॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|99
SK 1101
4|1|99
नडादिभ्यः फक्  
SK 1101
सूत्रच्छेद:
नडादिभ्यः - पञ्चमीबहुवचनम् , फक् - प्रथमैकवचनम्
अनुवृत्ति:
गोत्रे  [4|1|98] - सप्तम्येकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) नडादिभ्यः फक्
सूत्रार्थ:
गोत्रापत्यस्य निर्देशार्थम् नडादिगणस्य शब्देभ्यः फक्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
नडित्येवम् आदिभ्यः प्रातिपदिकेभ्यः गोत्रापत्ये फक् प्रत्ययो भवति। नाडायनः। चारायणः। गोत्रे इत्येव, नाडिः। शलङ्कु शलङ्कं च इत्यत्र पठ्यते। शालङ्कायनः। पैलादिषु शालङ्किशब्दः पठ्यते। शालङ्किः पिता। शालङ्किः पुत्रः। तत् कथम्? गोत्रविशेषे कौशिके फकं स्मरन्ति, इञेव अन्यत्र शालङ्किः इति। अथवा पैलादिपाठ एव ज्ञापकः इञो भावस्य। नड। चर। बक। मुञ्ज। इतिक। इतिश। उपक। लमक। शलङ्कु शलङ्कं च। सप्तल। वाजप्य। तिक। अग्निशर्मन् वृशगणे। प्राण। नर। सायक। दास। मित्र। द्वीप। पिङ्गर। पिङ्गल। किङ्कर। किङ्कल। कातर। कातल। काश्य। काश्यप। काव्य। अज। अमुष्य। कृष्णरणौ ब्राह्मणवासिष्ठयोः। अमित्र। लिगु। चित्र। कुमार। क्रोष्टु क्रोष्टं च। लोह। दुर्ग। स्तम्भ। शिंशिपा। अग्र। तृण। शकट। सुमनस्। सुमत। मिमत। ऋक्। जत्। युगन्धर। हंसक। दण्डिन्। हस्तिन्। पञ्चाल। चमसिन्। सुकृत्य। स्थिरक। ब्राह्मण। चटक। बदर। अश्वक। खरप। कामुक। व्रह्मदत्त। उदुम्बर। शोण। अलोह। दण्ड।
नडादिषु `शलङ्कु शलङ्कञ्च` इति पठते। तस्यायमर्थः- शलङ्कुशब्दः प्रत्ययमुत्पादयति शलङ्कभावं चापद्यते, तेन शालङ्कायन इति भवति। `पैलादिषु `इति। पैलादिषु शालङ्किशब्द इञन्तः पठते, तत उत्पन्नस्य युवप्रत्ययस्य लुग्यथा स्यात्-- `शालङ्कि पिता, शालङ्किः पुत्रः` इति। तत्र हि `ण्यक्षत्त्रियार्षञितः` 2|4|58 इत्यादेः सूत्रात् `यूनि लुक्` इति चानुवत्र्तते, तस्य शालङ्गिशब्दस्य तत्र पाठो न युज्यते-- नडादिषु पाठात् फका भवितव्यमिति कृत्वा, तत् कथमिञन्तस्तत्र पठत इति चोद्यम्। तस्य परिहारमाह-- `गोत्रविशेषे` इत्यादि। कौशिकं यद्गोत्रं तत्रैव शलङ्कुशब्दादाचार्यः फकं स्मरन्ति, ततोऽन्यत्र त्विञेव भवतीत्यदोषः। स त्विञ् बाह्वादेराकृतिगणत्वाल्लभ्यते। अभ्युपेत्यापि गोत्रमात्रे फको विधानम्। परिहारान्तरमाह-- `अथ वा` इत्यादि। इञो भाव उपलक्षणम्। शलङ्कभावस्यापि हि पैलादिपाठ एव ज्ञापकम्। पूर्वत्रापि परिहारे तस्य एव ज्ञापकं वेदितव्यम्। `अग्निशर्मन् वृषगणे` इति। अग्निशर्मञ्शब्दाद्वृषगणे गोत्रे फग्भवति-- आग्निशर्मायणः। अन्यत्राणेव-- आग्निशर्मः। `अमुष्य` इति पठते। ततर् निपातनाद्विभक्तेरलुक्-- आमुष्यायण इति। `कृष्णरणौ ब्राआहृणवाशिष्ठयोः` इति। कृष्णरणशब्दौ यथाक्रमं ब्राआहृणे वाशिष्ठे चाभिधेये फकमुत्पादयतः। काष्र्णायनो ब्राआहृणः। राणायणो वशिष्ठः। वशिष्ठगोत्र इत्यर्थः। अन्यत्रेञेव भवति-- काष्णः, राणिरिति। `क्रोष्टु क्रोष्टञ्च` इति पठते। क्रोष्टुशब्दः फकमुत्पादयति, क्रोष्टञ्चापद्यते -- क्रौष्टायनः॥
शलङ्कु शलङ्कं चेति । द्वे अपि प्रथमान्ते । शब्दरूपापेक्षया नपुंसकनिर्देशः । ठ्शलङ्कुऽ इत्येतच्छब्दरूपं शलङ्कं भवति, तद्रूपेण परिणमते इत्यर्थः । इञेवान्यत्रेति । बाह्वादेराकृतिगणत्वादिति भावः । अम्युपेत्यापि गोत्रमात्रे फको विधानम्, परिहारमाह---अथ वेति । इञो भावस्येति । शलङ्कभावापतेरप्युपलक्षणमेतत्, पूर्वत्र परिहारे तस्याः स एव पाठो ज्ञापको वेदितव्यः । अग्निशर्मन्वृषगण इति । अग्निशर्मन्शब्दः फकमुत्पादयति वृषगणे गोत्रे, आग्निशर्मायणो भवति वार्षगण्यश्चेद्, आग्निशर्मोऽन्यः । अमुष्येति पठ।ल्ते, तत्रादः शब्दे प्रातिपदिकमात्रे पठितव्ये विभक्त्यन्तस्य पाठादुत्पन्नेऽपि फकि लुग्न भवति । आमुष्यायणा, आमुष्यपुत्रिकेत्यलुग्विधावस्य ग्रहणं न कर्तव्यं भवति । कृष्णरणौ ब्राह्मणवासिष्ठयोरिति । कार्ष्णायनो भवति ब्राह्मणश्चेत्, कार्ष्णिरन्यः । राणायनो भवति वासिष्ठश्चेद्, राणिरन्यः । क्रोष्टुअ क्रोष्ट्ंअ चेति । क्रौष्टायनः ॥
सिद्धान्तकौमुदी
गोत्रे इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥
नडादिभ्यः फक् - नडादिभ्यः फक् । इञोऽपवादः । अनन्तरो नाडिरिति । अनन्तरापत्यस्य गोत्रत्वाऽभावात्फगभावे इञेवेत्यर्थः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!