Page loading... Please wait.
4|1|9 - टाबृचि
॥ तस्मै पाणिनये नमः ॥
4|1|9
SK 458
टाबृचि  
सूत्रच्छेदः
टाप् (प्रथमैकवचनम्) , ऋचि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पादः इत्येव। ऋचि इत्यभिधेयनिर्देशः। ऋचि वाच्यायां पादन्तात् प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। ङीपो ऽपवादः। द्विपदा ऋक्। त्रिपदा ऋक्। चतुष्पदा ऋक्। ऋचि इति किम्? द्विपदी देवदत्ता।
`ऋचीत्यभिधेयनिर्देशः` इति। विषयनिर्देशाशङ्कां निराकरोति। यदि हि विषयनिर्देशः स्यात्, तत ऋचि विषय ऋग्ग्रन्थे यः पाच्छब्दस्तदन्तात् प्रातिपदिकाट्टाब्भविष्यतीत्येषोऽर्थः स्यात्, तथा च ऋग्वेद एव स्यात्, नान्यत्र। अभिधेयनिर्देशे तु सर्वत्र भवतीति भावः॥
ऋचीत्यभिधेयनिर्देश इति । व्याप्तेः । विषयनिर्देशे हि ऋग्वेदविषय एव प्रयोगे स्यात्, नान्यत्र ॥
सिद्धान्तकौमुदी
ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । न षट्स्वस्रादिभ्यः (कौमुदी-308) ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षट् (कौमुदी-369) इति षट्संज्ञां प्रति न लोपः सुप्स्वर (कौमुदी-353) इति नलोपस्यासिद्धत्वात् न षट्स्वस्रादिभ्यः (कौमुदी-308) इति न टाप् ॥
टाबृचि - टाबृचि । पादन्तादिति ।प्रातिपदिका॑दिति शेषः ।पादोऽन्यतरस्या॑मित्यतोऽनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः ।पादोऽन्यतरस्या॑मिति ङीपोऽपवादोऽयम् । द्विपदा ऋगिति । द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पाटो यस्या इति विग्रहः । उभयत्रापि टापि,पादः पत् ।ङ्याप्प्रातिपदिकात् इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दमवष्टभ्य प्रत्याख्यातमेतत् । नच ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्त्ये एतत्सूत्रमिति वाच्यम्, एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्याऽपीष्टत्वादित्यसम् । न षडिति । इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पञ्चेति । इहान्तरङ्गत्वान्नन्तलक्षणङीपि प्राप्ते षट्त्वान्निषिद्धे "षड्भ्यो लुक्" इति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वसंज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इति न टाबित्यन्वयः ।अदन्तलक्षणष्टा॑बिति शेषः । नान्तलक्षणङीपि प्रतिषिद्दे सति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वस्संज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इत्यत्र सत्यामपि टाबनुवृत्तौ कथमिह षट्संज्ञानिबन्धस्तन्निषेधः, नलोपे कृते षट्संज्ञाविरहात् । नच टाब्निषेधे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं, टाब्निषेधस्य सुप्स्वरसंज्ञातुग्विधिष्वनन्तर्भावादित्यत आह — नलोपे कृतेऽपीत्याद्यसिद्धत्वादित्यन्तम् । टाब्निषेधविधिरयं षट्संज्ञामपि विधत्ते, कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन् कर्तव्ये नवोपस्याऽसिद्धत्वेन षट्संज्ञाया निर्बाधतया षट्संज्ञानिबन्धनष्टाप्प्रतिषेधोऽत्र निर्बाध इति बावः । वस्तुतस्तु नलोपस्याऽसिद्धत्वेऽपि बूतपूर्वषट्संज्ञामाश्रित्य टाब्निषेध उपपद्यते । अत एव षट्संज्ञायां नलोपाऽसिद्धत्वस्य न फलमितिनलोपः सुप्स्वरे॑ति सूत्रभाष्ये उक्तमित्याहुः ।
टाबृचि - टाबृचि । पूर्वेण प्राप्तस्य ङीपोऽपवादः । यद्यपिपदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॑इति कोशात्पादसमानार्थकः पदशब्दोऽस्तीति तेनैवद्विपदा॒॑एकपदे॑ति रूपं सिध्यति, तथापि ऋचि वाच्यायांद्विपदी॒॑द्विपा॑दिति प्रयोगनिवृत्तये सूत्रारम्भोऽयमावश्यकः । असिद्धत्वादिति । एतच्चाऽसिद्धत्वेपवर्णनं कार्यकालपक्ष एवोपयुज्यते, न तु यथोद्देशपक्षे, सकृत्कृतायाः संज्ञायाः सर्वार्थत्वेन तस्याः पुनरपक्षाऽभावात् । न च॒पञ्च॑न्निति नान्तस्य कृतायामपि संज्ञायांपञ्चे॑त्यदन्तस्य न कृतेति शङ्क्यम्, एकदेशविकृतस्याऽनन्यत्वादित्याहुः । तदसत् । एकदेशविकृतस्योपसङ्ख्यानं हिस्थानिवदादेशोऽनल्विधा॑वित्यत्र पठते, तच्चाऽल्विधौ न प्रवर्तत एवेति यथोद्देशपक्षेऽप्यसिद्धत्ववर्णनस्य युक्तत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.