॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|32
SK 1235
4|2|32
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च  
SK 1235
सूत्रच्छेद:
द्यावापृथिवी-शुनासीर-मरुत्वत्-अग्नीषोम-वास्तोष्पति-गृहमेधात् - पञ्चम्येकवचनम् , छ (लुप्तप्रथमान्तनिर्देशः) च - अव्ययम्
अनुवृत्ति:
यत्  [4|2|31] - प्रथमैकवचनम् , सा  [4|2|24] - प्रथमैकवचनम् , अस्य  [4|2|24] - षष्ठ्येकवचनम् , देवता  [4|2|24] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"सा अस्य देवता" (इति) द्यावापृथिवी-शुनासीर-मरुत्वत्-अग्नीषोम-वास्तोष्पति-गृहमेधात् यत् छ च
सूत्रार्थ:
"सा अस्य देवता" अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते ।
सा अस्य देवता 4|2|24 अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते । यथा -

1. द्यौः च पृथिवी च = द्यावापृथिवी । द्यावापृथिव्यौ देवते अस्य सः
= द्यावापृथिवी + यत्
→ द्यावापृथिव् + यत् [यस्येति च इति ईकारलोपः]
→ द्यावापृथिव्य
(उत -)
द्यावापृथिवी + छ
→ द्यावापृथिवी + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति एय्-आदेशः]
→ द्यावापृथिव् + ईय [यस्येति च इति ईकारलोपः]
→ द्यावापृथिवीय

2. शूनश्च सीरश्च शूनासीरः । (शूनः = वायुः, सीरः = आदित्यः) । शूनासीरौ देवते अस्य सः
= शूनासीर + यत् → शूनासीर्य ।
(उत -) शूनासीर + छ → शूनासीरीय ।

3. मरुत्वान् अस्य देवता सः
= मरुत्वत् + यत् → मरुत्वत्य
(उत -) मरुत्वत् + छ → मरुत्वतीय ।

4. अग्निश्च सोमश्च अग्निषोम । अग्निषोमौ देवते अस्य सः = अग्निषोम्य, अग्निषोमीय ।
5. वास्तोष्पतिः अस्य देवता सः = वास्तोष्पत्य / वास्तोष्पतीय ।
6. गृहमेधः अस्य देवता सः = गृहमेध्य / गृहमेधीय ।

ज्ञातव्यम् -
1. "द्यावापृथिवी" इत्यस्य निर्माणम् एतादृशं भवति -
द्यौः च पृथिवी च
→ दिव् + सुँ + पृथिवी + सुँ [अलौकिकविग्रहः]
→ दिव् + पृथिवी [सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुँ-प्रत्यययोः लुक्]
→ द्यावा + पृथिवी [दिवो द्यावा 6|3|29 इति दिव्-इत्यस्य द्यावा-आदेशः]
→ द्यावापृथिवी ।

2. "शूनासीर" इत्यस्य निर्माणम् एतादृशं भवति -
शूनः च सीरः च
→ शून + सुँ + सीर + सुँ [अलौकिकविग्रहः]
→ शून + सीर [सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुँ-प्रत्यययोः लुक्]
→ शून् आनङ् + सीर [देवताद्वंन्द्वे च 6|3|26 इति पूर्वपदस्य आनङ्-आदेशः । ङिच्च 1|1|53 इति अन्त्यादेशः]
→ शूनान् + सीर [इत्संज्ञालोपः]
→ शूनासीर [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]

3. "अग्नीषोम" इत्यस्य निर्माणम् एतादृशं भवति -
अग्निश्च सोमश्च
→ अग्नि + सुँ + सोम + सुँ [अलौकिकविग्रहः]
→ अग्नि + सोम [सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुँ-प्रत्यययोः लुक्]
→ अग्नी + सोम [ईदग्नेः सोमवरुणयोः 6|3|27 इति ईत्वम्]
→ अग्नी + षोम [अग्नेः स्तुत्स्तोमसोमाः 8|3|82 इति षत्वम्]
→ अग्नीषोम

4. "वास्तोष्पति" शब्दस्य निपातनम् क्रियते । "वास्तु" शब्दः वस्तुतः उकारान्त-नपुँसकलिङ्गे वर्तते, परन्तु अत्र निपातनात् तस्य पुँल्लिङ्गे परिवर्तनं क्रियते । अग्रे "वास्तोः पतिः" इति स्थिते सुपो धातुप्रातिपदिकयोः 2|4|71 इति ङस्-प्रत्ययस्य लुक्-प्राप्ते निपातनात् तादृशः लुक् न भवति । अग्रे विसर्गस्य षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु 8|3|53 इत्यनेन सकारादेशः, तस्य च अग्रे निपातनात् षत्वं कृत्वा "वास्तोष्पति" इति प्रातिपदिकं सिद्ध्यति ।

