॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|83
SK 1073
4|1|83
प्राग्दीव्यतोऽण्  
SK 1073
सूत्रच्छेद:
प्राक् - अव्ययम् , दीव्यतः - पञ्चम्येकवचनम् , अण् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
प्राक्-दीव्यतः समर्थानां प्रथमात् अण् तद्धितः प्रत्ययः परः वा
सूत्रार्थ:
प्राक्-दीव्यतीय-अर्थेषु समर्थेभ्यः प्रथमात् अण्-प्रत्ययः औत्सर्गिकरूपेण भवति ।
तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः प्रथमः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः चतुर्थाध्यायस्य तृतीयपादस्य समाप्तिं यावत् आहत्य चतुष्चत्वारिंशत् (44) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः "प्राग्दीव्यतीय-अर्थाः" नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । अस्य अण्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।

अण्-प्रत्ययस्य कानिचन उदाहरणानि -
अ) गुरोः इदम् = गुरु + अण् = गौरव ।
आ) भानोः निवासः = भानु + अण् = भानव ।
इ) उपगोः अपत्यम् = उपगु + अण् = औपगव ।

प्रक्रिया इयम् -
गुरु + अण् [प्राग्दीव्यतोऽण् 4|1|83 इति अण्]
→ गौरु + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ गौरो + अ [ओर्गुणः 6|4|146 इति भसंज्ञकस्य अन्तिम-उकारस्य गुणः]
→ गौरव [एचोऽयवायावः इति अव-आदेशः]

44 प्राग्दीव्यतीयाः अर्थाः एतादृशाः -

1. तस्य अपत्यम् 4|1|92
2. तेन रक्तं रागात् 4|2|1
3. नक्षत्रेण युक्तः कालः 4|2|3
4. दृष्टं साम 4|2|7
5. परिवृतो रथः 4|2|10
6. तत्र उद्धृतम् अमत्रेभ्यः 4|2|14
7. संस्कृतं भक्षाः 4|2|16
8. सा अस्मिन् पौर्णमासी इति संज्ञायाम् 4|2|21
9. सा अस्य देवता 4|2|24
10. तस्य समूहः 4|2|37
11. विषयः देशे 4|2|52
12. सः अस्य आदिः इति छन्दसः प्रगाथेषु 4|2|55
13. तदस्यां प्रहरणम् इति क्रीडायाम् णः 4|2|57
14. तद् अधीते तद् वेद 4|2|59
15. तद् अस्मिन् अस्ति इति देशे तत् नाम्नि 4|2|67
16. तेन निर्वृत्तम् 4|2|68
17. तस्य निवासः 4|2|69
18. अदूरभवः च 4|2|70
19. तत्र जातः 4|3|25
20. कृत-लब्ध-क्रीड-कुशलाः 4|3|38
21. प्रायभवः 4|3|39
22. सम्भूते 4|3|41
23. कालात् साधु-पुष्प्यत्-पच्यमानेषु 4|3|43
24. उप्ते च 4|3|44
25. देयम् ऋणे 4|3|47
26. व्याहरति मृगः 4|3|51
27. तदस्य सोढम् 4|3|52
28. तत्र भवः 4|3|53
29. तस्य व्याख्यानः इति च व्याख्यातव्यनाम्नः 4|3|66
30. ततः आगतः 4|3|74
31. प्रभवति 4|3|83
32. तत् गच्छति पथिदूतयोः 4|3|85
33. अभिनिष्क्रामति द्वारम् 4|3|86
34. अधिकृत्य कृते ग्रन्थे 4|3|87
35. सः अस्य निवासः 4|3|89
36. अभिजनः च 4|3|90
37. भक्तिः 4|3|95
38. तेन प्रोक्तम् 4|3|101
39. तेन एकदिक् 4|3|112
40. उपज्ञाते 4|3|115
41. कृते ग्रन्थे 4|3|116
42. तस्य इदम् 4|3|120
43. तस्य विकारः 4|3|134
44. अवयवे च प्राणी-ओषधि-वृक्षेभ्यः 4|3|135
One-line meaning in English
The अण् प्रत्यय is used as a default for the प्राग्दीव्यतीय meanings.
