Page loading... Please wait.
4|2|110 - प्रस्थोत्तरपदपलद्यादिकोपधादण्
॥ तस्मै पाणिनये नमः ॥
4|2|110
SK 1331
प्रस्थोत्तरपदपलद्यादिकोपधादण्  
सूत्रच्छेदः
प्रस्थ-उत्तरपद-पलदी-आदि-क-उपधात् (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रस्थोत्तरपदात पलद्यादिभ्यः ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति शैसिकः। उदीच्यग्रामलक्षणस्य अञो ऽपवादः। माद्रीप्रस्थः। माहकीरस्थः। पलद्यादिभ्यः पालदः। पारिषदः। ककारोपधात् नैलीनकः। चैयातकः। पलद्यादिषु यो वाहीकग्रामः, ततः ठञ्ञिठयोः अपवादः। यथा गौष्ठी, नैतकी इति। गोमतीशब्दः पठ्यते, ततो रोपधेतोः प्राचाम् 4|2|123 इति वुञो ऽपवादः। वाहीकशब्दः कोपधो ऽपि पुनः पठ्यते परं छं 4|2|114 बाधितुम्। अण्ग्रहणं बाधकबाधनार्थम्। पलदी। परिषत्। यकृल्लोमन्। रोमक। कालकूट। पटच्चर। वाहीक। कलकीट। मलकीट। कमलकीट। कमलभिदा। गोष्ठी। कमलकीर। बाहुकीत। नैतकी। परिखा। शूरसेन। गोमती। उदयान। पलद्यादिः।
`उदीच्यग्रामलक्षणस्याञोऽपवादः` इति। प्रस्थोत्तरपदादीनामुदीच्यग्रानत्वात्। `माद्रीप्रस्थः, माहकीप्रस्थः` इति। अत्र प्रकृतिः समासस्वरेणान्तोदात्ता। अथोत्तरपदग्रहणं किमर्थम्, न प्रस्थान्तादित्येवोच्येत? नैवं शक्यम्; तदिहापि प्रसज्येत--उत्तमकर्णीप्रस्थः। तत्राप्युत्तरपदग्रहणान्न भवति। न ह्रत्र प्रस्थशब्द उत्तरपदम्, किं तर्हि? कर्णीप्रस्थशब्दः। `ततष्ठञ्ञिठयोरपवादः`इति `वाहीकग्रामेभ्यश्च` 4|2|116 इति प्राप्तयोः। अथ वाहीकशब्दः किमर्तमिह पठते, यावता कोपधत्वादेवाण् सिद्धः? अत्राह-- `वाहीकशब्दः` इत्यादि। यदि वाहीकशब्द इह न पठते, परत्वात् `वृद्धाच्छः` 4|2|113 इति च्छः स्यात्। कोपधस्य तु निलीक इत्यत्रावृद्धमवकाशः। तस्मात्परमपि च्छं बाधित्वाऽण् यथा स्यादिति कोपधोऽपि वाहीकशब्दः पठते।अथाण्ग्रहणं किमर्थम्, न यावता यथाविहितमेवोच्येत?न; पुनर्विधानादणेव भवतीति विज्ञायते। अपवादस्य विधाने पुनर्विधानमनर्थकमित्याह--`अजग्रहमम्` इत्यादि। यदत्र वृद्धं वाहीकग्रामः,तस्मात् `प्राग्दीव्यतोऽण्` 4|1|83 इत्यतोऽणि प्राप्ते ` वृद्धाच्छः` 4|2|113 प्राप्नोति, तस्मिन् `वाहीकग्रहामेभ्यश्च` 4|2|116 इति ठञ्ञिठौ, तौ परत्वात् बाधित्वा यद्यत्राण्ग्रहणं न क्रियेत तदा पुनर्विधानाच्छ एव स्यात्। अण्ग्रहणादेव भवति-- गोष्ठआं भवं `गौषठम्` इति। तस्मात् बाधकमपि बाधित्वाऽणेव यथा स्यादित्येवमर्थमण्ग्रहणम्। कोपधग्रहणमिहाजनपदार्थम्। जनपदतदवधि` 4|2|123 `कोपधादण्` 4|2|131 इत्यनेन सिद्धः। यकृल्लोमशब्दः पलद्यादिषु पठते, तस्य नलोप निपात्यते,अन्यथा `अन्` 6|4|167 इति प्रकृतिभावे सति यकृल्लोम्नि भवः याकृल्लोम इति न सिध्येत्॥
