Page loading... Please wait.
4|2|130 - विभाषा कुरुयुगन्धराभ्याम्
॥ तस्मै पाणिनये नमः ॥
4|2|130
SK 1354
विभाषा कुरुयुगन्धराभ्याम्   🔊
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , कुरु-युगन्धराभ्याम् (पञ्चमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः, कौरवः। यौगन्धरकः , यौगन्धरः। जनपदशब्दावेतौ, ताभ्याम् अवृद्धादपि इति नित्ये वुञि प्राप्ते विकल्प उच्यते। कुरुशब्दः कच्छादिष्वपि पठ्यते, तत्र वचनादणपि भविष्यति। सैषा युगन्धरार्था विभाष। मनुष्यतत्स्थयोः तु कुरुशब्दान् नित्य एव वुञ् प्रत्ययो भवति, कौरवको मनुस्यः, कौरवकमस्य हसितम् इति।
`सैषा युगन्थरार्था विभाषा` इति।न कुरुशब्दार्था। तत्र कच्छादिपाठाद्विनापि विभाषाग्रहणेनाणा भवितव्यम्। ननु युगन्धरशब्दादप्यणि `अवृद्धादपि बहुवचनविषयात्` 4|2|124 इति नित्यएव वुञि प्राप्ते वचननित्यार्थं भविष्यति, नित्ये हि वुञि पुनरारम्भोऽनर्थक- स्यात्, तस्माद्युगन्धरार्थाऽपि विभाषा न प्रसज्येत? नैतत् पुनरारम्भो विपर्ययेणापि शक्यते समर्थयितुम्। जनपदलक्षणो 4|2|123 यो वुञ् स विभाषा,अयं तु नित्य इति।अस्मात्तु युगन्धरार्थं विभाषाग्रहणं कत्र्तव्यम्। मनुष्यतत्स्थयोस्तु कुरुशब्दान्नित्य एव वुढ्भवति, कच्छादिषु पाठसामथ्र्यात्। अन्यथानयैव विभाषया वुञणोः सिद्धत्वात् कच्चादिपाठोऽर्थकः स्यात्; अनवकाशत्वात्॥
कुरुशब्दः कच्छादिषु पठ।ल्ते इति कथं तर्हि कुरुशब्दाद् वुञः प्राप्तिरुक्ता, ताभ्यामवृद्धादपीति नित्यं वुञि प्राप्त इति ? आद्यप्राप्त्यभिप्रायेण तदुक्तम्, न पुनर्योऽनेन विकल्पेन बाध्यते तदभिप्रायेण । येऽपि पठन्ति--वुञि सिद्ध इति, प्राप्त इत्यर्थः । यथा सिद्धे सत्यारम्भो नियमार्थ इति कुरुशब्दार्थं विभाषाग्रहणं न कर्तव्यमिति प्रतिपादयिष्यन्नाह---कुरुशब्दः कच्छादिषु पठ।ल्ति इति । ततः किमित्यत्राह---तत्रेति । किमर्तं तर्हि विभाषाग्रहणमित्याह--सैषेति । ननु युगन्धरशब्दादपि ठवृद्धादपिऽ इति नित्ये वुञि सिद्धेऽन्तरेणापि विभाषाग्रहणं पुनर्वचनाद्विकल्पो विज्ञास्यते ? नैवं शक्यम् ; विपर्ययोऽपि स्यात् । युगन्धरशब्दान्नित्यो वुञ्, ठवृद्धादपिऽ इत्यनेन तु विभाषित इति पुनरारम्भो ह्यएवमप्युपपद्यते । मनुष्यतत्स्थयोस्त्विति । एतच्च कच्छादिषु पाठसामर्थ्याल्लभ्यते, अन्यथाऽनयैव विभाषया वुञणोः सिद्धत्वातत्रास्य पाठोऽनर्थकः स्यात् ॥
सिद्धान्तकौमुदी
वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥
विभाषा कुरुयुगन्धराभ्याम् - विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम्अवृद्धादपी॑ति नित्यं प्राप्ते विकल्पः ।
विभाषा कुरुयुगन्धराभ्याम् - विभाषा कुरु । कुरुशब्दः कच्छादिषु पठते, तत्सामथ्र्यात्पक्षेऽण्सिद्ध इति परिशेषाद्विभाषाग्रहणं युगन्धरार्थमेव ।अवृद्धादपी॑ति नित्यप्राप्तो वुञनेन विकल्प्यते । मनुष्यतत्स्थयोस्तु परत्वान्नित्य एव वुञ् । कौरवको मनुष्यः । कौरवकमस्य हसितम् । एतदर्थमेवास्य कच्छादौ पाठः । अन्यथा अनयैव विभाषया वुञणोः सिद्धौ किं तेनेति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषा कुरुयुगन्धराभ्याम् (1551) (5437 विप्रतिषेधवार्तिकम्।। 1 ।।) - कुरुयुगन्धरेभ्यो वावचनान्मनुष्यतत्स्थयोर्वुञ्ञ्विधानम् - (भाष्यम्) कुरुयुगन्धरेभ्यो वावचनात् मनुष्यतत्स्थयोर्वुञ्ञ् (4।2।134) इत्येतद्भवति विप्रतिषेधेन। कुरुयुगन्धरेभ्यो वा वचनस्यावकाशः ‐ कौरवः, कौरवकः; यौगन्धरः, योगन्धरकः। मनुष्यतत्स्थयोर्वुञ्ञ् भवतीत्यस्यावकाशः ‐ अन्ये कच्छादयः ‐ काच्छको मनुष्यः, काच्छकमस्येक्षितम्, हसितम्, जल्पितम्, स्मितम्। इहोभयं प्राप्नोति, कौरवको मनुष्यः, कौरवकमस्येक्षितम्, हसितम्, जल्पितम्, स्मितम्। वुञ्ञ् भवति विप्रतिषेधेन।। (कुरुशब्दस्य विप्रतिषेधानर्थक्ये भाष्यम्) नैष युक्तो विप्रतिषेधः। न हि कुरुशब्दस्यान्ये कच्छादयोऽवकाशः। कुरुशब्दस्य यः कच्छादिषु पाठः सोऽनवकाशः।। न खल्वपि कुरुशब्दो विभाषां प्रयोजयति। अनेन वुञ्ञ्, कच्छादिपाठादण्भविष्यति। सैषा युगन्धरार्था विभाषा।।