Page loading... Please wait.
4|2|112 - इञश्च
॥ तस्मै पाणिनये नमः ॥
4|2|112
SK 1333
इञश्च  
सूत्रच्छेदः
इञः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गोत्रे इत्येव। गोत्रे य इञ् विहितः तदन्तात् प्रातिप्दिकातण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। दाक्षाः। प्लाक्षाः। माहकाः। गोरे इत्येव, सौतङ्गमेरिदं सौतङ्गमीयम्।
दाक्ष्यादिभ्यः `अत इञ्` 4|1|95 इतीञन्तेभ्योऽण्। `सौतङ्गमीयम्` इति। सुतङ्गमेन निर्वृत्तमिति `वुञ्छण्` 4|2|79 इत्यादिना सुतङ्गमशब्दाच्चातुरर्थिक इञ्॥
गोत्र इत्येवेति । पूर्वत्र पारिभाषिकस्य गोत्रस्य ग्रहणमित्युक्तम्, इहापि तदेवानुवर्तते, तेनात्रापि पारिभाषिकस्यैव ग्रहणादिह न भवति---पाणिनेर्यूनच्छात्त्राः पाणिनीया इति सौतङ्गमेरिदमिति । सुतङ्गमशब्दाद् वुञ्च्छणादिसूत्रेण चातुर्थिक इञ् । अत्रापत्यत्वमेव नास्तीति सुतरामगोत्रत्वाद्भवति प्रत्युदाहरणम् ॥
सिद्धान्तकौमुदी
गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न । पाणिनीयम् ॥
इञश्च - इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः ।अत इञ॑ । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः ।सुतङ्गमादिभ्य इञ् । सौतङ्गमेरिदमित्यर्थे वृद्धाच्छः, न त्वण्, इञो गोत्रार्थकत्वाऽभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तस्तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्रते,यूनि लु॑गिति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति । पणिनो गोत्रापत्यं पाणिनः । तस्यापत्यं युवा — पाणिनिः । तस्येदं पाणिनीयम् । वृद्धाच्छः । अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः ।
इञश्च - सोतङ्गमेरिति । सुतङ्गमादिभ्यश्चातुरर्थिक इञ् । शास्त्रीयमिति । ननुअपत्याधिकारादन्यत्र लौकिकं गौत्रं गृह्रते॑इति चेत् । अत्राहुः — -॒पूर्वसूत्रे गोत्रग्रहणेन पौत्रप्रभृति गोत्रं गृह्रते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्यः॑इति गोत्रप्रत्ययानुवादेन तत्राऽण्विधानात् । कण्वादयश्च गर्गाद्यन्तर्गताः ।गर्गादिभ्यो यऋ॑ञित्यत्र तुगोत्रे कुञ्जादिभ्यः॑इत्यतो गोत्र इत्यनुवर्तते, न तु शास्त्रीयगोत्रमेव गृह्रते, अपत्याधिकारस्थत्वात्, तदेव हिइञश्चे॑ति सूत्रेऽनुवर्तते इथि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.