॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|93
SK 1093
4|1|93
एको गोत्रे  
SK 1093
सूत्रच्छेद:
एकः - प्रथमैकवचनम् , गोत्रे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
गोत्रे एकः प्रत्ययः
सूत्रार्थ:
गोत्रापत्यस्य निर्देशार्थम् एकः एव प्रत्ययः भवति ।
"गोत्र" इति अपत्याधिकारविशिष्टा संज्ञा । अपत्यं पौत्रप्रभृति गोत्रम् 4|1|162 इत्यनेन पौत्रप्रभृतीनां "गोत्र"संज्ञा भवति । यथा - दशरथस्य गोत्रापत्यम् लवः, पाण्डोः गोत्रापत्यम् परीक्षितः - आदयः । एतादृशस्य गोत्रापत्यस्य निर्देशं कर्तुम् अपत्यविशिष्टप्रत्ययविधानम् करणीयम् अस्ति चेत् प्रत्यययोजनं कथं करणीयम् अस्मिन् विषये द्वौ नियमौ अनेन सूत्रेण उच्येते । उदाहरणम् एकं पश्यामश्चेत् स्पष्टं भवेत् -

गर्गः इति कश्चन अस्ति इति चिन्तयामः । तस्य अनन्तरापत्यस्य निर्देशं कर्तुम् अत इञ् 4|1|95 इत्यनेन गर्ग-शब्दात् इञ्-प्रत्ययं कृत्वा "गार्गि" इति प्रातिपदिकं सिद्ध्यति । गर्गस्य अपत्यं गार्गिः । इदानीम्, "गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्" अस्मिन् अर्थे प्रत्ययविधानम् इष्यते चेत् एकः प्रश्नः जायते - अयं प्रत्ययः "गार्गि" शब्दात् कर्तव्यः उत "गर्ग"शब्दात्? अस्य प्रश्नस्य उत्तरम् वर्तमानसूत्रेण दीयते । वर्तमानसूत्रेण एतत् उच्यते, यत् गोत्रापत्यस्य निर्देशार्थम् एकः एव प्रत्ययः भवेत्, न हि प्रत्ययद्वयं प्रत्ययत्रयं वा । इदानीम्, यदि "गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्" इत्यस्य निर्देशार्थम् "गार्गि" शब्दात् प्रत्ययः क्रियते, तर्हि निर्मिते तद्धितान्तशब्दे द्वौ प्रत्ययौ भवेताम्, यतः "गार्गि"शब्दे स्वयमेव एकः प्रत्ययः अस्ति। परन्तु वर्तमानसूत्रेण एतत् निषिध्यते, अतः "गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्" इत्यत्र "गर्ग" शब्दादेव प्रत्ययः कर्तव्यः इति वर्तमानसूत्रेण स्पष्टीभवति । यथा - गर्गस्य गोत्रापत्यम् गार्ग्यः । अत्र "गर्ग"शब्दात् गर्गादिभ्यः यञ् 4|1|105 इत्यनेन यञ्-प्रत्ययः विधीयते ।
अतः वर्तमानसूत्रेण उक्तः प्रथमः नियमः अयम् - गोत्रापत्यस्य निर्देशार्थम् प्रथमप्रकृतेः एव प्रत्ययः भवति । "गर्ग"शब्दात् प्रत्ययः भवेत् उत "गार्गि"शब्दात्, इति संशये प्राप्ते अत्र "प्रकृतेः स्वरूपं" नियम्यते ।

इदानीम् अनेन सूत्रेण उक्तं द्वितीयं नियमं पश्यामः । गर्गस्य पौत्रस्य ये पुत्रपौत्रादयः (इत्युक्ते - "गर्गस्य प्रपौत्रः / गर्गस्य प्रप्रपौत्रः / गर्गस्य प्रप्रप्रपौत्रः" एते सर्वे) तेऽपि अपत्यं पौत्रप्रभृति गोत्रम् 4|1|162 इत्यनेन गर्गस्य गोत्रापत्यानि एव । तर्हि एतेषाम् सर्वेषाम् अपत्यवाचिप्रत्ययेन निर्देशः कथं कर्तव्यः - इति प्रश्नः जायते । यथा , गर्गात् यः पञ्चमः, सः "गर्गस्य प्रप्रपौत्रः", तस्य च निर्देशार्थम् गर्गशब्दात् गर्गादिभ्यः यञ् 4|1|105 इत्यनेन "यञ्" प्रत्ययः "चतुर्वारं" भवेत् वा - इति संशयः उद्भवति । अस्यैव प्रश्नस्य उत्तरम् वर्तमानसूत्रेण दीयते - "गोत्रापत्यस्य निर्देशार्थम् "एकः" एव प्रत्ययः भवति" । अतः गर्गशब्दात् गर्गादिभ्यः यञ् 4|1|105 इत्यनेन यञ्-प्रत्ययं कृत्वा "गार्ग्य" इति यत् प्रातिपदिकं सिद्ध्यति, तेनैव "गर्गस्य प्रपौत्रः / गर्गस्य प्रप्रपौत्रः / गर्गस्य प्रप्रप्रपौत्रः" एतेषां सर्वेषाम् निर्देशः भवति - इति अनेन स्पष्टीभवति ।
अतः वर्तमानसूत्रेण उक्तः द्वितीयः नियमः अयम् - गोत्रापत्यस्य निर्देशार्थम् प्रथमप्रकृतेः "एकः" एव प्रत्ययः भवति । "गर्गस्य प्रप्रप्रप्रप्रौत्र" इत्यस्य निर्देशे कति प्रत्ययाः भवेयुः इति संशये जाते अत्र "प्रत्ययस्य स्वरूपं" नियम्यते ।

अनेन प्रकारेण वर्तमानसूत्रेण प्रकृतेः तथा प्रत्ययस्य - द्वयोः अपि स्वरूपम् नियम्यते । गोत्रसंज्ञकस्य निर्देशार्थम् प्रथमप्रकृतेः एव प्रत्ययः भवति, तथा एकः एव प्रत्ययः भवति, इति अस्य सूत्रस्य आशयः ।
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अपत्यं पौत्रप्रभृति गोत्रम् 4|1|162। तस्मन् विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्तिप्रस्ङ्गे नियमः क्रियते, गोत्रे एक एव प्रत्ययो भवति, सर्वे ऽपत्येन युज्यन्ते। अपतनादपत्यम्। यो ऽपि व्यवहितेन जनितः, सो ऽपि प्रथमप्रकृतेरपत्यं भवत्येव। गर्गस्य अपत्यं गार्गिः। गार्गेरपत्यं गार्ग्यः। तत्पुत्रो ऽपि व्यवहितेन जनितः, सो ऽपि प्रथमप्रकृतेरपत्यं भवत्येव। गर्गस्य अपत्यं गार्गिः। गार्गेरपत्यं गार्ग्यः। तत्पुत्रो ऽपि गार्ग्यः। सर्वस्मिन् व्यवहितजनिते ऽपि गोत्रापत्ये गर्गशब्दाद् यञेव भवति इति प्रत्ययो नियम्यते। अथवा गोत्रापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययम् उत्पादयति इति प्रकृतिर् नियम्यते। गार्ग्यः। नाडायनः।
`कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः`(व्या।प।