Page loading... Please wait.
4|2|120 - वृद्धात्‌ प्राचाम्
॥ तस्मै पाणिनये नमः ॥
4|2|120
SK 1344
वृद्धात्‌ प्राचाम्   🔊
सूत्रच्छेदः
वृद्धात् (पञ्चम्येकवचनम्) , प्राचाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ओर् देशे इत्येव। उवर्णान्तात् वृद्धात् प्राग्देशब्वाचिनः। प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। आढकजम्बुकः। शाकजम्बुकः। नापितवास्तुकः। पूर्वेण एव ठञि सिद्धे नियमार्थं वचनम्, वृद्धादेव प्राचाम् अवृद्धान् न भवति इति। मल्लवास्तु माल्लवास्तवः।
`आढकजम्बुकः` इति। पूर्ववत् कादेशो ह्यस्वत्वञ्च॥
वृद्धादेव प्राचामिति । विपरीतस्तु नियमो न भवति---प्राचामेव वृद्धादिति, अप्राग्देशवाचिनो वृद्धस्योवर्णान्तस्याभावाद् यत्र पूर्वसूत्रस्यातिप्रसङ्गः स्यात् । आढकजम्बुक इति । पूर्ववत्कादेशह्रस्वत्वे ॥
सिद्धान्तकौमुदी
प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥
वृद्धात् प्राचाम् - वृद्धात्प्राचाम् ।ओर्देशे ठ॑ञित्यनुवर्तते । प्राचामिति देशविशेषणं, नतु विकल्पार्थं, व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह — प्राग्देशेत्यादिना । आढकजम्बुक इति । आढकजम्बूर्नाम कश्चिद्ग्रामः । तत्र भव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । "केऽणः" इति ह्यस्वः । एवे शाकजम्बुकः । मल्लवास्त्विति ।कश्चित् प्राच्यो ग्राम॑ इति शेषः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.