काशिकावृत्तिः
"तेन दीव्यति" इति वक्ष्यति। तदेकदेशः "दीव्यत्"शब्दः अवधित्वेन गृह्यते। प्राग् दीव्यत्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः, अण् प्रत्ययः तत्र भवति इति वेदितव्यम्। अधिकारः, परिभाषा, विधिः वा -इति त्रिष्वपि दर्शनेषु अवादविषयं परिहृत्य अण् प्रवर्तते। वक्ष्यति, तस्य अपत्यम् 4|1|92 औपगवः। कापटवः।
`प्राग्दीव्यत्` इत्ययुक्तोऽयं निर्देशः , यावता `दीव्यति` 4|4|2 इति वक्ष्यति, न तु दीव्यदिति, तत्र दीव्यतीशब्दस्यावधित्वेनोपादाने दीव्यतेरिति निर्देशेन भवितव्यम्? इत्यत आह-- `तदेकदेशः`इत्यादि। समस्तस्य दीव्यतिशब्दस्यावधित्वेनोपादाना#ए सति न युज्येतायं निर्देशः, न तु समस्तस्योपादानम्, अपि तु तदेकदेशस्य दीपव्यच्छब्दस्येत्यदोषः। अथ किमर्थं दीव्यद्ग्रहणं प्राग्ग्रहणञ्चत, नणित्येवाधिकारः क्रियताम्? नैवं शक्यम्ेवं हि क्रियमाणे `स्त्रीभ्यो ढक्` 4|1|120 इत्येवमादिनाऽधिकारान्तरेण विच्छिननस्याणः `तेन रक्तं रागात्` 4|2|1 इत्येवमादिषु पुनग्र्रहणं कत्र्तव्यं जायेत। अवधिनाधिकारपरिमाण आख्याते तदवधिकेष्वर्थेषु सर्वेष्वयमभ्यनुज्ञायत इतिपुनरण्ग्रहणं कत्र्तव्यं न भवति। तस्मादधिकारपरिमाणज्ञापनार्थं दीव्यद्ग्रहणं तावत्कत्र्तव्यम्। प्राग्ग्रहणमपि कत्र्तव्यमेव तस्यैवावधित्वद्योतनार्थम्। असति हि तस्मिन् `दीव्यतोऽण्` इत्युच्यमाने प्रकृतिरणो दीव्यच्छब्दो विज्ञायेत। `त्रिष्वपि दर्शनेषु` इत्यादि। कथं पुनरियमपवादविषयपरिहारेणाणः प्रवृत्तिर्लभ्यते, यावताधिकारे तस्मिन् सति प्रतियोगमुपस्थानादपवादविषयेऽप्यण् प्राप्नोति-- `अत इञ् अण् च` इति, अन्यथा हि तस्य तत्रोपादानमनर्थकं स्यात्? परिभाषापक्षेऽपि प्राग्दीव्यतोऽर्थेष्वणित्यविशेषेण परिभाषिते सामान्येन परिभाषा प्रवत्र्तमाना केनापवादविषयं परिहरेत्? विधावपि प्राग्दीव्यतो याः प्रकृतयस्ताः सर्वा इहैकध्यमुपनीयाण् विधीयमानः सर्वतः प्रवत्र्तेत, अन्यथा सर्वतो विधानमनर्थकं स्यात्? एवं मन्यते-- ज्ञापकादपवादविषये न भविष्यतीति, यदयं क्वचिद्वाग्रहणमन्यतरस्यांग्रहणञ्च करोति-- `पीलाया वा` 4|1|118 , `उदइआतोऽन्यतरस्याम् 4|2|18 इति,तज्ज्ञापयति-- नापवादविषयेऽण् भवतीति। विधौ तु भूयान् परीहारः। न हि प्राग्दीव्यतो याः प्रकृतयस्ताभ्योऽण् विधीयते, किं तर्हि? प्राग्दीव्यतो येऽर्थास्तेषु। तत्र समानार्थे प्रकृतिविशेषादुत्पाद्यमान इञणं बाधिष्यत इति। अथ किमर्थमियानवधिरुपादीयते, न प्राक् ठक इत्येवोच्येत, `प्राग्वहतेष्ठक्` 4|4|1 इत्येतस्माट्ठकः प्रागित्यर्थः? नैवं शक्यम्; `दध्नष्ठक्` 4|2|17 इत्येवमादिरपि ठगवधित्वेन विज्ञायते। `प्राक् कंसीयात्` इत्येवं तर्हि वक्तव्यम्-- `कंसीयपरशब्दयोर्यञञौ लुक् च` 4|3|168 इति,तत्र यः कंसीयशब्दस्ततः प्रागित्यर्थः? एवमप्यशक्यं वक्तुम्; `द्विगोर्लुगनपत्ये` 4|1|88 इत्येतयापि कंसीयादुत्पद्येत, ततश्च द्वयोः कंसीययोर्विकारो द्विकंस इत्यत्र लुङ्न स्यात्। तस्माद्यथान्यासमेवास्तु॥