6) इति परिभाषिकस्यैव गोत्रस्य ग्रहणम्। अपत्याधिकारे गोत्रग्रहणाच्च। अपत्यमात्रं हि लौकिकं गोत्रम्, तस्य यदीह ग्रहणमभिमतं स्यादेक इत्येवं ब्राऊयात्, लौकिकस्य गोत्रापत्याधिकारादेव लब्धत्वात्। तस्माद्गोत्रग्रहणाच्च पारिभाषिकस्य ग्रहणमत्याह--`अपत्यं पौत्रप्रभृति गोत्रम्` इति। `भेदेन` इत्यादि। भेदेन = विभागेन, अपत्यमपत्यं प्रति = प्रत्ययत्यम्। यावन्त्यपत्यानि सम्भवन्ति तेभ्योऽपि सर्वेभ्यः प्रत्ययानामुत्पत्तेः प्रसङ्गे प्राप्तौ सत्यामित्यर्थः। सर्वेषामपत्येन योगेन गर्गगार्गिगाग्र्यगाग्र्यायणानामन्यतमस्य यदपत्यं तत्सर्वेषामपत्यं भवतीति परमप्रकृतेरनन्तरगोत्रमुवलक्षणाः प्रत्ययाः प्राप्नुवन्ति। गर्गस्य यदपत्यं तत्सर्वेषां गार्गिगाग्र्यगाग्र्यायणानामपि सम्बन्धि भवति। तथा ह्रत्र यद्यपि गर्गस्यापत्यमिति गर्गशब्देन विग्रहः क्रियते, तथापि नायंनियमो लभ्यते-- गर्गशब्दादेवोत्पत्तिरिति, अपि तु कामचारः। ततश्च यदा गर्गशब्दादुत्पत्तिर्भवति तदा गर्गादित्वाद्यञ् 4|1|105 , यदा गार्गिशब्दात् तदा `यञिञोश्च` 4|1|101 इति फक्, यदापि गाग्र्यशब्दात् तदापि स एव फक्, यदा गाग्र्यायमशब्दात् तदा `अत इञ्` 4|1|95 । एवं प्रत्यपत्यं विभागेन प्रत्ययानामुत्पत्तौ प्रसक्तायामनेन नियमः क्रियते-- `एक एव प्रत्ययो भवति` इति। एतेन प्रत्ययनियम इति दर्शयति। प्रत्ययनियमस्त्वेकस्त्वेकशब्दस्य प्रत्ययशब्दसामानाधिकरण्याल्लभ्यते। एकशब्दश्चास्मिन्नियमे संख्यावचनो वेदितव्यः यथा--एकः,द्वौ, बहव इति। एवकारेण द्वयादिव्यवच्छेदः क्रियते-- एक एव प्रत्ययो भवति,न द्वौ, नापि बहव इति। स चैकः प्रत्ययो भवन्नेकग्रहणात् परमप्रकृतेरेव भवतीति सामथ्र्यादुक्तं भवतीति। यदि हि गार्गिशब्दादुत्पद्येत्, द्वौ स्याताम्-- इञ्फकौ, नैकः? अथ गाग्र्यशब्दादेवमपि द्वावेव-- यञ्फकौ? अथ गाग्र्यायणशब्दात्, त्रयः स्युः-- यञ्फगिञः। तस्मान्मूलप्रकृतेरेवोत्पत्तावेकः प्रत्ययः सिध्यतीत्येकग्रहणं कुर्वता सामथ्र्यान्मूलप्रकृतेरेव गोत्रप्रत्ययस्योत्पत्तिरुक्ता भवति। ननु चोत्पादयितैवापत्येन सम्बध्यते, एवं हि लोके दृश्यते-- पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित् पृच्छति-- कस्यायमिति? स आह-- देवदत्तस्येति, तेनोत्पादयितारं व्यपदिशति, नात्मानम्? ततः सर्वेषामपत्येन योगाभावात् प्रत्यपत्यं भेदेन प्रत्ययोत्पत्तिप्रसङ्गो नास्त्येवेति निवर्त्त्याभावादिदं नियमार्थं नारब्धमित्यत आह-- `सर्वेऽपत्येन युज्यन्ते` इति।अत्रैवोपपत्तिमाह-- `अपतनादपत्यम्` इति। यन्निमित्तं हि यसय् पापेष्वपतनं तदपतनात् तस्यापत्यं भवति। तस्माद्यो व्यवहितेन जनितः सोऽपि परमप्रकृतिवाच्यस्यार्थस्यापत्यं भवति,तस्यापि येनापतनात्। परमप्रकृतिग्रहणञ्चोपलक्षणं वेदितव्यम्। इतरप्रकृतिवाच्यस्यापि ह्रर्थस्याव्यवहितजनितोऽपत्यं भवत्येव। यत्पुनरुक्तम्-- कस्यायमित्युक्ते उत्पादयितारं व्यपदिशति, नात्मानमिति, न तेनोत्पादयितुरेवापत्येन योगः, शक्यते प्रतिपादयितुम्। यस्मान्न तत्र यस्य तेनापतनं स जिज्ञासितः स्यात्, किं तर्हि? य उत्पादयितारं व्यपदिशति नात्मानम्। यदि यस्य तु तेनापतनं स जिज्ञासितः स्यात्, तदाऽ‌ऽत्मानमपि व्यपदिशेदेव। यदि च सर्वेऽपत्येन न युज्येरन्, `अपत्यं पौत्रप्रभृति गोत्रम्` 4|1|162 इति योऽयमपत्यपौत्रप्रभृतिशब्दयोः सामानाधिकरण्येन निर्देशः, स नोपपद्यते; यदपेक्षया पौत्रादिव्यपदेशमासादयन्ति पुमांसस्तं प्रति तेषामनपत्यत्वात्। तस्मादतोऽपि निर्देशात्-- सर्वेऽपत्येन युज्यन्त इति विज्ञायते। `तत्पुत्त्रोऽपि गार्ग्यः` इति। अपिशब्दात् तत्पौत्रादिरपि। किं पुनः कारणं तत्पुत्त्रोऽपि गाग्र्य इत्याह-- `सर्वस्मिन्` इत्यादि। यदपि गार्ग्यायण इत्यत्रैकेन व्यवहितेन जनितं गोत्रापत्यं यस्मात् तत्रापि गर्गशब्दाद्यञेव भवति, तस्मात् तत्पुत्त्रोऽपि गाग्र्यो भवति। गर्गशब्दादित्यनेन परमप्रकृतेर्भवतीति दर्शयति। एतच्चैकग्रहणाल्लभ्यत इत्युक्तम्।`अथ वा` इत्यादिना प्रकृतिनियमं दर्शयति प्रकृतिनियमस्त्वेकशब्दस्य प्रकृतिसामानाधिकरण्याल्लभ्यते। एकशब्दोऽत्र प्राथम्यनियमे वत्र्तत इति वेदितव्यम्, यथा-- वर्गाणां प्रथमद्वितीयाः संवृतकण्ठाः आआसानुप्रदाना अघोषा एकेऽल्पप्राणा इतरे सर्वे महाप्राणा इति। अत्र हि प्रथमेऽल्पप्राणा इति गम्यते। एकशब्दस्येदं विवरणम्-- `प्रथमा प्रकृतिः` इति। का च प्रथमा? या परमप्रकृतिरप्रत्ययान्ता `गर्ग नड` इत्येवमादिका। `प्रकृतिर्नियम्यते` इति। प्रथमैव प्रकृतिः प्रत्ययमुत्पादयति, नाप्रथमा-- गार्गिगाग्र्यगाग्र्यायणप्रभृतिशब्दाः प्रत्ययान्ताः। गर्गस्यापत्यं गार्ग्यः, तत्पुत्त्रोऽपि गार्ग्यः। नडस्यापत्यं नाडायनः, तत्पुत्त्रोऽपि नाडायनः। सर्वत्र व्यवहितजनितेऽपि गोत्रापत्ये प्रथमा प्रकृतिः प्रत्ययमुत्पादयति॥
एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानसाधारणवाची, अन्यार्थे तावद्---ठेकान्याभ्यां समर्थाभ्याम्ऽ, ठ्प्रजामेका रक्षत्यूर्जमेकाऽ, ठेकान् बन्धुरपरान्निरासुःऽ, ठित्येके मन्यन्तेऽ, ठ्यजुष्येकेषाम्ऽ इति; केचित्वनयोः प्रयोगयोः केचिच्छब्दपर्याय एकशब्द इत्याहुः । ठेकः पार्थो धनुष्मताम्ऽ इति प्रधानार्थे । ठाद्यन्तवदेकस्मिन्ऽ, ठेकहलादौऽ, ठेकहल्मध्येऽ इत्यसहायार्थे । ठेको द्वौ बहवःऽ इति सङ्ख्यार्थे । ठेकेऽल्पप्राणः ।ऽ इति प्रथमार्थे । ठ्तेनैकदिक्ऽ इति समानार्थे । ठ्देवदतयज्ञदतावेकधनौऽ इति साधारणार्थे । तत्र सङ्ख्यावचनः साधारणवचनः, प्रथमवचनो वा गृह्यते; अर्थान्तराणामसम्भवात् । गोत्रं पारिभाषिकम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात्, अपत्याधिकारे गोत्रग्रहणाच्च । किमर्थमिदमुच्यते, पौत्रप्रभृतावपत्ये विवक्षिते मूलप्रकृतेरुपरवादेरेव प्रत्ययो यथा स्याद्, औपगवादेः प्रत्ययान्तान्मा भूदिति । नैतदस्ति प्रयोजनम्, सन्विधिवदेतद्भविष्यति, तद्यथा---धातोर्विधीयमानः सन् सनन्तान्न भवति, तत् कस्य हेतोः ? आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न च सनि विधीयमाने सनन्तो धातुः सम्भवति, तद्वदिहाप्यपत्यप्रत्यये विधीयमानापत्यप्रत्ययान्ता प्रकृतिः सम्भवतीति ततः प्रत्ययो न भविष्यति ? विषम उपन्यासः; एकः सन् प्रत्ययः, विधायकं च लक्षणमेकमेव तत्र युक्तम्, न तस्मिन्विधीयमाने तदन्ता प्रकृतिः सम्भवतीति । इह पुनः ठ्तस्यापत्यम्ऽ ठत इञ्ऽ ठ्यञिञोश्चऽ इति बहूनि लक्षणानि, प्रत्ययाश्च बहवः; तत्र कस्मिश्चित्प्रत्यये विधीयमाने प्रत्ययान्तरेण तदन्ता प्रकृतिः