Page loading... Please wait.
4|2|123 - रोपधेतोः प्राचाम्
॥ तस्मै पाणिनये नमः ॥
4|2|123
SK 1347
रोपधेतोः प्राचाम्   🔊
सूत्रच्छेदः
र-उपधा-इतोः (षष्ठीद्विवचनम्) , प्राचाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृद्धतित्येव, देशे इति च। तद्विशेसणं प्राग्ग्रहणम्। रौपधातीकारान्ताच् च प्रग्देशवाचिनो वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्य अपवादः। पाटलिपुत्रकाः ऐकचक्रकाः। ईतः खल्वपि काकन्दी। काकन्दकः। माकन्दी। माक्नदकः। प्राचाम् इति किम्? दात्तामित्रीयः। तपरकराणं विस्पष्टार्थम्।
`ईकारान्ताच्च` इति।कतं पुनज्र्ञायते---दीर्घस्येदं ग्रहणम्, न ह्यस्वस्येति? सामथ्र्यात्। प्राग्ग्रहणं हि देशस्य विशेषणम्। वृद्धादिति वत्र्तते, न च वृद्धमिकारान्तं प्राग्देशवाच्यस्ति, तस्माद्दीर्घस्येदं ग्रहणमिति विज्ञायते। एकचक्राशब्दस्य तु `एङ् प्राचाम्` 1|1|74 इति वृद्धसंज्ञा।अथ तपरकरणं किमर्थम्, नेह किञ्चित्तस्य व्यावर्त्त्यमस्तीत्यत आह-- `तपरकरणं विस्पष्टार्थम्ट (इति)। असति हि तस्मिन् रोपध इति स्थिते गुणे कृते विभक्तौ च रोपधयोरिति निर्देशः स्यात्। तत्रैव सन्देहः स्यात्--किं रोपधस्येदं ग्रहणम्? उत रोपधस्येकारान्तस्येति? तपरकरणे तु सति सन्देहो न भवति। ईरोपधादिति नोक्तम्, वैचित्र्यार्थम्॥
ईकारान्ताच्चेति । ह्रस्वस्य तु ग्रहणं न भवति, तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्। एकचक्र इति । एकचक्रा नाम पाग्देशे नगरी, तत्र ठेङ् प्राचां देशेऽ इति वृद्धसंज्ञा, ककन्देन निर्वृता नगरी काकंन्दी, स्त्रीषु ठ्सौवीरसाल्वप्राक्षऽ इत्यञ् । तपरकरणं विस्पष्टार्थमिति । न तु ह्रस्वप्लुतयोनिवृत्यर्थम् ; तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्, ईकारस्यानण्त्वेन तयोरघणाच्च । असति तु तकारे ठ्रोपधयोःऽ इत्युच्यमाने किमत्र गृहीतमिति विस्पष्ट्ंअ न ज्ञायते । तकारे तु सति वर्णनिर्देशो निश्चीयते, तत्रैव तस्य प्रसिद्धत्वात् । ठीकाररोपधयोःऽ इति निर्देशे गौरवप्रसङ्गः ॥
सिद्धान्तकौमुदी
रोपधादीकारान्ताच्च प्राद्गेशवाचिनो वृद्धाद्वुञ् स्यात् ॥ पाटलिपुत्रः । ईतः, काकन्दकः ॥
रोपधेतोः प्राचाम् - रोपधेतोः प्राचां । रोपधश्च, ईच्च तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे । प्राचामिति धेशविशेषणं । तदाह — रोपधादित्यादिना । ईत इति । "उदाह्यियते" इति शेषः । काकन्दक इति । काकन्दी नाम देशः, तत्र भव इत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.