तेन दीव्यतीति वक्ष्यतीति । यदि तस्येदमनुकरणं प्राग्दीव्यतेरिति वक्तव्यम्, कथं प्राग्दीव्यत इति निर्देशः ? अत आह---तदेकदेश इति । भवति हि समुदायगुणीभूतस्याप्येकदेशस्य पृथक्कृत्यानुकरणम्, यथा---अस्यवामीयमित्यत्रेति भावः । ठ्प्रत्ययःऽ इत्यादिवदणित्येवाधिकारे सति ठत इञ्ऽ इत्यादिनापवादप्रकरणेन विच्छिन्नस्याणः ठ्तेन रक्तं रागात्ऽ इत्यादिष्वर्थेषूपस्थानं न स्यात् । तस्मादधिकारपरिमाणख्यापनार्थं प्राग्दीव्यंत इत्युक्तम् । त्रिष्वपि दर्शनेष्वित्यादि । नन्वधिकारपक्षेऽपि प्रतियोगमुपस्थानादत इञ् अण्वेत्यणपि प्राप्नोति, परिभाषापक्षेऽपि प्राग्दीव्यतीयाः प्रकृतयस्ताभ्यः सर्वाभ्योऽण् परिभाष्यमाणः केनापवादविषये न स्यात्, एवं विधिपक्षेऽपि सर्वत्र प्रसङ्गः ? एवं मन्यते---यदयं ठ्पीलाया वाऽ इति सूत्रमारभते, तद् ज्ञापयति---नापवादविषयेऽण् भवतीति; अन्यथा ठ्द्वयचःऽ इति ढक् सिद्धः, अनेन चाणित्यनर्थकं तत्स्यादिति । ठुदश्वितोऽन्यतरस्याम्ऽ इति विकल्पवचनमप्यस्मिन्नर्थे लिङ्गम् । वयं तु ब्रूमः---ठ्प्राग्दीव्यतःऽ इति नेदं दीव्यतीतिशब्दैकदेशस्य दीव्यच्छब्दस्यानुकरणम्, किं तर्हि ? तत्रत्योऽर्थो निर्दिश्यते---दीव्यतोऽर्थात्प्रागिति । तत्र दिवेर्लटि कृतेऽर्थादित्यनेन गम्यमानार्थत्वादप्रयुक्तेनाप्यप्रथमान्तेन सामानाधिकरण्याल्लटः शत्रादेशः कृतः । तत्रावधेरर्थत्वादवधिमन्तोऽप्यर्था एव प्रतीयन्ते, सजातीयविषयत्वेन प्रसिद्धतरत्वादवध्यवधिमद्भावस्य, ततश्च प्राग्दीव्यतो येऽर्थास्तेष्वेवास्य त्रिष्वपि पक्षेषु व्यापारः । तत्र समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादोऽणं बाधत इति सिद्धमिष्टम् ॥
सिद्धान्तकौमुदी
तेन दीव्यति (कौमुदी-1550) इत्यतः प्रागणधिक्रियते ॥
प्राग्दीव्यतोऽण् - प्राग्दीव्यतोऽण् ।तेन दीव्यति खनति जयति जित॑मिति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्घटितं तत्सूत्रं लक्ष्यते । तदाह — तेन दीव्यतीत्यतः प्रागिति । तथाचतस्यापत्य॑मित्याद्युत्तरसूत्रेषु विधेयप्रत्ययविशेषाऽसंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते ।कस्माद्भवती॑त्याकाङ्क्षायांसमर्थात्प्रथमा॑दिति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राऽणिति नोपतिष्ठते, अमित्यस्यौत्सर्गिकतया वैशेषिकेणेञादिना बाधात् ।
प्राग्दीव्यतोऽण् - प्राग्दिश इतीति । तत उत्तरेषां प्रत्ययानां स्वार्थिकत्वेनसमर्थानां॑,प्रथमा॑दिति पदयोः प्रयोजनं नेति भावः । ननुसमर्थः पदविधि॑रिति परिभाषया गतार्थत्वात्समर्थाना॑मित्येतव्द्यर्थम् । न च पदविधित्वं नेति शङ्क्यं,घकालतनेषु॑इत्यलिग्विधानात्सुबन्तात्तद्धितोत्पत्ति॑रिति सिद्धान्तस्य सकलसंमतत्वादत आह — सामथ्र्यमिति । कृतसन्धिकार्यत्वमिति । अस्य फलं तुतस्यापत्य॑मिति सूत्रे मूल एव स्फुटीभविष्यति । इहसमर्थात्प्रथमाद्वे॑ति वक्तुं युक्तम् । महोत्सर्गानाह — -प्राग्दीव्यत इत्यादीना । सूत्रेदीव्य॑दित्येकदेशोऽनर्थकोऽप्यवधित्वेनोपात्तःप्राग्रीआरा॑दितिवदित्येके । अन्ये त्वाहुः — ॒दीव्य॑दिति शत्रन्तम् । तेन देवनकर्ता अर्थ एवावधिरिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्राग्दीव्यतोऽण् (1329) (अणधिकाराधिकरणम्) (आक्षेपभाष्यम्) अयुक्तोऽयं