॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|18
SK 1219
4|2|18
दध्नष्ठक्  
SK 1219
सूत्रच्छेद:
दध्नः - पञ्चम्येकवचनम् , ठक् - प्रथमैकवचनम्
अनुवृत्ति:
संस्कृतम्  [4|2|16] - प्रथमैकवचनम् , भक्षाः  [4|2|16] - प्रथमाबहुवचनम् , तत्र  [4|2|14] - अव्ययम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
तत्र संस्कृतं भक्षाः (इति) दध्नः ठक्
सूत्रार्थ:
दधिशब्दात् "संस्कृतं भक्षाः" इत्यस्मिन् अर्थे ठक् -प्रत्ययः भवति ।
संस्कृतं भक्षाः 4|2|16 इत्यस्मिन् अर्थे "दधि"शब्दात् ठक् प्रत्ययः भवति । दध्नि संस्कृतम् दाधिकम् ।

ज्ञातव्यम् - प्राग्वहतीय-अधिकारे संस्कृतम् 4|4|3 इत्यनेन अपि दधि-शब्दात् ठक्-प्रत्ययः भवति, परन्तु तत्र तृतीयासमर्थात् एतत् प्रत्ययविधानं कृतमस्ति, अतः तत्र "दध्ना संस्कृतम्" इति अर्थः स्वीकर्तव्यः । अत्र तु "दध्नि संस्कृतम्" इति अर्थः अपेक्ष्यते ।
One-line meaning in English
The word दधि gets the प्रत्यय ठक् in the meaning of संस्कृतं भक्षाः.
काशिकावृत्तिः
दधिशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दधनि संस्कृतं दाधिकम्। ननु च संस्कृतार्थे प्राग्वहतेः ठकं वक्ष्यति, तेन एव सिद्धम्? न सिध्यति। दध्ना हि तत् संस्कृतं यस्य दधिकृतम् एव उत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
इह तु दधि केवलमाधारभूतमिति । यथा शूरे संस्क्रियमाणस्यमांसस्य शूलम् । यद्यप्यत्र दध्यपि संस्कारकम्, तथापि न तद्विवक्षितम्, किन्तु तदाधारस्य द्रव्यान्तरेण यः संस्कारः स एव विवक्षित इति भावः ॥
सिद्धान्तकौमुदी
दध्नि संस्कृतं दाधिकम् ।
दध्नष्ठक् - दध्नष्ठक् । सप्तम्यन्ताद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः । अणोऽपवादः । दाधिकमिति । ठकि इकादेशेयस्येति चे॑ति इकारलोपः । इह दध्नि अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहतेरित्यत्र तु "संस्कृतम्" इति तृतीयान्ताठ्ठग्वक्ष्यते ।
दध्नष्ठक् - दध्नष्ठत् । दध्नीति । संस्कारस्त्विह लवणादिना, दधि त्वधिकरणमात्रम् । यस्तुप्राग्वहते॑रित्यत्रसंस्कृत॑मिति ठग्वक्ष्यते स तृतीयान्तद्बोध्यः । तेन दध्ना संस्कृतमपि दाधिकमेव ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!