सम्भवत्येव, तथा च गुपादीनां सनः सन् भवति---जुगुप्सिषते इति ? किं पुनः स्याद्यद्येतन्नारभ्येत ? उच्यते; इह केचिन्मन्यन्ते---पुत्रशब्दपर्यायोऽपत्यशब्दः; निघण्टुअषु तथा पाठाल्लोके च दृष्टत्वात् । तद्यथा पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित्पृच्छति---कस्य पुत्रोऽयमिति, कस्यापत्यमिति ? स देवदतस्य यज्ञदतस्य वेत्युत्पादयितारं व्यपदिशति, नात्मानम्, ततश्च यथा पितामहं प्रति पुत्त्रो न भवति तथापत्यमिति । उत्पादयितैवैकोऽपत्येन युज्यते, न तु पितामहादयोऽपीति । अन्ये तु---क्रियानिमितकोऽपत्यशब्दः, न पतन्त्यनेनेत्यपत्यमिति औणादिको यत्प्रत्ययः, यस्य च येनापतनं ततस्यापत्यम् । व्यवहितजनितोऽपि पौत्रादिः पितामहादेरपतनहेतुर्भवति, श्रूयते हि---ठ्जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येणर्षैभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः, एष वा अनृणो यः पुत्रीऽ इति, एतेन पुत्रमुत्पाद्य पितृणामनृणो भवतीति प्रतिपादनात् पुत्रोत्पादितया प्रजया पतृणामुपिकारी दृश्यते । स्मर्यते च--- पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । इतिहासेषु च जारत्कारवादिषु महती वार्ता---व्यवहितजनितोऽप्युपकारक इति । सूत्रकारश्च शब्दविदां मूर्द्धाभिषिक्तः सूत्रयति---ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, ततो विज्ञायते क्रियानिमितकोऽप्यपत्यशब्द इति; अन्यथा यथा पौत्रप्रभृतिः पुत्र इत्यनुपपन्नं तादृगेव तत्स्यात् । एवं सति साक्षात्परम्परया वा यस्य य उत्पाद्यः स तं प्रत्यपत्यामिति सर्वेऽपि पितामहादयोऽप्यपत्येन युज्यन्ते, न तूत्पादयितैवेति । तत्राद्ये पक्षे यद्येतन्नारभ्येत, ततस्तत्र तत्रापत्ये ततत्पितृवचनात्स स प्रत्ययः स्यात्, तद्यथा---उपगोरौपगवः, तस्यौपगविः, तस्यौपगवायनः । एवं शततमेऽपत्ये एकोनशतमपत्यप्रत्ययाः---इत्यनिष्ट्ंअ प्राप्नोति, इष्ट्ंअ च न सिद्ध्यति---औपगव इति, तृतीयादेरुपगुं प्रत्यनपत्यत्वात् । द्वितीये तूपगोः पञ्चमः पूर्वेषां चतुर्णामपत्यं ततो यदोपगोः प्रत्ययस्तदौपगव इतीष्ट्ंअ तावत्सिद्ध्यति; अनिष्टमपि च प्राप्नोति, तच्चानिष्टमनियतमौपगविः, तत औपगवायनः, तत औपगवायनिरिति । पञ्चमे त्रीण्यनिष्टानि, षष्ठे चत्वारीत्येवं यावतिथमपत्यमभिधित्सितम्, तावन्ति द्व्यूनान्यनिष्टानि प्राप्नुवन्ति, तद्यथा---शततमेऽष्टौ नवतिश्चेति । एवं स्थिते इदमारभ्यते । आरभ्यमाणेऽप्येतस्मिन्यदि प्रथमः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्याद्, नियमार्थं वा ? कथं चेदं विध्यर्थं कथं वा नियमार्थम् ? यदि गोत्रशब्देन पौत्रप्रभृत्यपत्यसमुदाय एकैकमपत्यमभिधीयते ततो विध्यर्थम्, तर्हि तथा नियमार्थः सम्भवति, एकस्मिन्नपत्येऽनेकप्रत्ययप्रसङ्गस्याभावाद् । न तावदेकस्मिन्प्रयोगे एकस्याः प्रकृतेरनेकप्रत्ययप्रसङ्गः; एकेनैवोक्तत्वात्त्स्यार्थस्य । नापि प्रयोगभेदेन नानाप्रकृतिभ्यो नानाप्रत्ययप्रसङ्गः, सर्वदा स्वपितृवचनादेव प्रसङ्गादिति परमप्रकृतेस्तृतीयादावपत्येऽप्राप्तः, एवमौपगवाच्चतुर्थादाविति, ततः किं न विधीयते वचनव्यक्तिभेदात् ? एवं ह्यत्र वचनं व्यज्यते---गोत्र एकः प्रत्ययो भवति, यत एक एव प्रत्ययः कर्तुं शक्यते, तत एव प्रत्ययो भवतीत्यर्थः । एकग्रहणसामर्थ्याच्चायमर्थो लभ्यते । ननु विधीयमानेऽपि प्रत्यये प्रकृतिप्रत्ययावसम्बन्धौ स्याताम् ? वचनसामर्थ्यादपत्यापत्यस्यापत्यत्वोपचारात् प्रत्ययो भविष्यतीत्यदोषः । मुख्येऽपत्ये चरितार्थः प्रत्ययो न स्यादिति विधातव्यमपि, अस्मिन्पक्षे सर्वेष्वौपगव इतीष्ट्ंअ सिद्ध्यति, प्रत्ययमालाप्रसङ्गस्तदवस्थ एव । न ह्यनेन ततत्पितृवचनात्प्राप्तः प्रत्ययः प्रतिषिद्ध्यते । तथा पञ्चमेऽपत्ये उपगुशब्दादनेन प्रत्यये विहिते तस्यापत्यमिति षष्ठ औपगविः स्यात् । यदा तु ठपत्यं पौत्रप्रभृतिगोत्रम्ऽ इत्यपत्यशब्देन पौत्रप्रभृत्यसमुदायं लक्षयित्वा तस्यैव गोत्रसंज्ञा विधीयते, एकैकस्मिन्नपत्ये गोत्रशब्दप्रयोगः, समुदायेषु वृताः शब्दा अवयवेष्वपीति न्यायात् । अत्रत्येन वा गोत्रशब्देनावयवधर्मेण समुदायव्यपदेशात्पौत्रप्रभृत्यपत्यसमुदायोऽभीधीयते तदा नियमार्थम्---गोत्रसमुदाये एक एव प्रत्ययो भवतीति । यद्यप्येकैकस्मिन्नपत्ये एकैकः प्रत्ययः प्राप्नोति, तथापि पौत्र एकस्तदपत्ये चापर इति सकलनिरूपणे समुदाये बहवः प्रत्ययाः कृताः स्युरिति नियम उपपद्यते । अस्मिन्पक्षे दोषः---अनन्तरापत्यप्रत्ययान्तातृतीये प्रत्ययः प्राप्नोति, गोत्रशब्दोपादानेन हि नियमः क्रियते---गोत्र एक एवेति, ततश्च गोत्रेऽनेकः प्रत्ययो मा भूत् । अनन्तर एकस्तृतीये चापर इत्येवमनेकः कस्मान्न स्यात् ? एवमपि गोत्रे एक एव हि कृतो भवति । अथ वा---गोत्रसमुदाये एव एवेत्यनेन किं क्रियते ? तृतीयादेश्चतुर्थादौ प्राप्तः प्रतिषिध्यते । यदि तृतीयादेः स्यात्समुदायेऽनेकः प्रत्ययः कृतः स्यादिति । यस्त्वनन्तरस्तृतीये प्राप्तः सोऽभ्यनुज्ञायते---एक एवेतीतरव्यावृतौ नियमेषु तात्पर्यम् । ततश्च यतः प्रत्यये क्रियमाणे समुदायेऽनेकः प्रत्ययः कृतो भवति । ततो न भवतीत्येव वचनार्थो भवति । एवं चतुथस्यापत्यप्रत्ययेनाभिधानं न प्राप्नोति, द्वितीयादुत्पन्नस्तृतीयमेवाचष्टे न तृतीयादुत्पद्यत इति, किन्तु औपगवेरपत्यमिति वाक्यमेव । पञ्चमादेस्तु वाक्येनाप्यभिधानं न प्राप्नोति, न हि ततत्पितृवचनः कश्चिदपत्यप्रत्ययान्तः शब्दोऽस्ति येन विगृह्यएत । परमवकृतेश्च तृतीयादौ न कुत्रचित्प्रत्ययः प्राप्नोति, ओयोगात् । तदेवमस्मिन्पक्षे परमप्रकृतेश्चोत्पतिर्वक्तव्या, अनन्तराच्च तृतीये प्राप्तस्य प्रतिषेधो वक्तव्यः । स्यादेतत्---न परमप्रकृतेरुत्पत्तिर्वक्तव्या, अभेदोपचारेणैव