॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|90
SK 1083
4|1|90
यूनि लुक्  
SK 1083
सूत्रच्छेद:
यूनि - सप्तम्येकवचनम् , लुक् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
प्राग् दीव्यतः इति वर्तते, अचि च। प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते बुद्धिस्थे ऽनुत्पन्न एव युवप्रत्ययस्य लुग् भवति। तस्मन् निवृत्ते सति यो यतः प्राप्नोति स ततो भवति। फाण्टाहृतस्य अपत्यं फाण्टाहृतिः। तस्य अपत्यं युवा, फाण्टाहृतिमिमताभ्यां णफिञौ 4|1|150, फाण्टागृतः। तस्य छाऽत्राः इति विवक्षिते ऽर्थे बुद्धिस्थे युवप्रत्यय्स्य लुग् भवति। तस्मिन् निवृत्ते इञन्तं प्रकृतिरूपं सम्पन्नम्। तस्मातिञश्च 4|2|112 इत्यण् भवति, फाण्टाहृताः। भागवित्तस्य अपत्यं भागवित्तिः। तस्य अपत्यं युवा, वृद्धाट् ठक् सौवीरेषु बहुलम् 4|1|148 इति ठक्, भागवित्तिकः। तस्य छात्राः, पूर्ववद् युवप्रत्यये निवृत्ते, इञश्च 4|2|112 इत्यण्, भागवित्ताः। तिकस्य अपत्यं, तिकादिभ्यः फिञ् 4|1|154, तैकायनिः। तस्य अपत्यं युवा, फेश् छ च 4|1|149 इति छः, तैकायनीयः। तस्य छात्रः, युवप्रत्यये निवृत्ते वृद्धाच् छः 4|2|114, तैकायनीयाः। कपिञ्जलादस्य अपत्यं कापिञ्जलादिः। तस्य अपत्यं युवा, कुर्वादिभ्यो ण्यः 4|1|151, कापिञ्जलाद्यः। तस्य छात्राः, ण्ये निवृत्ते इञश्च 4|2|112 इत्यण्, कापिञ्जलादाः। ग्लुचुकस्य अपत्यं, प्राचाम् अवृद्धात् फिन् बहुलम् 4|1|160 इति ग्लुचुकायनिः। तस्य अपत्यं युवा, प्राग्दीव्यतो ऽण् 4|1|83, ग्लौचुकायनः। तस्य छात्राः, युवप्रत्यये निवृत्ते स एव अण्, ग्लौचुकायनाः। अचि इत्येव, फाण्टाहृतरूप्यम्। फाण्टाहृतमयम्। प्राग्दीव्यतः इत्येव, भागवित्तिकाय हितं भागवित्तिकीयम्।
`यूनि` इति। `व्यत्ययो बहुलम्` 3|1|85 इति षष्ठर्थे सप्तमी। अत एव वृत्तावाह--`युवप्रत्ययस्य` इति। अजादौ प्रत्यये विवक्षिते बुद्धिस्य इत्यादिनाऽचीति विषयसप्तमीत्वं दर्शयति। यद्येषां परसप्तमी स्यात्, यत्रापि च्छप्रत्ययो नेष्यते तत्रापि स्यात्। युवप्रत्ययान्तस्य बुद्धत्वादित्यभिप्रायः।`फाण्टाह्मतरूप्यम्, फाण्टाह्मतमयम्` इति। यद्यत्र लुक् स्यात्, फाण्टाह्मतरूप्यं फाण्टाह्मतमयमिति न स्यात्। `भागवित्तिकीयम्` इति। प्राक्क्रीतीयच्छः 5|1|1 पूववत्॥
अत्रापि यद्यचीति परसप्तमी स्यात्, प्रत्ययस्य यथेष्टप्रसङ्गः । युवप्रत्यये श्रूयमाणे यः प्राप्नोति स तावत्कतव्यः, तत्र कृते युवप्रत्ययस्य लुकि तस्य श्रवणं प्राप्नोति, विषयसप्तम्यां त्वजादौ विषयभूत एव युवप्रत्यये लुप्ते यो यतः प्राप्नोति ततः स स भवतीति सिद्धमिष्टम् । एतच्चोदाहरणेषु व्यक्तीकरिष्यते, तदेतदाह---अजादौ प्रत्यये विवक्षित इत्यादि । इञश्चेत्यण् भवतीति । परससप्तम्यां तु वृद्धाच्छ एव स्यात् । फेश्च्छ चेति । ठ्यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताःऽ इति परिगणनं भाष्यकारेण नाश्रितम्, तेन तैकायनेरपिच्छाए भवति । तैकायनीया इति । अत्र परसप्तम्यामप्यदोषः, ठ्ण्यक्षत्रियार्षञितःऽ इत्यत्र तु वृत्तिकारेणाणो लुगुदाहृतः---तैकायनिः पिता तैकायनिः पुत्र इति, स परिगणनाश्रयेण द्रष्टव्यः, तदा च तैकायनीया इत्यनुदाहरणम् । कापिञ्जलादा इति । अत्रापि परसप्तम्यां वृद्धाच्छः स्यात् । एवं ग्लौचुकायना इत्यत्रापि द्रष्टव्यम् । इह तु औपगवेर्यूनश्छात्रा इञो लुकि वृद्धाच्छाए भवति, परसप्तम्याम्, ठिञश्चऽ इत्यण्स्यात् । नैतदस्य योगस्योदाहरणम्, कथम् ? ठिञश्चऽ इत्यत्र ठ्गोत्रेऽ इति वर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ् विहित इति पारिभाषिकं च गोत्रं गृह्यते, कथम् ? ठ्कण्वादिभ्यो गोत्रेऽ इत्यत्र तावद् ठ्गोत्रेकुञ्जादिभ्यःऽ इत्यस्य गोत्रस्यानुवादः---कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तादण् भवतीति, तत्र च पारिभाषिकं गृह्यते तस्यैव चानुवादः, तदेव च ठिञश्चऽ इत्यत्राप्यनुवर्तते, तत्कुतो युवप्रत्ययान्तादणः प्रसङ्गः ! अवश्यं चैतदेवं विज्ञेयम्, अन्यथा लुप्तेऽपीञि प्रत्ययलक्षणेनाण् स्यादेव । इमानि तर्ह्यत्रोदाहरणानि---यत्खच्छान्ताः । यत्---ठ्राजश्वशुराद्यत्ऽ, श्वशुरस्यापत्यं श्वसुर्यः, तस्यापत्यं श्वाशुरिस्तस्य छात्रा इति लुकि ठ्प्राग्दीव्यतोऽण्ऽ भवति श्वाशुरः, अन्यथा ठ्वृद्धाच्छःऽ स्यात् ; ठ्कुलात्खःऽ कुलीनः, तस्यापत्यं कौलीनिः, तस्य छात्त्राः, इञो लुकि कौलीनः; ठ्स्वसुश्च्छःऽ, स्वस्रीयः, तस्यापत्यं स्वास्रीयिः, तस्य छात्रा इञो लुकि स्वस्रीयाः ? नैतान्युदाहरणानि; ठब्राह्मणाद् गोत्रमात्राद्यौवप्रत्ययस्योपसङ्ख्यानम्ऽ इतीञो लुकि कृते श्वशुर्यः पिता श्वशुर्यः पुत्रः, कुलीनः पिता कुलीनः पुत्रः, स्वस्रीयः पिता स्वस्रीयः पुत्र इति भवितव्यम् । न च ब्राह्मणगोत्रे कश्चिदवृद्धिनिमितः प्रत्ययः सम्भवति, यत इञि कृते च्छः प्राप्नोति; वृद्धिनिमिते तु गोत्रप्रत्यये नास्ति विशेषः, यतः श्रूयमाणोऽपीञि छेन भवितव्यम् । लुप्तेऽपि तस्मिन् गोत्रप्रत्ययान्तस्यापि वृद्धत्वाच्छेन भवितव्यम्, तद्यथा---औपगवीया इति । तदेवमिञ उदाहरणं न सम्भवतीति स्थितम् । यदि तु पूर्वसूत्रे लौकिकस्य गोत्रस्य ग्रहणं तदा स्यादेवेञ उदाहरणम् । तथा हिश्वशुर्यादिभ्य उत्पन्नस्येञः, सत्यप्यौपसङ्ख्यानिके लुकि तस्य प्राग्दीव्यतीयविवक्षायाम् ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधेन पुनः प्रादुर्भावादिञाश्रयः ठ्वृद्धाच्छःऽ स्यात्, यदि तस्य ठ्यूनि लुक्ऽ इति लुग्न क्रियेत । अतोऽस्मादिञ उदाहरणत्वप्रतिषेधायप्यवसीयते---पारिभाषिकं