Page loading... Please wait.
4|2|124 - जनपदतदवध्योश्च
॥ तस्मै पाणिनये नमः ॥
4|2|124
SK 1348
जनपदतदवध्योश्च  
सूत्रच्छेदः
जनपद-तद्-अवध्योः (षष्ठीद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृद्धातित्येव, देशे इति च। तद्विशेषनं जनपदतदवधी। वृद्धाज् जनपदवाचिनः तदवधिवाचिनश्च प्रातिपदिकात् वुञ् प्रत्ययो भवति शैसिकः। छस्य अपवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि औपुष्टकः। श्यामायनकः। तदवधेरपि जनपा एव गृह्यते न ग्रामः। किम् अर्थं तर्हि ग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच् छं बाधित्वा वुञेव जनपदावधेर् भवति। त्रैगर्तकः।
`तदवधेरपि` इत्यादि। `जनपदतदवध्योश्च` इत्यत्र तच्छब्देन सन्निहितत्वाज्जनपद एवपरामृश्यते। न चायं षष्ठीसमासः। षष्टीसमासे ह्रजनपदोऽपि योऽवधिस्ततोऽपि वुञ् प्रसज्येत। छ एव तस्येष्यते-- मौञ्जी नाम वाहीकानामवधिग्र्रामः, तत्र भवो मौञ्जीय इति। तस्मात् समानाधिकरण एवायं समासः-- सएव जनपदोऽवधिर्मर्यादा तदवधिरिति। तेन जनपदावधिरेव एव गृह्रन्ते, न ग्रामः।`किमर्थं तर्हि तदवधिग्रहणम्` इति। यदि तदवधिरपि जनपद एव गृह्रते,निरर्थकं तर्हि तस्य ग्रहणम्, `जनपदाच्च` इत्येतावदेव वक्तव्यमित्यभिप्रायः। `बाधकबाधनार्थम्` इति। गत्र्तोत्तरपदाद्वक्ष्यमाणश्छ एव परत्वाद्विशेषविहितत्वाच्च बाधकः, तस्य बाधनार्थं तदवधिग्रहणम्।तेनहि त्रिगत्र्तेषु भवस्त्रैगत्र्तक इत्यत्रोत्तरसूत्रेण गर्तत्तोत्तरपदाच्छं बाधित्वा वुञेव भवति॥
तदवधिरपि जनपद एव गृह्यते इति । स चासाववधिरिति कर्मधारय आश्रीयते, न तु तस्यावधिस्तदवधिरिति षष्ठीसमास इत्यर्थः । तथा हि सति मौञ्जी नामावधिभूतो ग्रामः, तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । कस्य पुनरसाववधिरिति चेत् ? सन्निधानाज्जनपदस्यैवेति विज्ञायते ॥ गर्तोतरपदाच्छ्ंअ बाधित्वेति । अन्यथा तु गर्तोतरपदाच्छाए भवतीत्यस्यावकाशः---वृकगर्तीयः, जनपदवुञोऽवकाशः---आङ्गकः; त्रिगर्तशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात्, ततश्च गर्तोतरपदाच्छविधेर्जनपदाद् वुञ् पूर्वविप्रतिषिद्ध इति पूर्वविप्रतिषेधः पठितव्यो भवति । त्रैगर्तक इति । उतरसूत्रेण वुञ् । एतेनोतरत्र तदवधिग्रहणस्योपयोगं दर्शयति ॥
सिद्धान्तकौमुदी
जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥
जनपदतदवध्योश्च - जनपदतदवध्योश्च । आदर्शक इति । आदर्शो नाम जनपदः । तत्र भव इत्यर्थः । त्रिगत्रो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम् । तदाह — त्रैगर्तक इति ।
जनपदतदवध्योश्च - जनपद । स चासौ अवधिश्चेति कर्मधारयाज्जनपदजरूप एवावधिर्लभ्यते । न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थं,बुञेव यथा स्यान्नान्य॑दित्येतदर्थं तस्यावश्यकत्वात् । अत एव जनपदावधिवाचिनस्त्रिगर्तशब्दात्र्तोत्तरपदा॑दिति च्छो न भवति, किंतुअवृद्धादपि बहुवचनविषया॑दित्युत्तरसूत्रेण वुञेव भवतीत्याशयेनोदाहरति — त्रैगर्तक इति ।जनपदतदवध्यो॑रिति सूत्रे जनपदावधिवाचिन उदाहरणं तुश्यामायनकः॑इत्यादि बोध्यम् । नागरा ब्राआहृणा इति । कत्त्र्यादिषुमाहिष्मती॑ति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकञानाग रेयके॑इति भाव्यमिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
जनपदतदवध्योश्च (1545) (वुञ्ञोऽधिकरणम्) (5435 सूत्रातिव्याप्तिप्रदर्शकवार्तिकम्।। 1 .।) - जनपदतदवध्योर्वुञ्ञ्विधानेऽवयवमात्रात्प्रसङ्गः - (भाष्यम्) जनपदतदवध्योर्वुञ्ञो विधानेऽवयवमात्रात्प्राप्नोति। मौञ्ञ्जो नाम वाहीकेषु ग्रामस्तस्मिन् भवो मौञ्ञ्जीयः।। एवं तर्हि जनपदादेव जनपदावधेः।। (5436 सूत्रांशवैर्यथ्यप्रदर्शकवार्तिकम्।। 2 ।।) - जनपदादिति चेद्वचनानर्थक्यम् - (भाष्यम्) जनपदादिति चेदवधिग्रहणमनर्थकम्। सिद्धं जनपदादित्येव। (सिद्धान्तभाष्यम्) इदं तर्हि प्रयोजनम् ‐ जनपदावधेर्वुञ्ञेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति। किं चान्यत्प्राप्नोति? छः। गर्तोत्तरपदाच्छविधेर्जनपदाद्वुञ्ञ् पूर्वविप्रतिषिद्धमिति वक्ष्यति स पूर्वविप्रतिषेधो न पठितव्यो भवति।।