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"सा अस्य देवता" (इति) कालेभ्यः भववत्
सूत्रार्थ:
"तत्र भव" अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः विधीयन्ते, ते एव "सा अस्य देवता" अस्मिन् अर्थे अपि विधीयन्ते ।
तत्र भवः 4|3|53 इति कश्चन प्राग्दीव्यतीय-अर्थः । अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते एव सा अस्य देवता 4|3|24 अस्मिन् अर्थे अपि तेभ्यः भवन्ति । यथा -

1. मास-शब्दात् तत्र भवः 4|3|53 इत्यस्मिन् अर्थे कालात् ठञ् 4|3|11 इत्यनेन ठञ्-प्रत्ययः भवति । अतः सा अस्य देवता 4|3|24 अस्मिन् अर्थे अपि मास-शब्दात् ठञ्-प्रत्ययः एव करणीयः । मासः अस्य देवता सः = मास + ठञ् → मासिकः ।

2. "वसन्त" (ऋतोः नाम) अयमपि कालवाची शब्दः । अस्मात् शब्दात् संधिवेलाद्यृतुनक्षत्रेभ्योऽण् 4|3|16 अनेन सूत्रेण तत्र भवः 4|3|53 इत्यस्मिन् अर्थे अण्-प्रत्ययः दीयते । अतः सा अस्य देवता 4|3|24 अस्मिन् अर्थे अपि वसन्त-शब्दात् अण्-प्रत्ययः एव करणीयः । वसन्तः अस्य देवता सः = वसन्त + अण् → वासन्तः ।

3. "प्रावृष्" (वर्षाऋतुः) अस्मात् कालवाचीशब्दात् प्रावृष एण्यः 4|3|17 इत्यनेन तत्र भवः 4|3|53 इत्यस्मिन् अर्थे एण्य-प्रत्ययः उक्तः अस्ति । अतः सा अस्य देवता 4|3|24 अस्मिन् अर्थे अपि प्रावृष्-शब्दात् एण्य-प्रत्ययः एव करणीयः । प्रावृट् अस्य देवता सः = प्रावृषेण्यः ।

