॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|74
SK 528
4|1|74
यङश्चाप्‌  
SK 528
सूत्रच्छेद:
यङः - पञ्चम्येकवचनम् , चाप् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति। ञ्यङः ष्यङश्च सामान्यग्रहणम् एतत्। आम्बष्ठ्या। सौवीर्या। कौसल्या। ष्यङ् कारीषगन्ध्या। वाराह्रा। बालाक्या। षाच् च यञः। षात् परो यो यञ् तदन्ताच् चाप् वक्तव्यः। शार्कराक्ष्या। अपुतिमाष्या। गौकक्ष्या। उत्तरसूत्रे चकारो ऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति।
पकारोऽत्र `ङ्याप्प्रातिपदिकात्` 4|1|1 इत्यत्र सामान्यग्रहणार्थः,चकारस्तदविघातार्थः, एवमुभयोरन्यत्र चरितार्थयोः `अनुदात्तौ सुप्पितौ` 3|1|4 इत्येतद्बाधित्वा परत्वात् `चितः` 6|1|157 इत्यन्तोदात्तत्वं चापो भवति। `ञ्यङः ष्यङश्च सामान्यग्रहणमेतत्` इति। विशेषकरानुबन्धानुत्सृज्य यत्सामान्यं यङमात्रं तस्येदं ग्रहणम्। कथं पुनः सामान्यग्रहणं युज्यते; यावता ञ्यङ एव तत्र ग्रहणं युक्तम्, तथा हि-- सोऽपत्ये विधीयमानः स्त्रीत्वं वक्तुमसमर्थ इति स्त्रीप्रत्ययमपेक्षते, न तु ष्यङ, तस्य स्त्रियामेव विधानात्? नैतदस्ति; यदि हि सामान्यग्रहणं न स्यात् ष्यङो ङित्करणमनर्थकं स्यात्। तस्य ह्रत्र सूत्रे सामान्यग्रहणेव प्रयोजनम्, नान्यत किञ्चित्। तस्मात् ङित्करणसामथ्र्यात् ष्यङोऽपि ग्रहणं भवति। `आम्बष्ठआ` इत्यादि। आम्बष्ठसौवीरकोसलशब्देभ्योऽपत्येऽर्थे `वृद्धेत्कोसलाजादाञ्ञ्यङ्` 4|1|169 इति ञ्यङ्, तदन्ताच्चाप्। `कारीषगन्ध्या` इति। एतत् स्वादिसूत्रे 4|1|2 व्युत्पादितम्। `वाराह्रा` इति। वराहशब्दात् `अत इञ्` 4|1|95 । `बालाक्या` इति। बलाकाशब्दाद्बाह्वादिलक्षम इञ्। उभयत्र `अणिञोरनार्षयोः` 4|1|78 इत्यादिना ष्यङादेशः, तदन्ताच्चाप्।`शार्कराक्ष्या` इत्यादि। शर्कराक्षपूतिमाषगोरक्षशब्देभ्यो गर्गादियञन्तेभ्यश्चाप्॥
पकारः ङ्याप्प्रातिपदिकात्ऽ इत्यत्र सामान्यग्रहणार्थः, स्वरस्तु परत्वाच्चित्स्वर एव भवति । ञ्यङः ष्यङ्श्च सामान्यग्रहणमिति । यद्यपि ष्यङ्स्त्रियामेव विधीयते, तथापि डित्करणसामर्थ्यातस्याप्यत्र ग्रहणमिति भावः । आम्बष्ट।लेत्यादि । अम्बष्ठादिभ्योऽपत्ये ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कारीषगन्ध्येति । स्वादिसूत्रे व्युत्पादितम् । वराहशब्दात् ठत इञ्ऽ। शर्कराक्ष-पूतिमाषगोकक्षशब्दा गर्गादयः । ननु च गौकाक्ष्यशब्दः क्रौड।लदिषु पठ।ल्ते, ततः ष्यङः ठ्यिङ्ऽ इत्येव चाप् सिद्धः ? मा पाठि, तत्र ठ्षाच्च यञःऽ इत्यनेनैव शर्कराक्ष्यादिवद् गौकाक्ष्येति सिद्धम् । यद्येवम्, गौकाक्षीपुत्रः---ष्यङः सम्प्रसारणं न प्राप्नोति ? नात्र सम्प्रसारणमिष्यते, गौकाक्ष्यापुत्र इत्येव भवति । एवं हि सौनागाः पठन्ति---ठ्ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधःऽ ॥
