॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|97
SK 1097
4|1|97
सुधातुरकङ् च  
SK 1097
सूत्रच्छेद:
सुधातुः - षष्ठ्येकवचनम् , अकङ् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
इञ्  [4|1|95] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) सुधातुः अकङ् (आदेशः), इञ् प्रत्ययः च |
सूत्रार्थ:
"तस्य अपत्यम्ः अस्मिन् अर्थे सुधातृ-शब्दात् इञ्-प्रत्ययः भवति, तथा सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति ।
प्राग्दीव्यतः अण् 4|1|83 इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन तस्य अपत्यम् 4|1|92 अस्मिन् अर्थे षष्ठीसमर्थ-"सुधातृ"-शब्दात् इञ्-प्रत्ययः भवति, तथा च सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति । यथा -
सुधातुः + इञ्
→ सुधातृ + इञ् [सुपो धातुप्रातिपदिकयोः 2|4|71 इति लुक्]
→ सुधात् अक् + इञ् [सुधातुरकङ् च 4|1|97 इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च 1|1|53 इति अन्त्यादेशः]
→ सौधातक् + इ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ सौधातकि

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - व्यास-वरुड-निषाद-चण्डाल-बिम्बानां च इति वक्तव्यम् । इत्युक्ते, व्यास, वरुड, निषाद, चण्डाल, तथा बिम्ब - एतेषाम् शब्दानाम् अपि अपत्यार्थे इञ्-प्रत्ययः तथा अकङ्-आदेशः भवति । यथा -
1) व्यास + इञ्
→ व्यास् + अकङ् + इञ् [ व्यास-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च 1|1|53 इति अन्त्यादेशः]
→ वै यास् + अकङ् + इ [न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् 7|3|3 इति यकारात् पूर्वम् ऐकारस्य आगमः]
→ वैयासकि
2) वरुड + इञ् → वारुडकि
3) निषाद + इञ् → नैषादकि
4) चण्डाल + इञ् → चाण्डालकि
5) बिम्ब + इञ् → बैम्बकि
One-line meaning in English
To indicate the meaning of "his/her offspring", the word सुधातृ gets the इञ् प्रत्यय and also the word gets the अकङ् आदेश.
काशिकावृत्तिः
सुधातृशब्दादपत्ये इञ् प्रत्ययो भवति, तत्संनियोगेन च तस्य अकङदेशो भवति। सुधातुरपत्यम् सौधातकिः। व्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम्। वैयासकिः। बारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः।
`व्यासवरुड` इत्यादि। व्यासादीनामिञ्, तत्सन्नियोगेन चाकङादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्रामिह चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः,तेन व्यासादीनामपि भविष्यति। `वैयासकिः` इति। `न य्वाभ्याम्` 7|3|3 इत्यादिनैज्वृद्धिप्रतिषेधौ। अथ बाह्वादिष्वेव सुधातृशब्दमधीत्य तत्र चाकङादेशः कस्मान्न कृतः, यथा-- अमितौजसः सलोपश्चेति गणे पठते? सूत्रे वा, न तत्र कश्चिल्लाघवाभावाद्विशेषो लभ्यत इति यत्किञ्चिदेतत्॥
व्यासरुडेत्यादि । वेदं व्यस्यतीति देवव्यासः, ठ्करण्यण्ऽ, तस्यैकदेशप्रयोगः---व्यास इति, भीमसेनो भीम इतिवत् । वरुडादयो जातिविशेषाः । ततर्हि वक्तव्यम् ? न वक्तव्यम् ; प्रकृत्यन्तराण्येवैतानि स्वार्थिककन्प्रत्ययन्तानि, अव्यविकन्यायेन च कन्, न हि तैर्वाक्यमेव भवति । व्यासशब्दादृषिवाचिनोऽपि बाह्वादेराकृतिगणत्वादिञ् भवति ॥
सिद्धान्तकौमुदी
चादिञ् । सुधातुरपत्यं सौधातकिः ॥ ।व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् (वार्तिकम्) ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सुधातुरकङ्च (1343) (5281 एकदेशिवार्तिकम्।। 1 ।।) - सुधातृव्यासयोः - (भाष्यम्) सुधातृव्यासयोरिति वक्तव्यम्। सौधातकिः, वैयासकिः शुकः। अत्यल्पमिदमुच्यते। सुधातृव्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम्। सौधातकिः, वैयासकिः शुकः, वारुडकिः, नैषादकिः, चाण्डालकिः, बैम्बकिः।। (सिद्धान्तभाष्यम्) तत्तर्हि वक्तव्यम्? न वक्तव्यम्। प्रकृत्यन्तराण्येवैतानि।।