Page loading... Please wait.
4|2|117 - वाहीकग्रामेभ्यश्च
॥ तस्मै पाणिनये नमः ॥
4|2|117
SK 1341
वाहीकग्रामेभ्यश्च   🔊
सूत्रच्छेदः
वाहीक-ग्रामेभ्यः (पञ्चमीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृद्धातित्येव। वाहीकग्रामवाचिभ्यः वृद्धेभ्यः ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ। छस्य अपवादौ। शाकलिकी, शाकलिका। मान्थविकी, मान्थविका।
Text Unavailable. Please use feedback link below to provide the text if you have.
च्छस्यापवादौ इति । एवं च ये छेनैव बाधिता अव्ययतीररूप्योतरपदोदीच्यग्रामकोपधविषयास्तद्विषयेऽप्येतावेव भवतः, न चेदन्येन बाधः, तद्यथा---आरान्नाम वाहीकग्रामः आरात्की, आरात्का, ठिसुक्तान्तात्कःऽ । तथा कास्तीरं नाम वाहीकग्रामः कास्तीरिकी, कास्तीरिका । इह तु दाशरूप्यं नाम वाहीकग्रामः, ठ्धन्वयोपधात्ऽ इति वुञ् ठञ्ञिठौ बाधते---दाशरूप्यकः । तथा शकलान्यस्मिन्सन्ति शाकलं नामोदीच्यग्रामः भूयो वाहीकग्रामः, ततष्ठञ्ञिठौ भवतः---शाकलिकी, शाकलिका । इह तु सौसुकं नाम वाहीकग्रामः प्रस्थोतरपदादिसूत्रेण प्राप्तं कोपधलक्षणमणं छाए बाधते, परत्वातमप्यपवादत्वाद् ठ्वृद्धादकेकान्तऽ इत्यत्र ठ्कोपधग्रहणं सोसुकाद्यर्थम्ऽ इति कोपलक्षणश्लो बाधते, सौसुकीयः ॥
सिद्धान्तकौमुदी
वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥
वाहीकग्रामेभ्यश्च - तदाह — वाहीकग्रामवाचिभ्य इति ।
वाहीकग्रामेभ्यश्च - वृद्धादेवेति ।वृद्धाच्चेत्प्राचमेवे॑ति विपरीतनियमस्तु न भवति,अप्राग्देशवाचिनो वृद्धस्य उवर्णान्तस्याऽभावात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.