गोत्रं पूर्वसूत्रे भाष्यकारस्याभिमतमिति । किमर्थं पुनरिदमुच्यते, यावता यूनोऽपिगोत्ररूपे विवक्षिते गोत्रप्रत्ययेनाभिधानातन्निबन्धन एव प्रत्ययो भविष्यति, अर्थप्रकरणादिना च युवविशेषसिद्धिः, अवश्यं चार्थप्रकरणादिनैव विशेषोऽवसातव्यः, आरब्धेऽपियस्मिन्सूत्रे शब्दस्य साधारणत्वात् । न हि ज्ञायते---किं भागवितेश्छात्रा भागविताः ? आहोस्विद्भागवितिकस्येति ? यदा तर्हि विशेषविवक्षा, तदापि भागविता इत्येव यथा स्याद्, भागवितिकीया इति जातुचिन्मा भूदित्येवमर्थमिदम् ॥
सिद्धान्तकौमुदी
प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः, वक्ष्यमाणः फिन्, ततो यून्यण्, ग्लौचुकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ॥
यूनि लुक् - यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्चप्राग्दीव्यतीये प्रत्यये॑ इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह — अजादौ प्राग्दीव्यतीये विवक्षिते इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्,अत इ॑ञितीञः प्राप्तेरित्यत आह — वक्ष्यमाण इति ।प्राचामवृद्धात्फिन्बहुल॑मित्यनेने॑ति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः । तत इति । ग्लुचुकायनेरपत्यार्थेतस्यापत्य॑मित्यणि आदिवृद्धौयस्येति चे॑ति लोपे "ग्लौचुकायन" इति रूपमित्यर्थः । तस्येति । ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याऽणो लुकि "ग्लौचुकायन" इत्येव रूपमित्यर्थः । ननु युवापत्याऽणःयस्येति चे॑ति लोपेनैव छात्रार्थे ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह — अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याऽणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाऽभावाच्छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वाच्छः स्यात् । अतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते- ।
यूनि लुक् - यूनि लुक् । प्राग्दीव्यतीय इति वर्तते, अचीति च, प्रत्ययाधिकाराच्च प्रत्यय इति लभ्यते । तदेतदाह — -प्राग्दीब्यतीयेऽजादौ प्रत्यय इति ।प्रत्ययस्य लु॑गिति संज्ञाकरणाल्लब्धो यः प्रत्ययः, सःयूनी॑त्यनेन विशेष्यते । तथा चयूनियः प्रत्ययस्तस्य लु॑गित्यर्थस्तदाह ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
यूनि लुक् (1336) (लुगधिकरणम्) (5252 आक्षेपवार्तिकम्।। 1 ।।) - यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टप्रसङ्गः - (भाष्यम्) यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टं प्राप्नोति। अनिष्टे प्रत्ययेऽवस्थिते लुक्। अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्येत।। (5253 समाधानवार्तिकम्।। 