Page loading... Please wait.
4|2|119 - ओर्देशे ठञ्
॥ तस्मै पाणिनये नमः ॥
4|2|119
SK 1343
ओर्देशे ठञ्   🔊
सूत्रच्छेदः
ओः (पञ्चम्येकवचनम्) , देशे (सप्तम्येकवचनम्) , ठञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृद्धातेति नावुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्तात् देशवाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शावरजम्बुकः। देशे इति किम्? पटोश्छात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्य अनुवृत्तिः न लभ्यते इति ठञ्ग्रहणं कृतम्।
`नैषादकर्षुकः। शावरजम्बुकः` इति। निषादकर्षूवरजम्बूशब्दाभ्यां ठञ्, `इसुसुक्तान्तात् कः` 7|3|51 , `केऽणः` 7|4|13 इति ह्यस्वः। ननु च ठञ् प्रकृत एव, स एवेहानुकृष्यते, तत्क ठञ्ग्रहणेन? इत्यत आह-- `ठञ्ञिठयोः` इति। यथैव हि ठञ् प्रकृतः, एवं ञिठोऽपि। तत्र द्वयोरपि प्रकरणे ठञ् चानुवर्तिष्यते, नेतर इत्येतन्न लभ्यते। तस्मात् ञिठस्य निवृत्तये पुनष्ठञ्ग्रहणं कृतम्। ननु चास्वरितत्वादेव ञिठो नानुवर्तिष्यते? सत्यमेतत्; तदेवास्वरितत्वं ज्ञापयितुं ञिठस्य ठञ्ग्रहणं कृतम्। तच्चास्वरितत्वमाख्यायते मन्दबुद्धीनामनुग्रहाय॥
नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्, ठिसुसुक्तान्तात्कःऽ, ठ्केऽणःऽ इति ह्रस्वः ॥
सिद्धान्तकौमुदी
उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः (कौमुदी-834) इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥
ओर्देशे ठञ् - ओर्देशे ठञ् । निषादकर्षूरिति । "कश्चिद्ग्राम" इति शेषः । नैषादकर्षुक इति । उगन्तात्परत्वात्कादेशः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.