सिद्धेः । अभेदोपचारश्चोपग्वौपगवयोरौपगवतदपत्ययोर्वा । तदेवं शततमेऽप्यपत्येऽभेदोपचारपरम्परया औपगव इत्यभिधानं सिध्यति, न चैवमभेदोपचारेणैवेष्टस्य सिद्धेः सूत्रस्य वैयर्थ्यम्, भेदविवक्षायां प्रत्ययमालाप्रसङ्गनिवृत्यर्थत्वादिति ? एवमप्यनन्तरस्य तृतोयस्य च भेदविवक्षायां तृतीय औपगविः स्यात्, तथाऽनन्तरे तृतीयादौ च यत्र प्रत्ययो भिद्यते, यथा---गर्गादौ, तत्राप्यनिष्टप्रसङ्गः । यदि तावद् गार्ग्ये गर्गापचारस्तदा तदपत्यमपि गार्गिः स्याद्, गार्ग्यश्चेष्यते । अथापि गर्गेस्तदपत्यस्य चाभेदोपचारः, एवमपि गार्गिः स्यादितीत्यादौ विषये दोषवानेवाभेदोपचारः । तदेवं प्रथमपक्षे विधौ नियमे च दोषप्रसङ्गाद् द्वितीयः पक्ष आश्रीयते, तत्रापि नियमः । यद्यप्येकैकस्मिन्प्रयोगे एकस्याः प्रकृतेरेक एव प्रत्ययः प्राप्नोति, तथाप्युपगोः पञ्चमे पूर्वाभ्यश्चतसृभ्यः प्रकृतिभ्यः प्रयोगभेदेन नानाप्रत्ययप्रसङ्गे नियमः क्रियते---एव एवेति । तदिदमुक्तम्---भेदेन प्रत्ययप्रसङ्गे नियमः क्रियते । ननु न ज्ञायते--क एवो भवतीति, यो वा परमप्रकृतेर्यो वा प्रत्ययान्तादिति ? नन्वेक इत्युच्यते, यदि च प्रत्ययान्तात्प्राप्तः प्रत्ययः स्यादनेकः कृतः स्यात् । क्व ? न तावत्पञ्चमे; पूर्वेषां प्रत्ययानामस्मिन्प्रयोगे प्रसङ्गोऽपत्यान्तरविषयत्वात् । अथ गोत्रसमुदाये केनासौ निवार्येत ? न तावदनेनैव, न हि गोत्रसमुदायो गोत्रग्रहणेन गृह्यते । अथापि गृह्यएत, एवमपि न ज्ञायते---यो वा परमप्रकृतेः, यो वाऽनन्तरादिति ? यदि पुनर्गोत्रग्रहणं न क्रियते, क्रियमाणं वाऽपत्यमात्रपरं विज्ञायते, न स्यादेष दोषः; अपत्ये समुदाये एक एवेति नियमात् । अपत्याधिकारे गोत्रग्रहणात्वेष दोषो जायते ? नैष दोषः; अपत्यमिति वर्तते, गोत्रेऽपत्ये एक एवापत्यप्रत्ययो भवतीति वचनव्यक्तिः । यदि च प्रत्ययान्तात्प्रत्ययः स्यादपत्यप्रत्ययोऽनेको गोत्रे कृतः स्यात्, सामर्थ्येन वा प्रत्ययो विशेष्यते---गोत्राभिधाने समर्थानां मध्ये एक एवेति । यदि च प्रत्ययान्तात् प्रत्ययः स्याद् गोत्राभिदानसमर्थोऽनेकः कृतः स्यात्प्रथमस्यापि समर्थत्वात् । यद्यप्यस्मिन्प्रयोगेऽपत्यान्तरे वर्तते पञ्चमं प्रत्यपि सामर्थ्यं तावदस्ति, यदि वा ठ्तस्यापत्यम्ऽ इत्यादिलक्षणैरेक एव प्रत्ययः कर्तव्यः, क्व ? गोत्रे, यस्मिन्प्रत्यये गोत्रम्भिदित्सितं तत्रेत्यर्थः । प्रत्ययान्ताच्च प्रत्यये तस्मिन्नेव प्रयोगे प्रकृतिरूपसम्पादनायापि तावदनेक कृतः स्यात् । यदि वा प्रथमवचन एकशब्दः, कश्च प्रथमः ? यमकृत्वा प्रत्ययान्तरं कर्तुं न शक्यते । साधारणवचनो वा, अपत्याधिकाराच्च यः सर्वापत्यसाधारणः स एव गोत्रे भवतीति, गर्गशब्दाद्यञेव भवतीति । गर्गशब्दाद्यो यञ् प्राप्तः स एव भवति, न प्रकृत्यन्तरेभ्यः प्राप्ताः प्रत्यया इत्यर्थः, तदाह---प्रत्ययो नियम्यत इति । प्रत्ययान्तरं वार्यत इत्यर्थः । एतेन प्रकृतिर्नियम्यते इत्यपि व्याख्यातम् । अथ वेत्यादि । अस्मिन्पक्षे प्रथमवचन एव शब्द इति दर्शितम् । प्रथमा प्रकृतिरिति । सूत्रे तु शब्दापेक्षया पुंल्लिङ्गनिर्देश इति दर्शितम् । एक एव शब्द इति । अथ वा---अस्मिन्पक्षे साधारणवचन एकशब्दः परमप्रकृतिश्च सर्वप्रत्ययसाधारणी, सङ्ख्यावचनो वा प्रथमातिक्रमे कारणाभावात्परमप्रकृतिरेकशब्देन गृह्यते । अनयोः पक्षयोः प्रथमा प्रकृतिरिति । एकशब्दस्यार्थतो विवरणं द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः ॥ गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ 1 ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च । मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ 2 ॥पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वाजीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात्, चतुर्थे फक् इति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यमम् ॥
एको गोत्रे - एको गोत्रे । संख्याविशेषोपादाने तदितरसङ्ख्याव्यवच्छेदस्य स्वभावसिद्धत्वादेक एवेति गम्यते । अपत्याधिकारात्प्रत्ययाधिकाराच्चापत्यप्रत्यय इति तद्विशेष्यलाभः । तदाह — गोत्रे एक एवापत्यप्रत्ययः स्यादिति । औपगव इति । उपगोर्गोत्रापत्येतस्यापत्य॑मित्यण् । गाग्र्य इति । गर्गस्य गोत्रापत्ये "गर्गादिभ्य" इति यञ् । नाडायन इति । नडस्य गोत्रापत्ये "नडादिभ्यः" इति फक् ।गोत्र एक एव प्रत्ययः स्या॑दित्येबोक्तौ त्वनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिञ्प्रत्ययो न निवार्येत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्येत । अतोऽपत्यग्रहणमित्याहुः । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाऽप्रसक्तेव्र्यर्थमिदं सूत्रमिति चेत्, मैवम्-अपत्यशब्दो हि पुत्र एव रूढ इत्येक पक्षः । पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतत्अपत्यं पौत्रप्रभृती॑ति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुं प्रत्यपत्यत्वाऽभावात्तस्यापत्य॑मित्यण्न सम्भवति । ततश्च उपगुपुत्रे वाच्येतस्यापत्य॑मित्यणा औपगवशब्दे व्युत्पादिते सति, औपगवस्यापत्ये वस्तुतः उपगोस्तृतीया गोत्रे विवक्षिते औपगवशब्दात्अत इ॑ञिति इञि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवञ्च उपगोस्तृतीये विवक्षिते उपगोरण् औपगवादिञिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात् । तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्यनिष्ट एव । तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । सच वस्तुतोऽणेव, न त्विञ्, अदन्तत्वाऽभावात् । विहिते च तस्मिन्नौपगवादिञपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वमाला निवर्तते । एवमुपगोश्चतुर्थे विविक्षिते तस्य उपगुं तत्पुत्रं च प्रत्ययपत्यत्वाऽभावात् पौत्रं प्रत्येवापत्यत्वादौपगविशब्दात्यञिञोश्चेति फकि प्रकृतित्रयादनिष्टा "औपगवायन" इति प्रत्ययत्रयमाला स्यात् । उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिञिऔपगवायनि॑रित्येवं प्रकृतिचतुष्टयमाला स्यात् । षष्ठे तु औपगवायनिशब्दात्फकि "औपगवायनायन" इत्येवं प्रकृतिपञ्चकात्पञ्च प्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रतृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः । अत्र तृतीयप्रभृति कस्मश्चिद्गोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् "एको गोत्रे" इत्यणेव भवति, नतु इञादि । यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणस्तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि विवक्षितेषुतस्यापत्य॑मित्यणि औपगव इतीष्टं सिध्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययोनिष्टः प्रसज्येत । एवमुपगोश्चतुर्थे विवक्षिते सिद्धेऽपि उपगोरणि औपगवे, तस्मादिञि औपगविः, तस्मात्फकि औपगवायन इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत । तत्रापि उपगोर्मूलप्रकृतेरणिष्ट एव । इञ्फकौ तु प्रत्ययावनिष्टौ । तथा उपगोश्चतुर्थे विवक्षिते द्वितीयस्मादेकोऽनिष्टप्रत्ययः, तृतीयस्मादन्य इत्येवं प्रकृतिद्वयादनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवं पञ्चमे प्रकृतित्रयात्रयः प्रत्ययाः । षष्ठे प्रकृ-तिचतुष्टय#आच्चत्वारः प्रत्यया इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः । तत्र "एको गोत्रे" इति नियमविधिः — ॒गोत्रे एक एव प्रत्ययः स्या॑दिति । तत्रापि प्रथमातिक्रमे कारणाऽभावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूत्रे एकशब्दः प्रथमपर्यायः ।एके मुख्यान्यकेवलाः॑ इत्यमरः । मुखे भवो मुख्यः=प्रथमः ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा॑ इति कोशान्तरम् । तथाच मूलप्रकृतेरेव गोत्रे विवक्षिते स्वयोग्यप्रत्ययलाभ इति व्याख्यान्तरम् । गोत्रे एकः प्रथम एवशब्दः प्रत्ययत्पादक इति । तदेतत्सर्वं श्लोकद्वयेन संगृह्णाति — गोत्रे स्वैकोनेति । अत्र प्रथमश्लोकान्ते श्रुतं "प्रसज्यते" इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि संबध्यते । तत्र स्वं=गोत्रं मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया एकोनसङ्ख्याकानामनिष्टप्रत्ययानां परम्परैवोक्तरीत्या प्रसज्येत, नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यतीत्यर्थः ।यद्वेति । स्वं=गोत्रं, तत् मूलपुरुषोपग्वक्षया यत्सङ्ख्याकं तदपेक्षया द्व्यूनसङ्ख्याकप्रकृतिभ्यस्तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः । ननु कथमिदं पक्षद्वयमित्यत आह — अपत्यमित्यादि मतभेदेनेत्यन्तम् ।पुत्र एवापत्य॑मिति पक्षे प्रथमः पक्ष उन्मिषथतीति,पुत्रपौत्रादि साधारणोऽपत्यशब्द॑ इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः । तद्धान्यै इति । तस्य=उक्तप्रकाराभ्यामनिष्टोत्पादनस्य हानिः=निवृत्तिः, तदर्थमिदमित्यर्थः । तथोत्तरमिति ।गोत्राद्यून्यस्त्रिया॑मित्युत्तरसूत्रमपि तथा योज्यमित्यर्थः । तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयति — पितुरेवेत्यादिना । औपगवादिञ्स्यादिति ।अत इञ् इत्यनेने॑ति शेषः । औपगवादेव इञ् स्यन्नतूपगोरणित्यर्थः, तृतीयस्य उपगुं प्रत्यपत्यत्वाऽभावादिति भावः । चतुर्थे त्वित्यतः पूर्वम्उपगो॑रिति शेषः । अजीवज्ज्येष्ठे इति । जीवन् ज्येष्ठो यस्येति विग्रहः । जीवति तु ज्येष्ठे चतुर्थस्यभ्रातरि च ज्यायसी॑ति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः । औपगवेः फगिति ।यञिञोश्चेनेने॑ति शेषः । एकोनेति । एकोनशतात्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः । अथाऽपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्चयति — पितामहादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात्अपत्यं पौत्रप्रभृति॑ इति सूत्रस्वरसाच्च बोध्यम् । इष्टे सिद्धेऽपीति । तृतीयादीनामप्यपत्यत्वेन तत्रतस्यापत्य॑मित्यणो निर्बाधत्वादिति भावः । तत इति । इञन्तादित्यर्थः । अष्टनवतेरिति । "प्रकृतिभ्यः" इति शेषः । अनिष्टप्रत्ययाः स्युरिति ।अष्टनवति॑रिति शेषः । नियमार्थमिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपक्षे, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियञा गाग्र्यशब्दस्येष्टस्य सिद्धावपि गर्गादिञि ततः फिञित्येवं प्रत्ययपरम्पराप्तनिष्टा प्राप्नोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः । एवमुत्तरसूत्रेऽप्यूह्रमिति । तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते ।
एको गोत्रे - एको गोत्रो ।गोत्रे॑इति जात्यपेक्षया एकवचनम् । एकशब्दः सङ्ख्यावाची ।गोत्रेऽभिधित्सितेऽपत्यत्वबोधकप्रत्यय एक एव स्या॑दित्युक्तेगोत्रापत्ये प्रथम एव शब्दः प्रत्ययं लभते नान्यः । यदि त्वनन्तरापत्यप्रत्ययान्तादपि प्रत्ययः स्यात्तर्हि गोत्रापत्ये एक एव प्रत्ययो न कृतः स्यात् । इत्थं चअपत्यप्रत्ययान्तात्प्रतिषेधोवाच्यः॑इति वार्तिकार्थोऽप्यनेन सङ्गृहित इत्याशयेन व्याचष्टे — -गोत्रे एव एवेति । अपत्यप्रत्यय इति । एतच्चाधिकारल्लब्धम् । अन्ये तु — एकशब्दः प्रथमपर्यायः, प्रथमश्चापत्यप्रत्ययशून्यः । तथा चप्रथमा प्रकृतिर्गोत्रे अपत्यप्रत्ययं लभते॑इति सूत्रार्थ व्याचक्षते । तत्क्लिष्टम् ।