2 ।।) - सिद्धं त्वविशेषेण लुग्वचनं हलि च प्रतिषेधः - (भाष्यम्) सिद्धमेतत्। कथम्? अविशेषेण लुकमुक्त्वा हलि नेति वक्ष्यामि। सिध्यति। सूत्रं तर्हि भिद्यते।। (वार्तिकान्यथासिद्धिकरणभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तम् ‐ यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टप्रसङ्गः इति। नैष दोषः। अचीति नैषा परसप्तमी। का तर्हि? विषयसप्तमी ‐ अजादौ विषय इति। तत्राचि विषये लुकि कृते यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति।। (प्रयोजनावतरणभाष्यम्) कानि पुनरस्य योगस्य प्रयोजनानि? (5254 प्रयोजनवार्तिकम्।। 3 ।।) - प्रयोजनं सौवीरगोत्रेभ्यो णाठक्छाः - (भाष्यम्) ण, फाण्टाहृतेरपत्यं माणवकः ‐ फाण्टाहृतः, फाण्टाहृतस्य यूनश्छात्राः ‐ फाण्टाहृताः। ण।। ठक्, भागवित्तेरपत्यं माणवको भागवित्तिकः। भागवित्तिकस्य यूनश्छात्राः ‐ भागवित्ताः। ठक्।। छ, तैकायनेरपत्यं माणवकस्तैकायनीयः। तैकायनीयस्य यूनश्छात्राः ‐ तैकायनीयाः।। (5255 प्रयोजनवार्तिकम्।। 4 ।।) - इञ्ञ्ण्यौ सर्वत्र - (भाष्यम्) इञ्ञ्ण्यौ सर्वत्र प्रयोजनम्। औपगवे र्यूनश्छात्राः ‐ औपगवीयाः। वृद्धवदतिदेशे सति इञ्ञो गोत्र इत्यण् प्राप्नोति।। नैष दोषः। प्रत्याख्यायतेऽसावतिदेशः। कथं यानि प्रयोजनानि? तानि ज्ञापकेन सिद्धानि।। (प्रयोजनान्तरभाष्यम्) यत्खच्छान्तात्तर्हि ‐ इञ्ञः प्रयोजनम्। यत् ‐ श्वशुरस्यापत्यं श्वशुर्यः, श्वशुर्यस्यापत्यं श्वाशुरिः। श्वाशुरेर्यूनश्छात्राः श्वाशुराः ‐ यत्।। ख ‐ कुलस्यापत्यं कुलीनः, कुलीनस्यापत्यं कौलीनिः, कौलीनेर्यूनश्छात्राः कौलीनाः ‐ ख।। छ ‐ श्वसुरपत्यं स्वस्रीयः, स्वस्रीयस्यापत्यं स्वास्रीयिः, स्वास्रीयेर्यूनः छात्राः स्वास्रीयाः।। (प्रयोजनाक्षेपभाष्यम्) एतान्यपि हि न सन्ति प्रयोजनानि। अत्रापि यूनि ‐ श्वशुर्यः, कुलीनः, स्वस्रीय इत्येव भवितव्यम्। उक्तमेतत् ‐ अणिञ्ञोर्लुकि ‐ अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् इति। अब्राह्मणगोत्रमात्रादित्युच्यते, न चैतदब्राह्मणगोत्रमात्रम्। अब्राह्मणगोत्रमात्रादिति नायं पर्युदासः ‐ यदन्यद् ब्राह्मणगोत्रमाणादिति। किं तर्हि ‐ प्रसज्य प्रतिषेधोऽयम् ‐ ब्राह्मणगोत्रमात्रान्नेति।। अवश्यं चैतदेवं विज्ञेयम्। मायूरिः, कापोतिः, कापिञ्ञ्जलिरित्येवमर्थम्।। (प्रयोजनभाष्यम्) एवं तर्हि ‐ अण्ण्यौ सर्वत्र प्रयोजनम्।। अण् ‐ ग्लुचुकायनेरपत्यं माणवको ग्लौचुकायनः, ग्लौचुकायनस्य यूनश्छात्रा ग्लौचुकायनाः। ण्यश्च कापिञ्ञ्जलाद्यर्थम्। कापिञ्ञ्जलादेरपत्यं माणवकः कापिञ्ञ्जलाद्यः, कापिञ्ञ्जलाद्यस्य यूनश्छात्राः कापिञ्ञ्जलादाः।। (5256 पूर्वपक्षवार्तिकम्।। 