Page loading... Please wait.
4|1|8 - पादोऽन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|1|8
SK 457
पादोऽन्यतरस्याम्  
सूत्रच्छेदः
पादः (पञ्चम्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पादः इति कृतसमासान्तः पादशब्दो निर्दिश्यते। पादन्तात् प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप् प्रत्ययो भवति। द्विपात्, द्विपदी। त्रिपात्। त्रिपदी। चतुष्पाद्, चतुष्पदी।
`पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते` इति। अथ `पद गतौ` (धातुपाठः-1169) इत्यस्माण्ण्यन्तात् `अन्येभ्योऽपि दृश्यते` 3|2|178 इति क्विपि कृते यत् पादिति रूपं निष्पद्यते रूपं निष्पद्यते तस्य ग्रहणं कस्मान्न विज्ञायते? विज्ञायते यदि पादयतेः क्विब् दृश्येत्, स तु न दृश्यते; अनभिधानात्। `द्विपात्, द्विपदी` इति। द्वौ पादादस्या इति बहुव्रीहिः। `पादस्य लोपः` 5|4|138 इत्यनुवत्र्तमाने `संख्यासुपूर्वस्य` 5|4|140 इत्यकारलोपः, `पादः पत्` 6|4|130 इति पद्भावः॥
पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यत इति । उतरसूत्रे ऋच्यभिधेयायां तस्यैव सम्भवात्, तेन पादयते क्विबन्तस्य ग्रहणं न भवति । द्विपदीति । द्वौ पादावस्य इति ठ्बहुव्रीहौ संख्यासुपूर्वस्यऽ इत्यकारलोपे ठ्पादः पत्ऽ इति पद्भावः ॥
सिद्धान्तकौमुदी
पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥
पादोऽन्यतरस्याम् - पादो । कृतसमासान्त इति । अन्तलोपात्मके समासान्ते कृते परिशिष्टः पाच्छशब्द इह गृह्रत इत्यर्थः । तदन्तादिति । पाच्छब्दान्तादित्यर्थः । "पाद" इति पञ्चम्यन्तेनप्रातिपदिका॑दित्यधिकृतस्य विशेषणादिति भावः । ङीब्वा स्यादिति । "ऋन्नेभ्यः" इत्यतस्तदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यस्या इति बहुव्रीहिः ।सङ्ख्यासुपूर्वस्ये॑ति पादशब्दान्तस्याऽकारस्य लोपः । ङीपि भत्वात्पादः पत् । द्विपदिति रूपम् । ङीबभावे तुद्विपादिति ।
पादोऽन्यतरस्याम् - द्विपादिति । द्वौ पादौ यस्या इति बहुव्रीहौबहुधीवरीति । ॑बहवो धीवानो यस्यां नगर्या॒मिति विग्रहः । पक्षे डाबिति ।डाबुभाभ्या॑मिति सूत्रेण । तथाच द्विवचनेबहुधीवर्यौ॒॑बहुधीवानौ॒॑बहुधीवे॑इति रुपत्रयं भवतीति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.