Page loading... Please wait.
4|2|129 - अरण्यान्मनुष्ये
॥ तस्मै पाणिनये नमः ॥
4|2|129
SK 1353
अरण्यान्मनुष्ये   🔊
सूत्रच्छेदः
अरण्यात् (पञ्चम्येकवचनम्) , मनुष्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अरण्यशब्दाद् वुञ् प्रत्ययो भवति शैसिको मनुस्ये ऽभिधेये। औपसङ्ख्यानिकस्य णस्य अपवादः। आरण्यको मनुस्यः। पथ्याध्यायन्यायविहारमनुस्यहस्तिषु इति वक्तव्यम्। आरण्यकः पन्थाः। आरण्यको ऽध्यायः। आरण्यको न्यायः। आरण्यको विहारः। आरण्यको मनुष्यः। आरण्यको हस्ती। वा गोमयेसु। आरण्याः, आरण्यका गोमयाः। एतेसु इति किम्? आरण्याः पशवः।
`औपसंख्यानिकस्य णस्यापवादः` इति। `अरण्याण्यः` (वा।437) इत्युपसंख्यानात्प्राप्तस्य। `पथ्यध्यायन्याय` इत्यादि। एषु पथ्यादिषु वुञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `धूमादिभ्यश्च` 4|2|126 इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः,तेन पथ्यादिषु वुञ्भवति।`वागोमयेषु` इति। गोमयेषु वाच्येषु वा वुञ्भवतीति। स तु तस्यैव चकारस्यानुक्तसमुच्चयार्थस्यानुवृत्तेर्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोः शेषभूतत्वाल्लभ्यते। यदि तर्हि वक्ष्यमाणं विभाषाग्रहणमुभयोर्योगयोः शेषभूतं पथ्यादिष्वपि विकल्पेन विधिः स्यात्? नैष दोषः; व्यवस्थितविभाषा हि सा, तेन गोमयाद्विकल्पेन विधिर्भवति, पथ्यादिषु नित्यमिति॥
औपसंख्यानिकस्येति । ठरण्याण्णो वक्तव्यःऽ इत्युपसंख्यानप्राप्तस्य । ठ्मनुष्येऽ इत्यल्पमिदमुच्यते, इत्याह---पथ्यध्यायेति । आरण्यकोऽध्याय इति । योऽरण्येऽधीयते उपनिषद्भागः स उच्यते । विहारः उ क्रीडा ॥
सिद्धान्तकौमुदी
वुञ् ॥ अरण्याण्ण इत्यास्यापवदः ॥पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् (वार्तिकम्) ॥ आरण्यकः पन्थाः, अध्यायो, न्यायो, विहारो, मनुष्यो, हस्ती वा ॥ ।वा गोमयेषु (वार्तिकम्) ॥ आरण्यकाः आरण्या वा गोमयाः ॥
अरण्यान्मनुष्ये - अरण्यान्मनुष्ये । आरण्यक इति । पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । वा गोमयेष्विति । वार्तिकमिदम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अरण्यान्मनुष्ये (1550) (संग्राहकभाष्यम्) अत्यल्पमिदमुच्यते ‐ मनुष्य इति, पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम्। आरण्यकः पन्थाः, आरण्यकोऽध्यायः, आरण्यको न्यायः, आरण्यको विहारः, आरण्यको मनुष्यः, आरण्यको हस्ती। वा गोमयेष्विति वक्तव्यम्। आरण्यका गोमयाः। आरण्या गोमयाः।।