Page loading... Please wait.
4|2|114 - वृद्धाच्छः
॥ तस्मै पाणिनये नमः ॥
4|2|114
SK 1337
वृद्धाच्छः  
सूत्रच्छेदः
वृद्धात् (पञ्चम्येकवचनम्) , छः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गोत्रे इति न अनुवर्तते। सामान्येन विधानम्। वृद्धात् प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः। अणो ऽपवादः। गार्गीयः। वात्सीयः। शालीयः। मालीयः। अव्ययतीररूप्यौत्तरपदौदीच्यग्राम. कौपधविधीन् तु परत्वाद् बाधते।
`अव्ययतीर`इत्यादि। तत्राव्ययविधिं बाधते-- आराद्भव आरातीयः। तीरोत्तर एव विधिः,तं च वायसतीरे भवो वायसतीरीयः। रूपोत्तरपदात्तु छं बाधित्वा `धन्ययोपधाद्वुञ्` 4|2|120 इति योपधलक्षणो वुञ् भवति--- मणिरूप्ये भवो माणिरूप्यक इति। उदीच्यग्रामविदिं बाधते-- वाडवाक्षे भवो वाडवाक्षीयः, साडलपुरे भवः साडलपुरीयः। कोपधलक्षमम्--औदके भव औदकीयः, चौल्लुके भवः चौल्लुकीयः। तेषां तु विधीनामवृद्धोऽवकाशः॥बाल-मनोरमावृद्धाच्छः 1318, 4.2.124 वृद्धाच्छः। वृद्धसंज्ञकाच्छः स्याज्जातादिष्वर्थेषु। अणोऽपवादः। शालीय इति। शालायां जात इत्यादिरर्थः। एवं तदीयः।बाल-मनोरमाभवतष्ठक्छसौ 1320, 4.2.124 भवतष्ठक्छसौ। भावत्क इति। `इसुसुक्तान्तात्कः`। ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह--जश्त्वमिति। `सिति चे`ति पदत्वेन भत्वस्य बाधादिति भावः। ननु `भावत` इति कथमण्प्रत्ययः, `त्यदादीनि चे`ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह--वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति। त्यदादिषु `भातेर्डवतु`रिति डवत्वन्तस्यैव पाठादिति भावः।
अव्ययतीरेत्यादि । अव्ययात्यब् भवतीत्यस्यावकाशः---अमात्यः, च्छस्यावकाशः---शालीयो मालीयः, आराच्छब्दाच्छाए भवति---आरातीयः । ठमेहक्वतसित्रेभ्यःऽ इति परिगणनमनपेक्ष्यायं विप्रतिषेधः । तीरोतरविधेरवकाशः---काश्यतीरः, च्छस्य स एव; वायसतीराच्छाए भवति वायसतीरियः । रूप्योतरविधेरवकाशः---चाररूप्यः, च्छस्य स एव; माणिरूप्याच्छः प्राप्तः, तं चापि योपधलक्षणो वुञ् बाधते---माणिरूप्यकः । प्राप्तिमात्राश्रयेण तु च्छस्य रूप्योतरपदलक्षणस्य च ञस्य विप्रतिषेध उक्तः । उदीच्यग्रामलक्षणस्य विधेरवकाशः--शिवपुर---शैवपुरः, वाडवकर्षाच्छाए भवति---वाडवकर्षीयः। कोपधविधिः---ठ्प्रस्थोतरपदपलद्यादिकोपधादण्ऽ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---ठ्प्रस्थोतरपदपलद्यादिकोपधादण्ऽ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---निलीनक---नैलीनकम्, उलूका अस्मिन्सन्ति ठ्तदस्मिन्नस्तिऽ इत्यण्, औलको नाम ग्रामस्तत्र भवः, तस्माच्छाए भवति---औलूकीयः । यस्तु ठ्कोपधादण्ऽ इत्यण्, स जनपदवुञोऽपवादः, तस्यापि ठ्वृद्धादकेकान्तऽ इत्यत्र ठ्कोपधग्रहणं सोसुकाद्यर्थम्ऽ इति विहितश्छाए बाधको भवति ॥
सिद्धान्तकौमुदी
शालीयः । मालीयः । तदीयः ॥
वृद्धाच्छः - भवतष्ठक्छसौ । भावत्क इति ।इसुसुक्तान्तात्कः॑ । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह — जश्त्वमिति ।सिति चे॑ति पदत्वेन भत्वस्य बाधादिति भावः । ननु "भावत" इति कथमण्प्रत्ययः,त्यदादीनि चे॑ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह — वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषुभातेर्डवतु॑रिति डवत्वन्तस्यैव पाठादिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
शालीयः। मालीयः। तदीयः। (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या)। देवदत्तीयः, दैवदत्तः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.