अस्यां पङ्क्तावेकमानये॑त्युक्तेप्रथम॑मिति प्राथम्यार्थस्याऽप्रतीतेः । वस्तुतस्तुप्रथमादित्यधिकाराद्गोत्रे प्रथमादेव प्रातिपदिकादपत्यप्रत्ययः॑इति व्याख्यायैकग्रहणमिह त्यक्तुं शवयमित्याहुः । औपगव इथि । उपगुशब्द एव प्रत्ययं लभते, न त्वौपगवशब्दः इतिगोत्रापत्येऽप्यनन्तरापत्य इवाऽणेव भवति, न त्विञ् । गग्र्य इति । गोत्रापत्येगर्गादिभ्योय॑ञिति विशिष्य विधानादनन्तरापत्य इवात्रअत इञ् न भवति, किं तु यञेव । स च गाग्र्यस्यापत्येऽपि भवति, नत्वत्र यञन्तात्फक्,एको गोत्रे॑इति नियमात् । नाडायण इति ।नडादिभ्यः फ॑गिति गोत्रापत्ये विधानादत्रापिअत इञ॑न भवति, किंतु फगेव, स च नाडायनस्यापत्येऽपि भवति, न तु फगन्तादिञ्, उक्तनियमात् । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाऽप्रसक्तेव्यर्थमिदं सूत्रमित्याशङ्क्य सूत्रारम्भफलं मतभेदेन व्यवस्थापयति — गोत्रे स्वैकोनेति ।स्व=गोत्रं, तदपेक्षया एकोनसङ्ख्यानां, तृतीये द्वयोः परम्परा, चतुर्ये त्रयाणां, पञ्चमे तु चतुर्णा॑मित्यादिपरम्परा प्रसज्यत इत्यर्थः । तथाहि — उपगोस्तृतीये अणिञोः परम्परा, चतुर्थे त्वणिञ् फगिञाम्, । यद्यप्यत्रयस्येति च॑ इति लोपेनाऽणादेरसत्त्वात्अणिञादीनां परम्परे॑त्युक्तिर्न सङ्गच्छते, तथापिअणन्तादिञुत्पद्यते, इञन्तत्फगि॑त्युपत्तिमात्राभिप्रायेण प्रत्ययपरम्पराभिधानं बोध्यम् । स्वद्व्यूनसङ्ख्येभ्य इति । स्वं=गोत्रं, तदपेक्षया द्व्यूनसङ्ख्येभ्यः प्रातिपदिकेभ्यः, तृतीये एकस्मादनिष्ठोत्पत्तिः, चतुर्थे द्वाभ्यां, पञ्चमे त्रिभ्यः, इत्यादीत्यर्थः । अपत्यं पितुरेवेति । तता चामरः — ॒आत्मजस्तनयःस सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयो#ः समे॑इति । मुख्यमतमाह — -ततः प्रातामिति । पित्रपेक्षया ये प्राञ्चः पितामहप्रपितामदादयस्तेषामपीत्यर्थः । अत्रायमाशयः — -अपत्यशब्दः कियानिमित्तो न त्वात्मजपर्यायः,न पतन्त्यनेनेत्यपत्य॑मिति व्युत्पत्तेःपङ्क्तिर्विशती॑ति सूत्रे भाष्यकृता दर्सितत्वात्, बाहुलकात्करणे यत्प्रत्ययः ।यन्निमित्तं यस्यापतनं तत्तस्यापत्य॑मिति फलितोऽर्थः । तथा चपौत्रादिरपि पितामहादीनामपतनहेतु॑रिति तेषामपत्यत्वं भवति । प्रसिद्धं च व्यवहितोऽपि पितामहादीनामुद्धर्तेति जरत्कार्वाद्युपाख्यानेषु ।अपत्यं पौत्रप्रभृती॑ति सूत्रमप्यत्रानुगुणम् । आद्यपक्षे हिअपत्यमिवापत्य॑मिति गौणी वृत्तिराश्रयणीया स्यात् । अमरस्तु सूत्रभाष्यादिविरोधादुपेक्ष्य इति । तद्धान्यै इति । आद्यपक्षे प्रत्ययमाला निवृत्तये, अन्ये तु स्वद्व्यूनङ्ख्येभ्योऽनिष्टोत्पत्तिनिवृत्तये इत्यर्थः । औपगवादिञ्स्यादिति । तृतीयस्य उपगुं प्रति अनपत्यत्वादिति भावः । एवं चऽसति सूत्रे अस्मिन्पक्षे औपगविरित्यनिष्टमेव स्यात्औपगव॑इतीष्टं तु न सिद्द्यतीति बोध्यम् । अजोबज्ज्येष्ठे इति । जीवज्ज्येष्ठे जीवदूंश्ये वा युवसंज्ञायां सत्यां गोत्रसंज्ञा नेति भावः । इष्टे सिद्धेऽपीति । अस्मिन् पक्षे औपगवस्य यदपत्यं तदुपयोगप्यपत्यमिति उपगोर्यदा प्रत्ययः तदाऔपगवः॑ इतीष्टं यद्यपि सिद्द्यपि, तथाप्यौपगविरित्यनिष्टं प्राप्नोतीत्यर्थः । तत इति । इञन्तादित्यर्थः । फगिञोरिति । फगन्तादिञ्, इञन्तात्फक्, तदन्तात्पुनरिञित्यादिपरम्परायां सत्यामित्यर्थः । नियमार्थमिति । नन्वाद्यपक्षे तत्तत्पितृवाचकादेव प्रत्ययो, न तु मूलभूतात्स्यात्, अनन्तरापत्ये मुख्यसंबन्धे चरितार्थस्याऽणादेर्गौणसंबन्धेऽपि प्रवृत्तेरन्याय्यत्वात् । तथा चौपगवापत्येन उपगोर्मुख्यसंबन्धाऽभावादत्राऽप्राप्ते विध्यर्थमेवेदं सूत्रं, न तु नियमार्थमिति औपगवशब्दादपि प्रत्ययो दुर्वार इति चेदत्राहुः — गोत्रे बोधनीये क्रमेणाऽनेकप्रत्ययप्रसङ्गे एक एवापत्यप्रत्ययः स्यादिति सूत्रार्थे कृते औपगवशब्दस्यापत्यप्रत्ययान्तत्वात्पुनरपत्यप्रत्ययस्ततो नोपपद्यते इत्यगत्या परम्परासम्बन्धाभ्युपगमेनोपगोरेव तदुत्पत्तिः, न त्वौपगवशब्दादिति सिद्धिमिष्टमिति । अत्र केचिव्द्याचक्षते — -॒आद्यपक्षे प्रत्ययपरम्परायां प्राप्तायाम्एको गोत्रे॑इत्यनेनैकः प्रत्ययो विधीयते । तथा चैको नामैकजातीय इत्यर्थपर्यवसानान्मूलप्रकृतेर्थोऽपत्यप्रत्ययोऽणादिस्तज्जातीय एव गोत्रे बोधनीये तत्तत्पितृवाचकाद्भवतिअणन्तादण्, इञन्तादिञ्, यञन्ताद्यञिति । न चैवमणिञोः परम्परायां निवर्तितायामप्यौपगव इत्यत्राऽण्प्रत्ययपरम्परा स्यात्, तथा गग्र्य इत्यादौ यञादिपरम्परेति वाच्यं, सत्यामपि तस्यामनिष्टाऽभावा॑दिति । तच्चिन्त्यं । फगन्तात्फकिनाडायन॑इत्यादावनिष्टप्रसङ्गादिति दिक् । ऊह्रमिति ।अपत्यं पितुरेवे॑ति पक्षे चतुर्थापत्यरूपे यूनि विवक्षितेगोत्राद्यूनी॑ति नियमसूत्रे सत्यसति च गोत्रप्रत्ययान्तादेव युवप्रत्यय इति द्वयोः परम्परा, सा चेष्टत्वान्न नियमेन व्यावर्त्त्यते । पञ्चमे तु यूनि नियमाऽभावे त्रयाणां परम्परा प्रसज्येत । षष्ठे तु चतुर्णामित्यादि ।ततः प्राचामपी॑ति द्वितीयपक्षे तु — गर्गाचतुर्थे यूनि मूलप्रकृत्यनन्तराभ्यामनिष्टोत्पत्तिः प्रसज्ते । पञ्चमे तु — मूलप्रकृत्यनन्तरयुवभ्यः । तथा नडाच्चतुर्थे यूनि पूर्ववद्द्वाभ्यामनिष्टोत्पत्तिः । पञ्चमे त्रिभ्यः । उपगोश्चतुर्थे वाच्ये तु मूलप्रकृतेरेकस्मादेवानिष्टोत्पत्तिः, न त्वनन्तरा पत्यवाचकात् । ततो जातेऽप्यत इञि रूपानिष्टाभावादित्यादि यथासंभवं तत्रोह्रमित्यर्थः ।
लघुसिद्धान्तकौमुदी
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥
महाभाष्यम्