सिद्धान्तकौमुदी
यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या ॥ ।षाद्यञश्चाप् वाच्यः (वार्तिकम्) ॥ पौतिमाष्या ॥
यङश्चाप् - यङश्चाप् । पकारो "हल्ङ्याब्भ्यः" इत्यत्र ग्रहणार्थः । चकारः "चितः" इत्यन्तोदात्तार्थः । सामान्येति । यङ्रूपस्य उभयत्रापि सत्त्वादिति भावः । ञ्यङमुदाहरति — आम्बष्ठएति । आम्बषष्ठस्यापत्यं स्त्रीत्यर्थः ।वृद्धेत्कोसले॑ति ञ्यङ् । आम्बष्ठशब्दाच्चाप् । ष्यङमुदाहरति — कारीषगन्ध्येति । करीषं=गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः-करीषगन्धिः ।उपमानाच्चे॑ति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेर्गोत्रापत्यं स्त्रीत्यर्थेऽण्प्रत्ययः । "अणिञोरनार्षयोः" इति तस्य ष्यङादेशः । षाद्यञ इति । षकारात्परो यो यञतदन्तादपि चाबित्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाषस्यापत्यं स्त्रीत्यर्थः ।गर्गादिभ्यो य॑ञित्युभयत्र यञ् ।
यङश्चाप् - यङ्श्चाप् । पकारोऽत्रहल्ङ्याबि॑ति सामान्ग्रहणार्थः । चकारस्य तदविघातेन चरितार्थत्वेऽपि परत्वाच्चित्स्वरः पित्स्वरं बाधते । आम्बष्ठएति । आम्बष्ठस्यापत्यं स्त्री ।वृद्धेत्कोशला — — ॑इति ञ्यङ् । कारीषगन्ध्येति । करीषस्येव गन्धोऽस्य करीषगन्धिः ।उपमानाच्चे॑ति गन्धस्येदन्तादेशः । तस्य गोत्रापत्यं स्त्री । अण् ।अणिञोरनार्षयोः — — ॑इति ष्यङादेशः । स च यद्यपि स्त्रियामेव विहितसतथापि ङित्करणसामथ्र्यात्तदन्तादप्ययं चाप् । षाद्यञ इति । एतच्चआवटआच्चे॑ति चकारस्यानुक्त समुच्चयार्थत्वाल्लभ्यत इत्यहुः । पौतिमष्येति । पूतिमाषशब्दो गर्गादिः ।षाद्यञश्चाववाच्यः । तद्धिताः । बहुवचनमनुक्तानामुपसङ्ग्येयानां सङ्ग्रहार्थम् । महासंज्ञाकरणं तु — तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थलाभाय । तेन यथाप्रयोगमेव स्युः । ननु टापः प्रागेवायमधिकारोऽस्तु, ष्फविधौ तद्धितग्रहणं यस्येतिलोपे, ईद्ग्रहणं च मास्त्विति चेन्मैवम्;पठ्वी॒॑मृद्वी॑त्यादावोर्गुणपर्सङ्गात् । यदि तुयस्येति चे॑त्यत्र ईद्ग्रहणमेव ङीषि तद्धितकार्याऽभावं ज्ञापयतीति स्वीक्रियेत, तर्हि टापः प्राक्तद्धिताधिकारेऽपि न कश्चिद्दोष इथि केचित् । तच्चिन्त्यम् ।कुरु॑रित्यादौ ओर्गुणादिप्रसङ्गादिति नव्याः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
यङश्चाप् (1324) (चापोऽधिकरणम्) (5212 विध्यंशपूरकवार्तिकम्।। 1 ।।) - षाच्च यञ्ञश्चाप् - (भाष्यम्) षाच्च यञ्ञश्चाब्वक्तव्यः। शार्कराक्ष्या, पौतिमाष्या। तत्रायमप्यर्थः ‐ गौकक्ष्यशब्दः क्रौडयादिषु पठ्यते, स न पठितव्यो भवति। यदि न पठ्यते, गौकक्षीपुत्रः इति संप्रसारणं न प्राप्नोति। इष्टमेवैतत्संगृहीतम् ‐ गौकक्ष्यापुत्रः इत्येव भवितव्यम्। एवं हि सौनागाः पठन्ति ‐ ष्यङः संप्रसारणे गौकक्ष्यायाः प्रतिषेधः। इति।।