5. "वास्तोष्पति" शब्दस्य विषये दित्यदित्या... 4|1|185 अनेन ण्य-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण सा अस्य देवता 4|2|24 अस्मिन् अर्थे यत्-प्रत्ययः तथा छ-प्रत्ययः भवति । अस्मिन् सूत्रे निर्दिष्टानां अन्येषां शब्दानां विषये तु औत्सर्गिकस्य अण्-प्रत्ययस्य अपवादरूपेण एतौ प्रत्ययौ उक्तौ स्तः ।
One-line meaning in English
The words द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति and गृहमेध get the यत् and the छ प्रत्यय in the meaning of "सा अस्य देवता".
काशिकावृत्तिः
द्यावापृथिव्यादिब्भ्यः छः प्रत्ययो भवति सा ऽस्य देवता इत्यस्मिन् विषये, चकाराद् यच् च। अणो ण्यस्य च अपवादः। द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयम्, द्यावापृथिव्यम्,। शुनश्च सीरश्च तौ देवते अस्य इति शुनासीरीयम्, शूनासीर्यम्। शुनो वायुः। सीरः आदित्यः। मरुत्वान् देवता अस्य मरुत्वतीयम्, मरुत्वत्यम्। अग्नीषोमीयम्, अग्नीशोम्यम्। वास्तोष्पतीयम्, वास्तोष्पत्यम्। गृहमेधीयम्, गृहमेध्यम्।
`अणो ण्यस्य चापवादः` इति। वास्तोष्पतिशब्दात् `दित्यदित्यादिभ्य` 4|1|85 इत्यादिना प्राप्तस्य ण्य्स्यापवादः। शेषेभ्यस्त्वौत्सर्गिकस्याणः। वास्तुनः पतिर्वास्तोष्पत्तिः। वास्तुशब्दस्य नपुंसकस्य पुंल्लिङ्गता, षष्ठर्थेऽलुक् च निपातनात्। `षष्ठ्याः पतिपुत्रपृष्ठ` 8|3|53 इत्यादिना षत्वम्। `द्यावापृथिव्यौ` इति। `दिवो द्यावा` 6|3|28 इति द्यावादेशः। `शुनासीरीयम्` इति। `देवताद्वन्द्वे च` 6|3|25 इत्यानङ्। `अग्नीषोमीयम्` इति। `ईदग्नेः सोमवरुणयोः` 6|3|26 इतीत्त्वम्; `अग्नेः स्तुत्स्तोमसोमाः` 8|3|82 इति षत्वम्॥
अणो ण्यस्य चापवाद इति । वास्तोष्पतिशब्दात्पत्युतरपदस्य ण्यस्यापवादः, शेषेभ्योऽणः । द्यावापृथिव्याविति । ठ्दिवो द्यावाऽ, ठ्दिवसश्च पृथिव्याम्ऽ इति द्यावादेशः । शुनासीराविति । ठ्देवता द्वन्द्वे चऽ इत्यानङदेशः । शुनो वायुः, सीर आदित्य इति । अन्ये तु एकमेव शुनसीरमिन्द्रस्य, गुणममन्यन्त, यथाहश्वलायनः---ठिन्द्रो वा शुनासीरःऽ इति । मन्त्रलिङ्गञ्च भवति---इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहेऽ इति । मरुतोऽस्य सन्ति मरुत्वानिन्द्रः । अग्नीषोमीयमिति । ठीदग्नेः सोमवरुणयोःऽ वास्तोः पतिर्वास्तोष्पतिः, अस्मादेव निर्देशात्साधुः । गृहमेधशब्दमकारान्तं बह्वृचा मन्यन्ते । ठ्मरुद्भ्यो गृहमेधेभ्य उतराऽ इत्याश्वलायनः । ठ्गृहमेधास आगताऽ इति च मन्त्रलिङ्गम् । ठ्मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम्ऽ इति तु तैतिरीयकम् । तत्र देकारान्तो नकारान्तो वेति विप्रतिपन्नाः ॥
सिद्धान्तकौमुदी
चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शूनासीर्यम् ॥
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च - द्यावापृथिवीयं द्यावापृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्रयस्येति चे॑ति लोपः । शुनासीरीयमिति । शुनो वायुः, सीरः आदित्यः । शुनश्च सीरश्च शुनासीरौ ।देवताद्वन्द्वे चे॑त्यानङ् । शुनासीरावस्य स्त इति शुनासीरः ।वाय्यादित्यवानिन्द्रो विवक्षितः॑ इति वेदभाष्ये भट्टभास्करः । शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयं मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयम् अग्निषोम्यम् ।वास्तुनः पतिः वास्तोष्पतिः-रुद्रः । निपातनादलुक् षत्वं च ।रुद्रः खलु वै वास्तोष्पतिः॑ इति ब्राआहृणम् । अमरस्तु इन्द्रपर्यायेवास्तोष्पतिः सुरपति॑रित्याह वास्तोऽपतिर्देवता अस्य वास्तोष्पतीयं, वास्तोष्पत्यम् । गृहमेधो देवता अस्यगृहमेधीयम् । गृहमेध्यम् ।
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च - द्यावापृ । अण्ण्यञोरपवादः । शुनासीरीयमिति । शुनश्च सूरश्चेति द्वन्देव॑देवताद्वन्द्वि चे॑त्यानङ् । शुनो — वायुः, सीरः — आदित्य इति वृत्तिकृत् । हरदत्तस्तु सुनासीरशब्द इन्द्रस्य गुणवाचीत्यन्ये मन्यन्त इत्याह । तथा च मन्त्रः — ॒इन्द्रं वयं सुनासीरमस्मिन्यज्ञे हवामहे॑इति । मरुतोऽस्य सन्तीति मरुत्वानिन्द्रः, मरुत्वतीयं । मरुत्वत्यम् । अग्निषोमीयम् ।ईदग्नेः सोमवरुणयोः॑ । वास्तुनः पतिः वास्तोष्पतिः । इहैव सूत्रे निपातनात्साधुः ।वेश्मभूर्वास्तुरस्त्रियाम् । वास्तोष्पतीयं वास्तोष्पत्यम् । गृहमेधीयं । गृहमेध्यम् । गृहमेधशब्दोऽकारान्तः । तथा च आआलायनः — -॒मरुभ्द्यो गृहमेधेभ्यः॑इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!