Page loading... Please wait.
4|2|113 - न द्व्यचः प्राच्यभरतेषु
॥ तस्मै पाणिनये नमः ॥
4|2|113
SK 1334
न द्व्यचः प्राच्यभरतेषु  
सूत्रच्छेदः
(अव्ययम्) , द्वि-अचः (पञ्चम्येकवचनम्) , प्राच्य-भरतेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्व्यचः प्रातिपदिकात् प्राच्यभरतगोत्रादिञन्तादण् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। पैङ्गीयाः। पौष्ठीयाः। चैदीयाः। पौष्कीयाः। काशीयाः। पाशीयाः। द्व्यचः इति किम्? पान्नागाराः। प्राच्यभरतेषु इति किम्? दाक्षाः। काशीयाः इति कथम् उदाहृतं, यावता काश्यादिभ्यष् ठञ् ञिठाभ्यां भवितव्यम्? न एतदस्ति। देशवाचिनः काशिशब्दस्य तत्र ग्रहणं चैदिशब्देन साहचर्यात्। गोत्रात् तु वृद्धाच्छः एव भवति। ज्ञापकादन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवति इति स्वशब्देन भरतानाम् उपादानं कृतम्।
`पैङ्गीयाः, प्रौष्ठीयाः`इति। प्राच्यगोत्रोदाहरणम्। `काशीयाः,पाशीयाः`इति। भरतगोत्रोदाहरणम्। `कथम्` इत्यादि चोद्यम्। `नैतदस्ति` इति परिहारः। उभयञ्चैतत्,तदुदाहरणम्। उभयञ्चैतदनुगतार्थम्। ननु च भरताः प्राच्या एव,ततः प्राच्यग्रहणेनैव तेषां ग्रहणं भविष्यति, तत्किमर्थं तेषांस्वशब्देनोपादानम्? इत्यत आह-- `ज्ञापकादन्यत्र` इत्यादि। क्वान्यत्र? `बह्वच इञः प्राच्यभरतेषु` 2|4|66 इत्यत्र॥
ननु च भरताः प्राच्या एव, तत्किमर्थं तेषां स्वशब्देन ग्रहणम् ? तत्राह---ज्ञापकादन्यत्रेति । ठ्बह्वच इञः प्राच्यभरतेषुऽ इत्यत्रायमर्थो ज्ञापतिः---ठन्यत्र प्राच्यग्रहणे भरतानां ग्रहणं न भवतिऽ इति । अपर आह---ज्ञापकादन्यत्रेत्यन्वयः, अन्यत्रास्यार्थस्य ज्ञापितत्वादित्यर्थः ॥
सिद्धान्तकौमुदी
इञश्च (कौमुदी-1333) इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥
न द्व्यचः प्राच्यभरतेषु - न द्वयचः । प्राच्येषु [परेषु ]भरतेषु च गोत्रेषु विद्यमानादिञन्तात् द्व्यचोऽण् न भवतीत्यर्थः । इञश्चेत्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्राष्ठीया इति । प्राष्ठस्य गोत्रापत्यं प्राष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धाच्छः । सिङ्गमिति । तेन औद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्रइञः प्राचा॑मिति भरतेब्यो लुङ् न भवति ।
न द्व्यचः प्राच्यभरतेषु - न व्द्चः । अपवाद इति । प्रतिषेध इतर्थः॥ भरतानामग्रहणस्येति । तेनइञः प्राचा॑मिति भरतेभ्यो युवप्रत्ययस्य लुड्न भवति, औद्दालकिः पिता, औद्दालकायनः पुत्र इतिअर्हादगोपुच्छे॑ति सूत्रे कैयटः । भवतः । छादिरयं प्रत्ययो न तु शादिः, पदसंज्ञार्थं सित्करणादित्यांशयेनाह — जश्त्वमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.