Page loading... Please wait.
4|2|107 - दिक्पूर्वपदादसंज्ञायां ञः
॥ तस्मै पाणिनये नमः ॥
4|2|107
SK 1328
दिक्पूर्वपदादसंज्ञायां ञः   🔊
सूत्रच्छेदः
दिक्-पूर्वपदात् (पञ्चम्येकवचनम्) , अ-संज्ञायाम् (सप्तम्येकवचनम्) , ञः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
असंज्ञायाम् इति प्रकृतिविशेषणम्। दिक्पूर्वपदात् प्रातिपदिकातसंज्ञाविषयात् ञः पत्ययो ह्बवति शैषिकः। अणो ऽपवदः। पौर्वशालः। दाक्षिणशालः। आपरशालः। असंज्ञायाम् इति किम्? पूर्वैषुकामशमः। अपरैषुकामशमः। दिक्षङ्ख्ये संज्ञायाम् 2|1|50 इति समासः। प्राचां ग्रामनगराणाम् इति उत्तरपदवृद्धिः। पदग्रहणं स्वरूपविधिनिरासार्थम्।
`पौर्वशालः`इति। पूर्वस्यां शालायां भवः पौर्वशालः। `तद्धितार्थः` 2|1|50 इत्यादिना तद्धितार्थे समासः, ततः प्रत्ययः।अथ पदग्रहणं किमर्थम्? `न दिक्पूर्वात्` इत्येवोच्येत? इत्यत आह-- `पदग्रहणम्` इत्यादि। असति हि पदग्रहण स्वरूपग्रहणं स्यात्। तथा च दिग्गजः, दिग्नागः, दिग्दाहः-- इत्येवमादिः प्रकृतिर्विज्ञायते। पदग्रहणे तु सति दिग्विशेषो गृह्रते,कथम्? पदग्रहणसामथ्र्याद्व्याधिकरणे बहुव्रीहिर्विज्ञायते-- दिशः पूर्वपदं यस्य। दिश इति च वाचकापेक्षया षष्ठी विज्ञायते। तेनेह तदभिधायी पूर्वादिदिक्शब्दो गृह्रते।
असंज्ञायामिति । न चैवमसंज्ञाया इति पञ्चम्या निर्देशः, विषयसप्तम्यापि तदर्थलाभादित्याह---संज्ञाविषयादिति । पौर्वशाल इति । पूर्वस्यां शालायां भव इति तद्धितार्थे समासः, ततः प्रत्ययः । पदग्रहणमित्यादि । ठ्दिक्पूर्वाद्ऽ इत्युच्यमाने स्वरूपं स्यात्, ततश्च दिग्गज इत्यादेरेवस्यात् । पदग्रहणे तु सति दिग्विशेषवाचिनां ग्रहणं भवति, कथम् ? व्यधिकरणपदो बहुव्रीहिः---दिशः पूर्वपदमस्मिन्निति, ठ्दिशःऽ इति वाचकापेक्षया षष्ठी, दिशो वाचकं पूर्वपदस्मिन्नित्यर्थः ॥
सिद्धान्तकौमुदी
अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।प्राचां ग्रामनगरणाम् (कौमुदी-1400) इत्युत्तरपदवृद्धिः ॥
दिक्पूर्वपदादसंज्ञायां ञः - दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूताद्दिक्पूर्वपदकाञ्ञः स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे "तद्धितार्थ" इति समासाञ्ञः ।
दिक्पूर्वपदादसंज्ञायां ञः - दिक्पूर्व ।असंज्ञायामि॑त्यत्र सौत्रत्वात्पञ्चम्यर्थे सप्तमीत्याशयेनाह — -संज्ञाभूताया इति ।
लघुसिद्धान्तकौमुदी
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.