उदीच्यग्रामलक्षणस्याञोऽपवाद इति । ततोऽन्यत्र व्रीहिप्रस्थ--गिरिप्रस्थ--करिकादावौत्सगिक एवाण्, कैलासप्रस्थ--काक--शाकादिषु वृद्धेषु ठ्वृद्धाच्छःऽ भवति, देशवाचिनि तु मालाप्रस्थादौ ठ्प्रस्थपुरवहान्ताच्चऽ इति वुञ्, इक्ष्वाकुप्रभृतिषु जनपदवुञोऽपवादः ठ्कोपधादण्ऽ इत्यण्वक्ष्यते, अरीहणकादौ च ठ्वृद्धादकेकान्तऽ इति छाए भवति, तस्मादञोऽपवाद इति सुष्ठूअक्तम् । उतरपदग्रहणादिह न भवति---उतरोमाहकिप्रस्थ उतरमाहकिप्रस्थः, तत्र भ इति । ठ्प्रस्थान्तात्ऽ इति तूच्यमानेऽत्रापि स्यात् । अण्ग्रहणं बाधकबाधनार्थमिति । यद्यण्ग्रहणं न क्रियेत, तदा यदत्र वृद्धं वाहीकग्रामवाचि तस्मात् ठ्प्राग्दीव्यतोऽण्ऽ इत्यणि प्राप्ते ठ्वृद्धाच्छःऽ प्राप्तः, तस्मिन्ठ्वाहीकग्रासेभ्यश्चऽ इति ठञ्ञिठाभ्यां बाधिते पुनर्विधानाच्छ एव स्यात् । तस्माद्वाधकमपि तं छ्ंअ बाधित्वा अण्ग्रहणादणेव भवति । यकृल्लोमशब्दः पठ।ल्ते, यकृल्लोम्नि भः याकृल्लोमः, ठन्ऽ इति प्रकृतिभावो न भवति, गणे नलोपनिपातनादित्याहुः ॥
सिद्धान्तकौमुदी
माहिकिप्रस्थः । पालदः । नैलीनकः ॥
प्रस्थोत्तरपदपलद्यादिकोपधादण् - प्रस्थोत्तरपद । प्रस्थोत्तरपदात्पलद्यादिभ्यः कोपधाच्च अणित्यर्थः । पलदिः-आदिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य अणोऽपवादः । माहिकिप्रस्थ इति । महिकिप्रस्थनाम्नि ग्रामे भव इत्यर्थः । पालद इति । पलदिनाम्नि ग्रामे भव इत्यर्थः । नैलीनक इति । निलीनकनाम्नि ग्रामे भव इत्यर्थः ।
प्रस्थोत्तरपदपलद्यादिकोपधादण् - प्रस्थोत्तर । उदीच्यमग्रामलक्षणस्याऽञोऽपवादः । पालद इति ।पलदी॑ति ईकारान्त इत्येके । नान्त इत्यन्ये । नलोपे सति यणादेशात्संहिता तुल्यैव । वाहीकशब्दः कोपधोऽपि पलद्यादिषु पठते परं छं बाधितुम् । अन्यथा अणं बाधित्वापरत्वाच्छ एव स्यात्, कोपधप्रयुक्तोषऽण् अवृद्धे सावकाश इति । यकृल्लोम नि भवो याकृल्लमः ।अन्इति प्रकृतिभावस्तु न, गणेऽस्मिन्नलोपनिपातनादिति हरदत्तादयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.