एको गोत्रे (1339) (प्रत्ययनियमाधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? (5264 प्रयोजनवार्तिकम्।। 1 ।।) - उत्पादयितारं प्रत्यपत्ययोगात् तस्य च विवक्षितत्वादेकवचनं गोत्रे - (भाष्यम्) उत्पादयितोत्पादयिताऽपत्येन युज्यते। तस्य च विवक्षितत्वात्। उत्पादयितुः स चाभिसम्बन्धो विवक्षितः। उत्पादयितारं प्रत्यपत्ययोगात्तस्य चाभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुरुत्पादयितुरपत्याभिधानेऽनेकः प्रत्ययः प्राप्नोति। इष्यते चैक एव स्यादिति, तच्चान्तरेण यत्नं न सिध्यतीत्येकवचनं गोत्रे। एवमर्थमिदमुच्यते।। (वार्तिकार्थसमर्थकभाष्यम्) कथं पुनर्ज्ञायते ‐ उत्पादयितोत्पादयिताऽपत्येन युज्यते इति। एवं हि दृश्यते लोके ‐ पितामहस्योत्सङ्गे दारकमासीनं कश्चित्पृच्छति कस्यायं दारक इति। स आह ‐ देवदत्तस्य यज्ञदत्तस्य वेति। उत्पादयितारं व्यपदिशति नात्मानम्।। (प्रयोजनान्तरप्रस्तावकभाष्यम्) अस्ति प्रयोजनमेतत्। किं तर्हीति? (5265 सूत्राक्षेवार्तिकम्।। 2 ।।) - तत्र प्रत्ययान्ताद्गोत्रे प्रतिषेधो गोत्रे नियतत्वात् - (भाष्यम्) तत्र प्रत्ययान्ताद्गोत्रे प्रतिषेधो वक्तव्यः। औपगवस्यापत्यमिति। किं कारणम्? गोत्रे नियतत्वात्। गोत्रे ह्ययं नियमः क्रियते। तेन यश्चासौ यथाजातीयकश्च गोत्रे प्रत्ययः प्राप्नोति स एकः स्यात्। कश्च प्राप्नोति? यः प्रत्ययान्तात्।। (5266 सूत्राक्षेपवार्तिकम्।। 3 ।।) - परमप्रकृतेश्चोत्पत्तिः - (भाष्यम्) परमप्रकृतेश्चोत्पत्तिर्वक्तव्या। अयोगाद्धि न प्राप्नोति।। (द्वितीयतृतीयपञ्ञ्चमवार्तिकाक्षेपभाष्यम्) एतयोश्चैव परिहारः, पठिष्यति ह्याचार्यः ‐ यूनि चान्तर्हितेऽप्राप्तिरिति तस्य च ‐ यथा तत्प्रत्ययान्तम्। यथा तदेव विकारावयवप्रत्ययान्तं द्वितीयं च तृतीयं च विकारं संक्रामति, एवमिहापि तदेवापत्यप्रत्ययान्तं द्वितीयं च तृतीयं चापत्यं संक्रमिष्यति।। (प्रत्याक्षेपभाष्यम्) भवेत्सिद्धम् ‐ औपगवस्यापत्यमौपगवः, यत्र स एवानन्तर इष्यते स एव गोत्रे।। इदं तु खलु न सिध्यति ‐ गर्गस्यापत्यं गार्ग्य इति। अत्र ह्यन्योऽनन्तर इष्यते, अन्यो गोत्रे।। (5267 सूत्राक्षेपवार्तिकम्।। 4 ।।) - स्त्रियां चानियमः - (भाष्यम्) स्त्रियां च युवत्यां नियमो न प्राप्नोति ‐ औपगवी माणविका। नियमाद्धि स्त्री पर्युदस्यते, एको गोत्रे गोत्राद्यून्यस्त्रियाम् इति।। (पक्षविशेषेण दोषोपपादकं भाष्यम्) कतरस्मिन् पक्षेऽयं दोषः? उत्पादयितर्यपत्ययुक्ते।। उत्पादयितरि तावत् अपत्ययुक्ते न दोषः। उत्पादयितरि ह्यपत्ययुक्ते न सर्वत उत्पत्त्या भवितव्यम्। तत्र नियमो नोपपद्यते। असति नियमे नैष दोषः।। सर्वेषु तर्ह्युपत्ययुक्तेष्वयं दोषः। सर्वेषु तर्ह्यपत्ययुक्तेषु सर्वत उत्पत्त्या भवितव्यम्। तत्र नियम उपपन्नो भवति। सति च नियम एष दोषः।। (उत्पादयितर्यपत्ययुक्ते दोषान्तरबोधकम्भाष्यम्) उत्पादयितरि चापत्ययुक्ते स्त्रिया युवत्या अभिधानं न प्राप्नोति। किं कारणम्? गोत्रसंज्ञां युवसंज्ञा बाधते। गोत्राद् यूनि चास्त्रियां प्रत्ययो विधीयते।। (5268 सूत्राक्षेपवार्तिकम्।। 5 ।।) - यूनि चान्तर्हितेऽप्राप्तिः - (भाष्यम्) यूनि चान्तर्हिते नियमस्याप्राप्तिः। गार्ग्यायणस्यापत्यमिति।। (पक्षविशेषाश्रयेण दोषोपपादकं भाष्यम्) कतरस्मिन् पक्षेऽयं दोषः? सर्वेष्वपत्ययुक्तेषु। सर्वेषु अपत्ययुक्तेषु तावन्न दोषः। सर्वेषु ह्यपत्ययुक्तेषु सर्वत उत्पत्त्या भवितव्यम्। तत्र नियम उपपन्नो भवति। सति नियमे नैष दोषः।। उत्पादयितरि तर्ह्यपत्ययुक्तेऽयं दोषः। उत्पादयितरि तर्ह्यपत्ययुक्ते परमप्रकृतेरनन्तराद् गोत्राच्चायोगान्न प्राप्नोति।। (दोषसमुच्चायकम्भाष्यम्) यूनश्च न प्राप्नोति। किं कारणम्? गोत्रादिति नियमात्।। (द्वितीयपक्षोपपादकभाष्यम्) सन्तु तर्हि सर्वेऽपत्ययुक्ता इति। कथं पुनर्ज्ञायते सर्वेऽपत्ययुक्ता इति? एवं हि याज्ञिकाः पठन्ति ‐ दशपुरुषानूकं यस्य गृहे शूद्रा न विद्येरन् स सोमं पिबेदिति। यदि च सर्वेऽपत्ययुक्ता भवन्ति, तत एतदुपपन्नं भवति।। (पूर्वपक्षोक्तदोषनिरासभाष्यम्) कथम् ‐ यदुक्तम् ‐ पितामहस्योत्सङ्गे दारकमासीनं कश्चित्पृच्चति कस्यायमिति, स आह देवदत्तस्य यज्ञदत्तस्य वेति, उत्पादयितारं व्यपदिशति नात्मानम् इति। उत्पत्तिस्तस्य विवक्षिता। सर्वेषां न इदमपत्यम्, देवदत्तस्त्वस्योत्पादयितेति।। (द्वितीयपक्षे सूत्रप्रयोजनावतरणभाष्यम्) अथ सर्वेष्वपत्ययुक्तेषु किमनेन क्रियते एको गोत्र इति? (5239 प्रयोजनवार्तिकम्।। 6 ।।) - सर्वेषामपत्ययोगात् प्रत्ययान्ताद् गोत्रे प्रतिषेधार्थमेको गोत्रे - (भाष्यम्) सर्वेषामप्यपत्ययोगात् प्रत्ययान्ताद्गोत्रे प्रतिषेधार्थमेको गोत्र इत्युच्यते।। (सूत्रप्रयोजनाभावोपपादकभाष्यम्) अस्ति प्रयोजनमेतत्। किं तर्हीति? तत्र न ज्ञायते क एको भवति, यो वा परमप्रकृतेर्यो वाऽनन्तरादिति।। (5270 नियामकत्वाभावबोधकवार्तिकम्।। 7 ।।) - नियमानुपपत्तिश्च - (भाष्यम्) नियमश्च नोपपद्यते। किं कारणम्? (5271 नियामकत्वाभावसाधकवार्तिकम्।। 8 ।।) - न ह्येकस्मिन्नपत्येऽनेकप्रत्ययप्राप्तिः - (भाष्यम्) न ह्येकस्मिन्नपत्येऽनेकः प्रत्ययः प्राप्नोति। किं तर्हि? (5272 नियामकत्वाभावे दोषसाधकवार्तिकम्।। 9 ।।) - अपत्यान्तरे शब्दान्तरात्प्रत्ययान्तरप्राप्तिः - (भाष्यम्) अपत्यान्तरेऽपत्यान्तरे शब्दान्तराच्छब्दान्तरात् प्रत्ययान्तरम्प्रत्ययान्तरं प्राप्नोति। फगन्तादिञ्ञ्, इञ्ञन्तात्फगिति फगिञ्ञोर्दाशतयी प्रत्ययमाला प्राप्नोति।। (पक्षविशेषाश्रयेण दोषोपपादकभाष्यम्) कतरस्मिन् पक्षेऽयं दोषः? सर्वेष्वपत्ययुक्तेषु। सर्वेष्वपत्ययुक्तेषु तावन्न दोषः। सर्वेषु ह्यपत्ययुक्तेषु सर्वत उत्पत्त्या भवितव्यम्। तत्र नियम उपपन्नो भवति। सति नियमे नैष दोषः।। उत्पादयितरि तर्ह्यपत्ययुक्तेऽयं दोषः। उत्पादयितरि तर्ह्यपत्ययुक्ते न सर्वत उत्पत्त्या भवितव्यम्। तत्र नियमो नोपपद्यते। असति नियमे एष दोषः।। (दोषनिरासभाष्यम्) उत्पादयितरि चापत्ययुक्ते नायं दोषः। कथम्? (दोषनिरासे श्लोकभाष्यम्) अपत्यं समुदायश्चे- न्नियमोऽत्र समीक्षितः। तस्मिन्सुबहवः प्राप्ता नियमोऽस्य भविष्यति।। अपत्यमित्यनेन सर्वमुपग्वादिपितृकमपत्यं समीक्षितम्। तस्मिंस्तु बहवः प्रत्ययाः प्राप्ताः। नियमोऽस्य भविष्यति ‐ एको गोत्र इति। (चतुर्थवार्तिकोक्तदोषनिरासभाष्यम्) यदप्युच्यते स्त्रियां चानियमः इति। एवं वक्ष्यामि ‐ गौत्राद्यूनि प्रत्ययो भवति, स्त्रियां नेति।। (प्रत्याक्षेपभाष्यम्) एवमपि स्त्रिया युवत्या अभिधानं न प्राप्नोति।। (प्रत्याक्षेपसमाधानभाष्यम्) एवं तर्हि ‐ एवं वक्ष्यामि ‐ गौत्राद्यूनि प्रत्ययो भवति, ततः ‐ स्त्रियां लुक्।। (पक्षद्वयदोषसंकलनभाष्यम्) इहोत्पादयितर्यपत्ययुक्ते प्रत्ययान्तात्प्रतिषेधो वक्तव्यः, परमप्रकृतेश्चोत्पत्तिर्वक्तव्या। सर्वेष्वपत्ययुक्तेषु प्रत्ययान्तात्प्रतिषेधो वक्तव्यः।। (5273 दोषवारणवार्तिकम्।। 