निर्देशः, न हि तत्र कश्चिद् दीव्यच्छब्दः पठ्यते। कस्तर्हि? दीव्यतिशब्दः। कथं तर्हि निर्देशः कर्तव्यः? प्राग्दीव्यतेरिति। स तर्हि तथा निर्देशः कर्तव्यः ‐ प्राग्दीव्यतेरिति? (समाधानभाष्यम्) न कर्तव्यः। दीव्यतिशब्दे दीव्यच्छब्दोऽस्ति तस्मादेषा पञ्ञ्चमी।। (परिभाषाज्ञापकपरभाष्यम्) किं पुनः कारणं विकृतनिर्देशः क्रियते? एतज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा ‐ एकदेशविकृतमनन्यवद्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? एकदेशविकृतेषूपसंख्यानं चोदितं तन्न कर्तव्यं भवति। अथ वा प्राक्शब्दोऽयं दिक्शब्दः, दिक्शब्दैश्च योगो पञ्ञ्चमी भवति। तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति।। (पदकृत्यभाष्यम्) अथ प्राग्वचनं किमर्थम्? (5227 सिद्धान्तवार्तिकम्।। 1 ।।) - प्राग्वचनं सकृद्विधानार्थम् - (भाष्यम्) प्राग्वचनं क्रियते, सकृद्विधानार्थम्। सकृद्विहितः प्रत्ययो विहितो यथा स्यात्। योगे योगे तस्य ग्रहणं मा कार्षमिति।। (आक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। अधिकारादप्येतत् सिद्धम् ‐ अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते।। (5228 समाधानवार्तिकम्।। 2 ।।) - अधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्गः - (भाष्यम्) अधिकारात् सिद्धमिति चेदपवादविषयेऽण् प्राप्नोति ‐ अत इञ्ञ् (4।1।95) अण्चेत्यणपि प्राप्नोति।। (5229 सिद्धान्तवार्तिकम्।। 3 ।।) - तस्मात् प्राग्वचनम् - (भाष्यम्) तस्मात्प्राग्वचनं कर्तव्यम्।। (सूत्रार्थविषये पक्षद्वयबोधकं भाष्यम्) अथ क्रियमाणेऽपि प्राग्वचने कथमिदं विज्ञायते ‐ प्राग्दीव्यतो याः प्रकृतय इति, आहो स्वित्प्राग्दीव्यतो येऽर्था इति। किं चातः? यदि विज्ञायते प्राग्दीव्यतो याः प्रकृतय इति, स एव दोषः, अपवादविषयेऽण्प्रसङ्ग इति।। अथ विज्ञायते प्राग्दीव्यतो येऽर्था इति, न दोषो भवति। समानेऽर्थे प्रकृतिविशेषादुत्पद्यमान इञ्ञणं बाधते। यथा न दोषस्तथाऽस्तु।। (अन्यतरपक्षेऽभिनिवेशभाष्यम्) प्राग्दीव्यतो येऽर्था इति विज्ञायते। कुत एतत् ‐ तथा ह्ययं प्राधान्येनार्थं प्रतिनिर्दिशति। इतरथा हि बह्व्यस्तत्र प्रकृतयः पठ्यन्ते, ततो यां कां चिदेव निमित्तत्वेनोपाददीत।। अथ वा पुनरस्तु प्राग्दीव्यतो याः प्रकृतय इति। ननु चोक्तमपवादविषयेऽण्प्रसङ्ग इति।। (5230 एकदेशिसमाधानवार्तिकम्।। 4 ।।) - न वा क्व चिद्वावचनात् - (भाष्यम्) न वा एष दोषः। किं कारणम्? क्व चिद्वावचनात्। यदयं क्व चिद्वावचनं करोति ‐ पीलाया वा (4।1।118), उदश्वितोऽन्यतरस्याम् (4।2।19) इति, तज्ज्ञापयत्याचार्यो नापवादविषयेऽण्भवतीति।। (एकदेशिसिद्धान्तभाष्यम् यद्येतज्ज्ञाप्यते नार्थः प्राग्वचनेन। अधिकारात्सिद्धम्। ननु चोक्तमधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्ग इति। नैष दोषः। परिहृतमेतत् ‐ न वा क्व चिद्वावचनादिति।। किं पुनः कारणमियानवधिर्गृह्यते, न प्राक् ठकः इत्येवोच्येत? एतज्ज्ञापयत्यर्थेष्वयम्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? प्रकृतिविशेषादुत्पद्यमान इञ्ञ्-अणं बाधते।।