Page loading... Please wait.
4|2|125 - अवृद्धादपि बहुवचनविषयात्‌
॥ तस्मै पाणिनये नमः ॥
4|2|125
SK 1349
अवृद्धादपि बहुवचनविषयात्‌   🔊
सूत्रच्छेदः
अ-वृद्धात् (पञ्चम्येकवचनम्) , अपि (अव्ययम्) , बहुवचन-विषयात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जनपदतदवध्योः इत्येव। अवृद्धाद् वृद्धाच् च जनपदात् तदवधिवाचिनश्च बहुवनचविषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैसिकः। अण्छयोरपवादः। अवृद्धाज् जनपदात् तावत् अङ्गाः। वङ्गाः। कलिङ्गाः। आङ्गकः। वाङ्गकः। कालिङ्गकः। अवृद्धाज् जनपदावधेः अजमीढाः। अजक्रन्द्राः। आजमीढकः। आजक्रन्दकः। वृद्धाज् जनपदात् दार्वाः। जाम्ब्वाः। दार्वकः। जाम्ब्वकः। वृद्धाज् जनपदावधेः कालञ्जराः। वैकुलिशाः। कालञ्जरकः। वैकुलिशकः। विषयग्रहणमनयत्र भावार्थम्। जनपदएकशेषबहुत्वे मा भूत्। वर्तन्यः। वार्तनः। अपिग्रहणं किम् यावता वृद्धात पूर्वेण एव सिद्धम्? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायि इति समुच्चीयते।
`अण्छयोरपवादः` इति। अवृद्धादणोऽपवादः, वृद्धाच्छस्य। अथ विषयग्रहणं किमर्थम्, विनापि तेन विशेषो लभ्यत एव। कथम्? इह जनपदतदवधिशब्दाभ्यां समानाधिकरणत्वाद्वहुवचनशब्दो न पारिभाषिको विज्ञायते,किं तर्हि? अन्वर्थः-- बहूनामर्थानां वचनो यो जनपदस्तदवधिश्चेति। यश्च बहूनामर्थानां वचनः सोऽर्थान् बहून् ब्राऊवन् सामथ्र्यादेव बहुवचनविषयो भवति? इत्याह-- `विषयग्रहणम्` इत्यादि। अनन्यत्रभावः कथं नाम लभ्यत इत्येवमर्थं विषयग्रहणम्। अनन्यत्रभावः किमर्थमिष्यत इत्याह-- जनपदैकदेशः क्रियते। वत्र्तनी च वत्र्तनी च वत्र्तनी च वत्र्तन्यः,तद्बहूनां वाचको भवति। ततश्च यदि विषयघणं न क्रियते ततो वत्र्तनीषु भव इति वुञ् स्यात्। विषयग्रहणे तु सति न भवति, अनन्यत्रभावो विषयः। तेनैवं विज्ञायते-- बहुवचनं न यो व्यभचरति। यश्चैकशेषः स बहूवचनं व्यभिचरति, तस्यहि विवक्षाभावे बहुत्वात्। द्वयोरपि च कदाचिद्वृत्तेः।`अपिग्रहणम्` इति। अपिग्रहणं हि वृद्धादपि यथा स्यादित्येवमर्थं क्रियते। वृद्धात्पूर्वेणैव सिद्धः प्रत्ययः, तत् किमपिग्रहणेन? `तक्रकौण्डिन्यायेन` इति। यथा `ब्राआहृणेभ्यो दधि दीयता तक्रं कौण्डिन्याय` इति सामान्येन वृत्तस्य दधिदानस्य विशेषे वत्र्तमानेन तक्रदानेन बाधा क्रियते, तथेहापि बहुवचनविषये च सामान्येन प्रवृत्तस्य पूर्वयोगस्य बहुवचनविषये वत्र्तमानेनानेन योगेन बाधा विज्ञायते। तस्माद्वृद्धादपि यथा स्यादित्यपि शब्देन समुच्चीयते॥
अण्च्छयोरपवाद इति । अवृद्धादणोऽपवादो वृद्धाच्छस्य । इहावृद्धादपि बहुवचनादित्येव सिद्धम्; यौगिको बहुवचनशब्दः---बहूनामर्थानां वचनो बहुवचन इति । यदि वा बहुवचनाद्वहुवचनान्तादित्यर्थः, नार्थो विषयग्रहणेन ? तत्राह---जनपदैकशेषबहुत्व इति । जनपदस्यैकशेषवशेन यद्वहुत्वं तत्रेत्यर्थः । वर्तन्य इति । अवयवभेदेन भेदमाश्रित्य एकशेषः । नायं नित्यबहुवचनान्तः; द्व्येकयोरपि दर्शनात् । तक्रकौण्डिन्यायेनेति । पूर्वसूत्रे हि जनपदसामान्ये वृद्धाद् वुञ् विहितः, यथा---ब्राह्मणसामान्ये दधिदानम् । इह तु बहुवचनविषये विशेषेऽवृद्धाद् वुञ्, यथा---कौण्डिन्ये तक्रदानम्, ततश्च बहुवचनादपि वृद्धाद् वुञि प्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञो बाधकः स्यादित्यापिशब्देन समुच्चीयत इत्यर्थः । इह बहुवचनविषयादित्येतावता सिद्धमवृद्धार्थोऽयमारम्भः । वृद्धाधिकारविच्छेदार्थं त्ववृद्धादपीति वचनम् ॥
सिद्धान्तकौमुदी
अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥
अवृद्धादपि बहुवचनविषयात् - अवृद्धादपि बहुवचनविषयात् । अवृद्धाज्जनपदादिति । "उदाह्यियते" इति शेषः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यो जनपदः कस्यचिज्जनपदस्यावधिः । वृद्धाज्जनपदादिति । "उदाह्यियते" इति शेषः । दार्वक इति । "दार्वा" इति बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः । कालञ्जरक इति । कलञ्जरेषुभव इत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.