Page loading... Please wait.
4|2|15 - स्थण्डिलाच्छयितरि व्रते
॥ तस्मै पाणिनये नमः ॥
4|2|15
SK 1216
स्थण्डिलाच्छयितरि व्रते  
सूत्रच्छेदः
स्थण्डिलात् (पञ्चम्येकवचनम्) , शयितरि (सप्तम्येकवचनम्) , व्रते (सप्तम्येकवचनम्)
अनुवृत्तिः
तत्र  4|2|15 (अव्ययम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
व्रते तत्र शयितरि स्थण्डिलात् अण्
सूत्रार्थः
"स्थण्डिल"शब्दात् "यः व्रतस्य उद्देशेन शयनं करोति" तस्य निर्देशं कर्तुम् अण् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेत् व्रतं गम्यते। व्रतम् इति शास्त्रितो नियमः उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रते इति किम्? स्थाण्डिले शेते ब्रह्मदत्तः।
`समुदायेन च` इत्यादिना प्रकृतिप्रत्ययोपाधित्वं व्रतस्य दर्शयति। `शास्त्रितः` शब्दः `वाचि यमो व्रते` 3|2|40 इत्यत्र व्युत्पादितः॥
शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा---तृतीयासमर्थाद्विधानेऽर्थे ठ्प्रातिपदिकाद्धत्वर्थेऽ इति णिच्, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात् ॥
सिद्धान्तकौमुदी
तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥
स्थण्डिलाच्छयितरि व्रते - स्थण्डिलात् । स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः ।
स्थण्डिलाच्छयितरि व्रते - स्थण्डिलात् । व्रतं=शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तन्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.