10 ।।) (भाष्यम्) तस्मात्प्रतिषेधो वक्तव्यः।। (5274 प्रकारान्तरेण दोषवारणे द्वितीयवार्तिकम्।। 11 ।।) - संज्ञाकारिभ्यो वा प्रत्ययोत्पत्तिः - (भाष्यम्) अथवा संज्ञाकारिभ्यः प्रत्ययोत्पत्तिर्वक्तव्या।। (प्रत्याक्षेपसमाधाने दोषभाष्यम्) एवमप्यौपगवी माणविका, अनुपसर्जनादितीकारो न प्राप्नोति। मा भूदेवम् ‐ अण्योऽनुपसर्जनमिति। अणन्तादनुपसर्जनादित्येवं भविष्यति। नैवं शक्यम्। इह हि दोषः स्यात् ‐ काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणी। अणन्तादितीकारः प्रसज्येत। नैष दोषः। अध्येत्र्यामभिधेयायामण इर्कारेण भवितव्यम्। यश्चात्राध्येत्र्यामभिधेयायामण्, लुप्तः सः। यश्च श्रूयते, उत्पन्नस्तस्मादीकार इति कृत्वा पुनर्न भविष्यति।। इह तर्हि ‐ औपगवी माणविका भार्याऽस्य औपगवीभार्यः, जातिलक्षणः पुंवद्भावप्रतिषेधो न प्राप्नोति। मा भूदेवम्, वृद्धिनिमित्तस्य इत्येवं भविष्यति। यस्तर्हि न वृद्धिनिमित्तम् ‐ ग्लुचुकायनी माणविका भार्याऽस्य ग्लुचुकायनीभार्यः।। (सिद्धान्तभाष्यम्) तस्मात्स्त्रिया युवत्या युवसंज्ञैव पर्युदसितव्या। तस्याञ्ञ्च पर्युदस्तायां गोत्रप्रत्ययान्तमेतद्यूनि वर्तते।। (आक्षेपभाष्यम्) यदि संज्ञाकारिभ्यः प्रत्ययोत्पत्तिरुच्यते, कथं गार्ग्यायणः, वात्स्यायन इति? (5275 समाधानवार्तिकम्।। 12 ।।) - गोत्राद्यूनीति च - (भाष्यम्) गोत्राद्यूनीत्येतद्वक्तव्यम्।। (5276 दोषवारणद्वितीयवार्तिकोपष्टम्भकवार्तिकम्।। 13 ।।) - तच्च जात्यादिनिवृत्त्यर्थम् - (भाष्यम्) तच्चावश्यं संज्ञाकारिग्रहणं कर्तव्यम्। किं प्रयोजनम्? जात्यादिनिवृत्त्यर्थम्। जात्यादिभ्य उत्पत्तिर्मा भूदिति।। (उपष्टम्भसाधकभाष्यम्) जातिर्न वर्तते, संख्या न वर्तते, सर्वनाम न वर्तते। जातिर्न वर्तते ‐ काकस्यापत्यम्, कुररस्यापत्यमिति। संख्या न वर्तते ‐ नवानामपत्यम्, दशानामपत्यमिति। सर्वनाम न वर्तते ‐ सर्वेषामपत्यम्, विश्वेषामपत्यमिति।। (संज्ञाकारिग्रहणप्रत्याख्यानभाष्यम्) यत्तावदुच्यते ‐ जातिर्न वर्तते ‐ काकस्यापत्यम्, कुररस्यापत्यमिति। येनैव हेतुना एकः काकस्तेनैव हेतुना द्वितीयश्च तृतीयश्च काको भविष्यति।। यदप्युच्यते ‐ संख्या न वर्तते ‐ नवानामपत्यम्, दशानामपत्यमिति। संख्येयमपेक्ष्य संख्या प्रवर्तते। तत् सापेक्षम्। सापेक्षं चासमर्थं भवतीति ‐ असार्मथ्यान्न भविष्यति।। यदप्युच्यते ‐ सर्वनाम न वर्तते ‐ सर्वेषामपत्यम्, विश्वेषामपत्यमिति। निर्देश्यमपेक्ष्य निर्देशः प्रवर्तते। तत्सापेक्षम्। सापेक्षमसमर्थं भवतीति ‐ असमर्थत्वान्न भविष्यति।। (निराकरणप्रतीकारभाष्यम्) यत्तावदुच्यते ‐ येनैव हेतुना एकः काकस्तेनैव हेतुना द्वितीयश्च तृतीयश्च काको भविष्यतीति। नैतद्विवदामहे ‐ काको न काक इति। किं तर्हि? येनैव हेतुना एतद्वाक्यं भवति काकस्यापत्यम्, कुररस्यापत्यमिति, तेनैव हेतुना वृत्तिरपि प्राप्नोति।। यदप्युच्यते ‐ संख्येयमपेक्ष्य संख्या प्रवर्तते तत्सापेक्षम्, सापेक्षं चासमर्थं भवतीति। भवति वै कस्य चिदर्थात् प्रकरणाद्वा अपेक्ष्यं निर्ज्ञातम्, यदा निर्ज्ञातम्, तदा वृत्तिः प्राप्नोति। यदप्युच्यते ‐ सर्वेषामपत्यम्, विश्वेषामपत्यमिति निर्देश्यमपेक्ष्य निर्देशः प्रवर्तते, तत्सापेक्षम्, सापेक्षं चासमर्थं भवतीति। भवति वै कस्य चिदर्थात् प्रकरणाद्वा अपेक्ष्यं निर्ज्ञातम्, यदा निर्ज्ञातम्, तदा वृत्तिः प्राप्नोति।। (प्रतीकारपरिहारभाष्यम्) एवं तर्हि ‐ अनभिधानाज्जात्यादिभ्य उत्पत्तिर्न भविष्यति। तच्चावश्यमनभिधानमाश्रयितव्यम्। क्रियमाणेऽपि हि संज्ञाकारिग्रहणे यत्र जात्यादिभ्य उत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं भवति, भवति तत्र उत्पत्तिः। तद्यथा ‐ कुतश्चरति मायूरिः केन कापिञ्ञ्जलिः कृशः। आहेयेन च दष्टस्य पाञ्ञ्चिः सुतसमो मतः।। तादायनिः, यादायनिः, कैमायनिरिति।। (सिद्धान्तभाष्यम्) तदेतदनन्यार्थं संज्ञाकारिग्रहणं कर्तव्यम्, प्रत्ययान्ताद्वा प्रतिषेधो वक्तव्यः। उभयं न कर्तव्यम्। गोत्रग्रहणं न करिष्यते। एकोऽपत्ये प्रत्ययो भवतीत्येव।। यदि चेदानीं प्रत्ययान्तादपि प्रत्ययः स्यान्नैकोऽपत्ये प्रत्ययः कृतः स्यात्।। यदि गोत्रग्रहणं न क्रियते, कथं गार्ग्यायणः, वात्स्यायन इति? वक्तव्यमेवैतत् ‐ गोत्राद्यून्यस्त्रियामिति।। अथापि गोत्रग्रहणं क्रियते। एवमपि न दोषः। नैकग्रहणेन प्रत्ययोऽभिसम्बध्यते ‐ एको गोत्रे प्रत्ययो भवतीति। किं तर्हि? प्रकृतिरभिसम्बध्यते। एका प्रकृतिर्गोत्रप्रत्ययमुत्पादयतीति। यदि चेदानीं प्रत्ययान्तादपि प्रत्ययः स्याद्, नैका प्रकृतिर्गौत्रे प्रत्ययमुत्पादयेत्। अथ वा अस्थानेऽयं यत्नः क्रियते। न हीदं लोकादि्भद्यते। लोके हि संख्यां प्रवर्तमानामुपाचरन्ति एक इति वा प्रथम इति वा। यावद् ब्रूयात् प्रथमो गोत्रे प्रत्ययमुत्पादयतीति तावदेको गोत्रे इति।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम्।।