Page loading... Please wait.
4|1|91 - फक्फिञोरन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|1|91
SK 1087
फक्फिञोरन्यतरस्याम्  
सूत्रच्छेदः
फक्-फिञोः (षष्ठीद्विवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82 प्राग्दीव्यतोऽण्  4|1|83
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यूनि इत्येव। पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते। फक्फिञोर् युवप्रत्यययोः प्राग्दीव्यतीये ऽजादौ प्रत्यये विवक्षिते ऽन्यतरस्यां लुग् भवति। गर्गादिभ्यो यञि कृते यञिञोश्च 4|1|101 इति फक्, गार्ग्यायणः। तस्य छात्राः गार्गीयाः, गार्ग्यायणीयाः। वात्सीयाः, वात्स्यायनीयाः। फिञः खल्वपि यस्कस्य अपत्यं, शिवादिभ्यो ऽण् 4|1|112, यास्कः। तस्य अपत्यं युवा, अणो द्व्यचः 4|1|156 इति फिञ्, यास्कायनिः। तस्य छात्राः यास्कीयाः, यास्कायनीयाः।
`गार्गीयाः, वात्सीयाः` इति। पूर्वपदकारयकारलोपः। `वा` 4|1|82 इति वत्र्तमानेऽन्यतरस्यां ग्रहणं `पूर्वसूत्रे नित्यो विधिः` इति ज्ञापनार्थम्॥
किमर्थमिदम्, यावता युवरूपविवक्षायां गार्ग्यायणीय इति, गोत्ररूपविवक्षायां च गार्गीया इति शब्दस्य साधारणत्वात् ? इत्यत आह---पूर्वसूत्रेणेति । ठ्यूनि लुक्ऽ इत्येतदारम्भणीयमित्युक्तम्, तस्मिश्चारभ्यमाणे यदीदं नोच्येत, फक्फिञोरपि नित्यमेव लुक् स्यात्, ततश्च गार्ग्यायणीया इति न स्यात् । तस्मादिदमप्यारम्भणीयमित्यर्थः ॥
सिद्धान्तकौमुदी
यूनि लुक्-(कौमुदी-1083) इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्व्यचः-(कौमुदी-1180) इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥
फक्फिञोरन्यतरस्याम् - ॒इञः प्राचा॑मिति लुङ्नेत्यर्थः । अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति — फक्फिञोरन्यतरस्यां । यूनीत्येवेति ।यूनि लु॑गिति पूर्वसूत्रमनुवर्तते इत्यर्थः ।यूनि लु॑गित्यक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः । तदाह — पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा — कात्यायनः ।यञिञोश्चे॑ति फक् । कात्यायनस्य छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ "वृद्धाच्छः" इति छः । तस्य ईयादेशः । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य-ईय इति स्थिते॒यस्येति चे॑त्यकारलोपेआपत्यस्य चे॑ति यलोपे "कातीया" इति रूपम् । फको लुगभावे तु "कात्यायनीया" इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थेअत इ॑ञिति इञपवादः शिवाद्यणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थेअणो द्व्यचः॑इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति । यास्कायनेश्छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ "वृद्धाच्छः" इति छः । तस्य ईयादेशः । "यास्कायनीया" इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थफकिञो लुकियस्येति चे॑त्यकारल#ओपे "यास्कीया" इति रूपमित्यर्थः ।
फक्फिञोरन्यतरस्याम् - कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वा द्यञ् । ततो यूनियञिञोश्चे॑ति फक् । कातीया इथ ।आपत्यस्य चे॑ति यलोपः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.