ज्ञातव्यम् - एतत् सूत्रम् "अतिदेशसूत्रम्" अस्ति, यतः अन्यसूत्रस्य विधानं कृत्वा तादृशमेव कार्यम् अत्रापि उक्तम् अस्ति ।
One-line meaning in English
For the कालवाची words, the same प्रत्यय that is provided for the meaning "तत्र भवः" comes for the meaning "सा अस्य देवता" as well.
काशिकावृत्तिः
कालविशेषवाचिभ्यः शब्देभ्यो भववत् प्रत्यया भवन्ति सा ऽस्य देवता इत्यस्मिन् विषये। कालाट् ठञ् 4|3|11 इति प्रकरणे भवे प्रत्यया विधास्यन्ते ते सा ऽस्य देवता इत्यस्मिनर्थे तथा एव इष्यन्ते, तदर्थम् इदम् उच्यते। वत्करणं सर्वसादृश्यपरिग्रहार्थम्। मासे भवम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्। तथा मासो देवता ऽस्य मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्।
बहुवचनग्रहणेन स्वरूपग्रहणे निरस्ते, कालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह-- `कालविशेषवाचिभ्यः` इत्यादि। `वत्करणम्` इत्यादि। सर्वस्य सादृश्यस्य परिग्रहो यथा स्यादित्येवमर्थ वत्करणम्। `कालेभ्यो भवः` इत्युच्यमाने यदि तावत् कालग्रहणं भवप्रत्ययैः सम्बध्यते? भवेऽर्थे कालेभ्यो विधास्यन्ते ये प्रत्ययास्ते `सास्य देवता` 4|2|23 इत्येतस्मिन्नर्थे भवन्ति, तदा च देवताप्रकृतिरविशेषिता स्यात्। एवञ्च देवतामात्रवाचिनः प्रातिपदिकादविशेषेण प्रत्ययाः प्रसज्येरन्। अथ देवताप्रकृतिभिः कालग्रहणं सम्बध्यते? भवे ये विधास्यन्ते ते प्रत्ययाः कालेभ्यो देवताभ्यः प्रसज्येरन्। अथाप्युभयेषां सन्निधानाद्विशेष्यभेदेन वाक्यभेदाच्च प्रत्ययैः प्रकृतिभिश्च सम्बध्यते-- कालेभ्यो भवेऽर्थे विधास्यन्ते ये प्रत्ययास्ते कालेभ्यो देवताभ्यो भवन्तीति? एवमपि यः कश्चित् कालप्रकृतिः प्रत्ययो यतः कुतश्चित् कालाद्देवतायाः स्यात्, ऋतुभ्योऽण् मुहूर्तादिभ्योऽपि स्यात्। वतौ तु सति तस्य सादृश्यविधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवार्थे विधास्यन्ते, इहापि ताभ्य ए प्रकृतिभ्यस्तेनैव व#इशेषणेन त एव प्रत्यया भवन्तीति न बवत्यनिष्टप्रसङ्गः। `{वासन्तम्--काशिका} वासन्तः`इति। `सन्धिवेलादि` 4|3|16 सूत्रेणाण्। `{प्रावृषेण्यम्--काशिका} प्रावृषेण्यः` इति। `प्रावृष एण्यः` 4|3|17
कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । वत्कारणमित्यादि । असति वत्करणे ठ्कालेभ्यो भवःऽ इत्युच्यमाने यदि तावदेवं सम्बन्धः, कालेभ्यो भवे ये प्रत्यया विधास्यन्ते ते ठ्सास्य देवताऽ इत्यत्रार्थे भवन्तीति देवताप्रकृतिरविशेषिता स्यात्, ततश्च ठ्कालट्ठञ्ऽ इति ठञिन्द्रादेरपि प्राप्नोति । अथ पुनरेवं सम्बन्धः---भवे ये प्रत्यया विधास्यन्ते ते भवन्ति कालेभ्यो देवताभ्य इति ? एवमपि भवप्रत्यया न विशेषिताः स्युः, ततश्च ठ्दिगादिभ्यो यत्ऽ इति यत् प्रत्ययोऽपि भवे विहितः कालवाचिभ्योऽस्मिन्नर्थे प्राप्नोति । अथाप्येवं सम्बन्धः---कालेभ्यो भवे ये प्रत्ययास्ते भवन्ति, कालेभ्य एव देवतार्थे इति तत्र सकृत् श्रुतस्य तस्य कालशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः । अथापि लभ्येत, एवमपि यः कश्चित्कालाद्भवे प्रत्ययो यतः कुतश्चिदेवतायाः स्याद् ऋतुभ्योऽण् मुहूर्तादेरपि प्राप्नोति । वतिनिर्देशे तु सति सादृश्यपरिग्रहो भवति, तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन भवेऽर्थे विधास्यन्ते ये प्रत्ययाः, इहापि ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टम् ॥
सिद्धान्तकौमुदी
मासिकम् । प्रावृषेण्यम् ॥
कालेभ्यो भववत् - कालेभ्यो भववत् । कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्षयन्ते, तेसाऽस्य देवते॑त्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः । मासिकमिति । मासो देवता अस्येति विग्रहः । कालाट्ठञ् । प्रावृषेण्यमिति । प्रावृट् देवता अस्येति विग्रहः ।प्रावृष एण्यः॑ ।
कालेभ्यो भववत् - कालेभ्यो । कालवाचिभ्यो ये प्रत्यया भवार्थे वक्ष्यन्ते तेसास्य देवता॑इत्यस्मिन्नर्थेऽनेनातिदिश्यन्ते । वत्करणं सर्वसादृश्यार्थम् । तेन यस्माद्यो विहितस्तस्मात्स एव भवति नाऽन्यः । तथैवोदाहरति — -मासिकम् । प्रावृषेण्यमिति ।कालाठ्ठञ् ।प्रावृष एण्यः ।मातृपितृभ्यां पितरि डामहच् । डामहजिति । एतच्च वृत्त्याद्यनुरोधेनोक्तं । भाष्ये तु आनङादेशो महच् प्रत्ययश्च निपात्यते । तेनावग्रहः सिध्यतीत्युकतम् ।अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः । सकारपाठेति । अन्यथा प्रक्रियालाघवाय षकारमेव पठेदिति भावः । एतच्च मनोरमायां स्थितम् । अन्ये तूक्तरीत्य ।अविसोढ॑ मित्यत्र षत्वनिवारणेऽपिअविदूस॑मित्यादौ स्यादेव षत्वम् । तत्र हि ण्यन्तात्क्विपिअविदूः॑इत्यादिरूपसिद्धये सकारपाठसामथ्र्यस्योपक्षीणत्वात् । तस्मात्अविसोढ॑मित्यादि भाष्यकृदुदाहरणेषु सकारपाठसामथ्र्यादिति व्याख्येयमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!