5 ।।) - प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः - (भाष्यम्) प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः कर्तव्यः। युवा वृद्धवद्भवतीति वक्तव्यम्। किं प्रयोजनम्? गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः। गोत्राश्रयो वुञ्ञ् यथा स्यात्। यदि वृद्धवदतिदेशः क्रियते ‐ औपगवेर्यूनश्छात्रा औपगवीया इतीञ्ञो गोत्र इत्यण् प्राप्नोति।। (एकदेशिसमाधानभाष्यम्) यदि पुनर्युवा वृद्धवदित्यनेनानुत्पत्तिरतिदिश्येत। कथं पुनर्युवा वृद्धवदित्यनेनानुत्पत्तिः शक्या निर्देष्टुम्? वतिनिर्देशोऽयम्, कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा ‐ उशीनरवन्मद्रेषु यवाः, सन्ति ‐ न सन्तीति, मातृवदस्याः कलाः, सन्ति ‐ न सन्तीति। एवमिहापि युवा वृद्धवद्भवति, वृद्धवन्न भवतीति ‐ एवं वाक्यशेषं समर्थयिष्यामहे। यथा ‐ गोत्रे युवप्रत्ययो न भवति, एवं प्राग्दीव्यतोऽधिकारे यून्यपि न भवतीति।। (समाधानाक्षेपभाष्यम्) तद्वक्तव्यम्? यद्यप्येतदुच्यते।। (एकदेशिसमाधानान्तरभाष्यम्) अथ वैतर्हि यूनि लुक् इत्येतन्न क्रियते। कथं तर्हि ‐ -फक्फिञ्ञोरन्यतरस्याम्(4।1।91) इति? फक्फिञ्ञ्वर्ती युवा वा वृद्धवद्भवतीति वक्ष्यामि।। (समाधानाक्षेपभाष्यम्) यदा तर्हि न वृद्धवत्, तदा ‐ गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ् न प्राप्नोति।। (प्रकारान्तरेणैकदेशिसमाधानभाष्यम्) यदि पुनर्युवा वृद्धवदित्यनेनार्थोऽतिदिश्येत। प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदर्थो भवतीति।। (समाधानाक्षेपभाष्यम्) तद्वक्तव्यम्। यद्यप्येतदुच्यते।। (एकदेशिसमाधानभाष्यम्) अथ वैतर्हि यूनि लुक् इत्येतन्न करिष्यते। कथं फक्फिञ्ञोरन्यतरस्यामिति? फक्फिञ्ञ्वर्ती युवार्थो वा वृद्धवद्भवतीति वक्ष्यामि। यदा तर्हि न वृद्धवत्, तदा ‐ गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ् न प्राप्नोति।। (सिद्धान्तभाष्यम्) एवं तर्हि ‐ राजन्याद् वुञ्ञ् मनुष्याच्च ज्ञापकं लौकिकं परम्।। यदयं वुञ्ञ्विधौ राजन्यमनुष्ययोर्ग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ लौकिकं परं गोत्रग्रहणमिति। युवा च लोके गोत्रमित्युपचर्यते। किं गोत्रोऽसि माणवक? गार्ग्यायणः। किं गोत्रोऽसि माणवक? वात्स्यायनः।। (आक्षेपवारकभाष्यम्) यद्येतज् ज्ञाप्यते ‐ औपगवेर्यूनश्छात्रा औपगवीयाः, गोत्राश्रय इञ्ञो गोत्र इत्यण्प्राप्नोति। सामूहिकेषु ज्ञापकम्। यदि सामूहिकेषु ज्ञापकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ्न प्राप्नोति। वुञ्ञ्विधौ ज्ञापकम्। यदि वुञ्ञ्विधौ ज्ञापकम्, शालङ्केर्यूनश्छात्राः शालङ्गाः। इञ्ञो गोत्र इत्यण्न प्राप्नोति। अस्तु तर्ह्यविशेषेण। कथमौपगवेर्यूनश्छात्रा औपगवीयाः? गोत्रेणेञ्ञं विशेषयिष्यामः ‐ गोत्रे य इञ्ञ् विहितः इति।।