Page loading... Please wait.
4|2|133 - कच्छादिभ्यश्च
॥ तस्मै पाणिनये नमः ॥
4|2|133
SK 1357
कच्छादिभ्यश्च   🔊
सूत्रच्छेदः
कच्छ-आदिभ्यः (पञ्चमीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
देशे इत्येव। कच्छ इत्येवम् आदिभ्यो देशवाचिभ्यः अण् प्रत्ययो भवति शैसिकः। वुञादेरपवादः। काच्छः। सैन्धवः। वार्णवः। कच्छशब्दो न बहुवचनविषयः, तस्य मनुस्यतत्स्थयोर् वुञर्थः पाठः। विजापकशब्दः पठ्यते, तस्य कोपधत्वादेव अणि सिद्धे ग्रहनम् उत्तरार्थम्। कच्छ। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। कुरु। रङ्कु। अणु। खण्ड। द्वीप। अनूप। अजवाह। विजापकः। कुलून। कच्छादिः।
`वुञादेरपवादः` इति। आदिशब्देन ठञः। तत्र ये जनपदबहुवचनविषयास्तेभ्यो वुञः प्राप्तस्यापवादः। सिन्धुवर्णुशब्दाभ्यामोर्देशे ठञः 4|2|118 । `कच्छशब्दो न बहुवचनविषयः` इति। तेन `अवृद्धादपि` 4|2|124 इत्यादिना बाधकस्य वुञोऽप्राप्तावेव सामान्येनाण्सिद्ध एवेति दर्शयति। यद्येवम्, किमर्थं तस्य पाठः? इत्याह-- `तस्य` इत्यादि। उत्तरसूत्रेण वुञ् मनुष्यतस्त्थयोर्यथा स्यादित्यवमर्थः कच्छस्येह पाठः, न त्वनर्थकः। `कोपधादेवाण् सिद्धः`इति। पूर्वसूत्रेणेति। `इहग्रहणमुत्तरार्थम्` इति। उत्तरसूत्र वुञ् यथा स्यात्॥
वुञोदेरपवाद इति । ये जनपदवाचिनो बहुवचनविषयाः, तेभ्यो वुञोऽपवादः, सिन्धुवर्णुशब्दाभ्यामोर्देअशे ठञः । साल्वशब्दः पठ।ल्ते---जनपदलक्षणो वुञ्मा भूदिति । ठपदातौ साल्वात्ऽ ठ्गोयवाग्वोश्चऽ इति नियमार्थं भविष्यति---अपदातावेव गोयवाग्वोरेवेति, वृद्धत्वाच्छः प्राप्नोति ॥
सिद्धान्तकौमुदी
देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥
कच्छादिभ्यश्च - कच्छादिभ्यश्च । काच्छ इति । अत्र वुञोऽपवादोऽण् । सैन्धव इति । #ओर्देशे ठञोऽपवादः ।
कच्छादिभ्यश्च - सैन्धव इति ।ओर्देशे॑इति ठञ्प्राप्तः । वुञि सिद्धे इति ।मनुष्यतत्स्थयो॑रित्यनेन ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कच्छादिभ्यश्च (1554) (अणोऽधिकरणम्) (जिज्ञासाभाष्यम्) किमर्थं साल्वानां कच्छादिषु पाठः क्रियते? (5438 पाठप्रयोजनवार्तिकम्।। 1 ।।) - साल्वानां कच्छादिषु पाठोऽण्विधानार्थः - (भाष्यम्) साल्वानां कच्छादिषु पाठोऽण्विधानार्थः क्रियते। अण्यथा स्याद्, वुञ्ञ् मा भूदिति।। (5439 पाठप्रयोजनाभावबोधकं वार्तिकम्।। 2 ।।) - न वाऽपदातिगोयवागूग्रहणमवधारणार्थम् - (भाष्यम्) न वैतत्प्रयोजनमस्ति। किं कारणम्? अपदातिगोयवागूग्रहणमवधारणार्थं भविष्यति। अपदातावेव साल्वात्। गोयवाग्वोरेव च साल्वादिति।।